१० सर्गः
भूय एव च राजेन्द्र शृणु मे वचनं हितम्।यथा स देवप्रवरः कथायामेवमब्रवीत्॥ १इक्ष्वाकूणां कुले जातो भविष्यति सुधार्मिकः।राजा दशरथो नाम्ना श्रीमान्सत्यप्रतिश्रवः॥ २अङ्गराजेन सख्यं च तस्य राज्ञो भविष्यति।कन्या चास्य महाभागा शान्ता नाम भविष्यति॥ ३पुत्रस्त्वङ्गस्य राज्ञस्तु लोमपाद इति श्रुतः।तं स राजा दशरथो गमिष्यति महायशाः॥ ४अनपत्योऽस्मि धर्मात्मञ्शान्ताभर्ता मम क्रतुम्।आहरेत त्वयाज्ञप्तः संतानार्थं कुलस्य च॥ ५श्रुत्वा राज्ञोऽथ तद्वाक्यं मनसा स विचिन्त्य च।प्रदास्यते पुत्रवन्तं शान्ता भर्तारमात्मवान्॥ ६प्रतिगृह्य च तं विप्रं स राजा विगतज्वरः।आहरिष्यति तं यज्ञं प्रहृष्टेनान्तरात्मना॥ ७तं च राजा दशरथो यष्टुकामः कृताञ्जलिः।ऋश्यशृङ्गं द्विजश्रेष्ठं वरयिष्यति धर्मवित्॥ ८यज्ञार्थं प्रसवार्थं च स्वर्गार्थं च नरेश्वरः।लभते च स तं कामं द्विजमुख्याद्विशां पतिः॥ ९पुत्राश्चास्य भविष्यन्ति चत्वारोऽमितविक्रमाः।वंशप्रतिष्ठानकराः सर्वलोकेषु विश्रुताः॥ १०एवं स देवप्रवरः पूर्वं कथितवान्कथाम्।सनत्कुमारो भगवान्पुरा देवयुगे प्रभुः॥ ११स त्वं पुरुषशार्दूल तमानय सुसत्कृतम्।स्वयमेव महाराज गत्वा सबलवाहनः॥ १२अनुमान्य वसिष्ठं च सूतवाक्यं निशम्य च।सान्तःपुरः सहामात्यः प्रययौ यत्र स द्विजः॥ १३वनानि सरितश्चैव व्यतिक्रम्य शनैः शनैः।अभिचक्राम तं देशं यत्र वै मुनिपुंगवः॥ १४आसाद्य तं द्विजश्रेष्ठं लोमपादसमीपगम्।ऋषिपुत्रं ददर्शादौ दीप्यमानमिवानलम्॥ १५ततो राजा यथान्यायं पूजां चक्रे विशेषतः।सखित्वात्तस्य वै राज्ञः प्रहृष्टेनान्तरात्मना॥ १६लोमपादेन चाख्यातमृषिपुत्राय धीमते।सख्यं संबन्धकं चैव तदा तं प्रत्यपूजयत्॥ १७एवं सुसत्कृतस्तेन सहोषित्वा नरर्षभः।सप्ताष्टदिवसान्राजा राजानमिदमब्रवीत्॥ १८शान्ता तव सुता राजन्सह भर्त्रा विशाम्पते।मदीयं नगरं यातु कार्यं हि महदुद्यतम्॥ १९तथेति राजा संश्रुत्य गमनं तस्य धीमतः।उवाच वचनं विप्रं गच्छ त्वं सह भार्यया॥ २०ऋषिपुत्रः प्रतिश्रुत्य तथेत्याह नृपं तदा।स नृपेणाभ्यनुज्ञातः प्रययौ सह भार्यया॥ २१तावन्योन्याञ्जलिं कृत्वा स्नेहात्संश्लिष्य चोरसा।ननन्दतुर्दशरथो लोमपादश्च वीर्यवान्॥ २२ततः सुहृदमापृच्छ्य प्रस्थितो रघुनन्दनः।पौरेभ्यः प्रेषयामास दूतान्वै शीघ्रगामिनः।क्रियतां नगरं सर्वं क्षिप्रमेव स्वलंकृतम्॥ २३ततः प्रहृष्टाः पौरास्ते श्रुत्वा राजानमागतम्।तथा प्रचक्रुस्तत्सर्वं राज्ञा यत्प्रेषितं तदा॥ २४ततः स्वलंकृतं राजा नगरं प्रविवेश ह।शङ्खदुन्दुभिनिर्घोषैः पुरस्कृत्य द्विजर्षभम्॥ २५ततः प्रमुदिताः सर्वे दृष्ट्वा तं नागरा द्विजम्।प्रवेश्यमानं सत्कृत्य नरेन्द्रेणेन्द्रकर्मणा॥ २६अन्तःपुरं प्रवेश्यैनं पूजां कृत्वा तु शास्त्रतः।कृतकृत्यं तदात्मानं मेने तस्योपवाहनात्॥ २७अन्तःपुराणि सर्वाणि शान्तां दृष्ट्वा तथागताम्।सह भर्त्रा विशालाक्षीं प्रीत्यानन्दमुपागमन्॥ २८पूज्यमाना च ताभिः सा राज्ञा चैव विशेषतः।उवास तत्र सुखिता कंचित्कालं सह द्विजा॥ २९इति श्रीरामायणे बालकाण्डे दशमः सर्गः ॥ १०
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved