॥ ॐ श्री गणपतये नमः ॥

२ सर्गः
नारदस्य तु तद्वाक्यं श्रुत्वा वाक्यविशारदः।पूजयामास धर्मात्मा सहशिष्यो महामुनिः॥ १यथावत्पूजितस्तेन देवर्षिर्नारदस्तदा।आपृष्ट्वैवाभ्यनुज्ञातः स जगाम विहायसम्॥ २स मुहूर्तं गते तस्मिन्देवलोकं मुनिस्तदा।जगाम तमसातीरं जाह्नव्यास्त्वविदूरतः॥ ३स तु तीरं समासाद्य तमसाया महामुनिः।शिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम्॥ ४अकर्दममिदं तीर्थं भरद्वाज निशामय।रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा॥ ५न्यस्यतां कलशस्तात दीयतां वल्कलं मम।इदमेवावगाहिष्ये तमसातीर्थमुत्तमम्॥ ६एवमुक्तो भरद्वाजो वाल्मीकेन महात्मना।प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः॥ ७स शिष्यहस्तादादाय वल्कलं नियतेन्द्रियः।विचचार ह पश्यंस्तत्सर्वतो विपुलं वनम्॥ ८तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम्।ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिस्वनम्॥ ९तस्मात्तु मिथुनादेकं पुमांसं पापनिश्चयः।जघान वैरनिलयो निषादस्तस्य पश्यतः॥ १०तं शोणितपरीताङ्गं वेष्टमानं महीतले।भार्या तु निहतं दृष्ट्वा रुराव करुणां गिरम्॥ ११तथा तु तं द्विजं दृष्ट्वा निषादेन निपातितम्।ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत॥ १२ततः करुणवेदित्वादधर्मोऽयमिति द्विजः।निशाम्य रुदतीं क्रौञ्चीमिदं वचनमब्रवीत्॥ १३मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः।यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम्॥ १४तस्यैवं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः।शोकार्तेनास्य शकुनेः किमिदं व्याहृतं मया॥ १५चिन्तयन्स महाप्राज्ञश्चकार मतिमान्मतिम्।शिष्यं चैवाब्रवीद्वाक्यमिदं स मुनिपुंगवः॥ १६पादबद्धोऽक्षरसमस्तन्त्रीलयसमन्वितः।शोकार्तस्य प्रवृत्तो मे श्लोको भवतु नान्यथा॥ १७शिष्यस्तु तस्य ब्रुवतो मुनेर्वाक्यमनुत्तमम्।प्रतिजग्राह संहृष्टस्तस्य तुष्टोऽभवद्गुरुः॥ १८सोऽभिषेकं ततः कृत्वा तीर्थे तस्मिन्यथाविधि।तमेव चिन्तयन्नर्थमुपावर्तत वै मुनिः॥ १९भरद्वाजस्ततः शिष्यो विनीतः श्रुतवान्गुरोः।कलशं पूर्णमादाय पृष्ठतोऽनुजगाम ह॥ २०स प्रविश्याश्रमपदं शिष्येण सह धर्मवित्।उपविष्टः कथाश्चान्याश्चकार ध्यानमास्थितः॥ २१आजगाम ततो ब्रह्मा लोककर्ता स्वयं प्रभुः।चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुंगवम्॥ २२वाल्मीकिरथ तं दृष्ट्वा सहसोत्थाय वाग्यतः।प्राञ्जलिः प्रयतो भूत्वा तस्थौ परमविस्मितः॥ २३पूजयामास तं देवं पाद्यार्घ्यासनवन्दनैः।प्रणम्य विधिवच्चैनं पृष्ट्वानामयमव्ययम्॥ २४अथोपविश्य भगवानासने परमार्चिते।वाल्मीकये महर्षये संदिदेशासनं ततः॥ २५उपविष्टे तदा तस्मिन्साक्षाल्लोकपितामहे।तद्गतेनैव मनसा वाल्मीकिर्ध्यानमास्थितः॥ २६पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना।यस्तादृशं चारुरवं क्रौञ्चं हन्यादकारणात्॥ २७शोचन्नेव मुहुः क्रौञ्चीमुपश्लोकमिमं पुनः।जगावन्तर्गतमना भूत्वा शोकपरायणः॥ २८तमुवाच ततो ब्रह्मा प्रहसन्मुनिपुंगवम्।श्लोक एव त्वया बद्धो नात्र कार्या विचारणा॥ २९मच्छन्दादेव ते ब्रह्मन्प्रवृत्तेयं सरस्वती।रामस्य चरितं सर्वं कुरु त्वमृषिसत्तम॥ ३०धर्मात्मनो गुणवतो लोके रामस्य धीमतः।वृत्तं कथय धीरस्य यथा ते नारदाच्छ्रुतम्॥ ३१रहस्यं च प्रकाशं च यद्वृत्तं तस्य धीमतः।रामस्य सह सौमित्रे राक्षसानां च सर्वशः॥ ३२वैदेह्याश्चैव यद्वृत्तं प्रकाशं यदि वा रहः।तच्चाप्यविदितं सर्वं विदितं ते भविष्यति॥ ३३न ते वागनृता काव्ये काचिदत्र भविष्यति।कुरु रामकथां पुण्यां श्लोकबद्धां मनोरमाम्॥ ३४यावत्स्थास्यन्ति गिरयः सरितश्च महीतले।तावद्रामायणकथा लोकेषु प्रचरिष्यति॥ ३५यावद्रामस्य च कथा त्वत्कृता प्रचरिष्यति।तावदूर्ध्वमधश्च त्वं मल्लोकेषु निवत्स्यसि॥ ३६इत्युक्त्वा भगवान्ब्रह्मा तत्रैवान्तरधीयत।ततः सशिष्यो वाल्मीकिर्मुनिर्विस्मयमाययौ॥ ३७तस्य शिष्यास्ततः सर्वे जगुः श्लोकमिमं पुनः।मुहुर्मुहुः प्रीयमाणाः प्राहुश्च भृशविस्मिताः॥ ३८समाक्षरैश्चतुर्भिर्यः पादैर्गीतो महर्षिणा।सोऽनुव्याहरणाद्भूयः शोकः श्लोकत्वमागतः॥ ३९तस्य बुद्धिरियं जाता वाल्मीकेर्भावितात्मनः।कृत्स्नं रामायणं काव्यमीदृशैः करवाण्यहम्॥ ४०उदारवृत्तार्थपदैर्मनोरमैस्तदास्य रामस्य चकार कीर्तिमान्।समाक्षरैः श्लोकशतैर्यशस्विनोयशस्करं काव्यमुदारधीर्मुनिः॥ ४१इति श्रीरामायणे बालकाण्डे द्वितीयः सर्गः ॥ २
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved