॥ ॐ श्री गणपतये नमः ॥

१३ सर्गः
अथ संवत्सरे पूर्णे तस्मिन्प्राप्ते तुरङ्गमे।सरय्वाश्चोत्तरे तीरे राज्ञो यज्ञोऽभ्यवर्तत॥ १ऋश्यशृङ्गं पुरस्कृत्य कर्म चक्रुर्द्विजर्षभाः।अश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मनः॥ २कर्म कुर्वन्ति विधिवद्याजका वेदपारगाः।यथाविधि यथान्यायं परिक्रामन्ति शास्त्रतः॥ ३प्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः।चक्रुश्च विधिवत्सर्वमधिकं कर्म शास्त्रतः॥ ४अभिपूज्य ततो हृष्टाः सर्वे चक्रुर्यथाविधि।प्रातःसवनपूर्वाणि कर्माणि मुनिपुंगवाः॥ ५न चाहुतमभूत्तत्र स्खलितं वापि किंचन।दृश्यते ब्रह्मवत्सर्वं क्षेमयुक्तं हि चक्रिरे॥ ६न तेष्वहःसु श्रान्तो वा क्षुधितो वापि दृश्यते।नाविद्वान्ब्राह्मणस्तत्र नाशतानुचरस्तथा॥ ७ब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जते।तापसा भुञ्जते चापि श्रमणा भुञ्जते तथा॥ ८वृद्धाश्च व्याधिताश्चैव स्त्रियो बालास्तथैव च।अनिशं भुञ्जमानानां न तृप्तिरुपलभ्यते॥ ९दीयतां दीयतामन्नं वासांसि विविधानि च।इति संचोदितास्तत्र तथा चक्रुरनेकशः॥ १०अन्नकूटाश्च बहवो दृश्यन्ते पर्वतोपमाः।दिवसे दिवसे तत्र सिद्धस्य विधिवत्तदा॥ ११अन्नं हि विधिवत्स्वादु प्रशंसन्ति द्विजर्षभाः।अहो तृप्ताः स्म भद्रं ते इति शुश्राव राघवः॥ १२स्वलंकृताश्च पुरुषा ब्राह्मणान्पर्यवेषयन्।उपासते च तानन्ये सुमृष्टमणिकुण्डलाः॥ १३कर्मान्तरे तदा विप्रा हेतुवादान्बहूनपि।प्राहुः सुवाग्मिनो धीराः परस्परजिगीषया॥ १४दिवसे दिवसे तत्र संस्तरे कुशला द्विजाः।सर्वकर्माणि चक्रुस्ते यथाशास्त्रं प्रचोदिताः॥ १५नाषडङ्गविदत्रासीन्नाव्रतो नाबहुश्रुतः।सदस्यस्तस्य वै राज्ञो नावादकुशलो द्विजः॥ १६प्राप्ते यूपोच्छ्रये तस्मिन्षड्बैल्वाः खादिरास्तथा।तावन्तो बिल्वसहिताः पर्णिनश्च तथापरे॥ १७श्लेष्मातकमयो दिष्टो देवदारुमयस्तथा।द्वावेव तत्र विहितौ बाहुव्यस्तपरिग्रहौ॥ १८कारिताः सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदैः।शोभार्थं तस्य यज्ञस्य काञ्चनालंकृता भवन्॥ १९विन्यस्ता विधिवत्सर्वे शिल्पिभिः सुकृता दृढाः।अष्टाश्रयः सर्व एव श्लक्ष्णरूपसमन्विताः॥ २०आच्छादितास्ते वासोभिः पुष्पैर्गन्धैश्च भूषिताः।सप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि॥ २१इष्टकाश्च यथान्यायं कारिताश्च प्रमाणतः।चितोऽग्निर्ब्राह्मणैस्तत्र कुशलैः शुल्बकर्मणि॥ २२स चित्यो राजसिंहस्य संचितः कुशलैर्द्विजैः।गरुडो रुक्मपक्षो वै त्रिगुणोऽष्टादशात्मकः॥ २३नियुक्तास्तत्र पशवस्तत्तदुद्दिश्य दैवतम्।उरगाः पक्षिणश्चैव यथाशास्त्रं प्रचोदिताः।शामित्रे तु हयस्तत्र तथा जल चराश्च ये॥ २४ऋत्विग्भिः सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा।पशूनां त्रिशतं तत्र यूपेषु नियतं तदा।अश्वरत्नोत्तमं तस्य राज्ञो दशरथस्य ह॥ २५कौसल्या तं हयं तत्र परिचर्य समन्ततः।कृपाणैर्विशशासैनं त्रिभिः परमया मुदा॥ २६पतत्रिणा तदा सार्धं सुस्थितेन च चेतसा।अवसद्रजनीमेकां कौसल्या धर्मकाम्यया॥ २७होताध्वर्युस्तथोद्गाता हयेन समयोजयन्।महिष्या परिवृक्त्याथ वावातामपरां तथा॥ २८पतत्रिणस्तस्य वपामुद्धृत्य नियतेन्द्रियः।ऋत्विक्परम संपन्नः श्रपयामास शास्त्रतः॥ २९धूमगन्धं वपायास्तु जिघ्रति स्म नराधिपः।यथाकालं यथान्यायं निर्णुदन्पापमात्मनः॥ ३०हयस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाः।अग्नौ प्रास्यन्ति विधिवत्समस्ताः षोडशर्त्विजः॥ ३१प्लक्षशाखासु यज्ञानामन्येषां क्रियते हविः।अश्वमेधस्य चैकस्य वैतसो भाग इष्यते॥ ३२त्र्यहोऽश्वमेधः संख्यातः कल्पसूत्रेण ब्राह्मणैः।चतुष्टोममहस्तस्य प्रथमं परिकल्पितम्॥ ३३उक्थ्यं द्वितीयं संख्यातमतिरात्रं तथोत्तरम्।कारितास्तत्र बहवो विहिताः शास्त्रदर्शनात्॥ ३४ज्योतिष्टोमायुषी चैव अतिरात्रौ च निर्मितौ।अभिजिद्विश्वजिच्चैव अप्तोर्यामो महाक्रतुः॥ ३५प्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्धनः।अध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम्॥ ३६उद्गात्रे तु तथोदीचीं दक्षिणैषा विनिर्मिता।अश्वमेधे महायज्ञे स्वयम्भुविहिते पुरा॥ ३७क्रतुं समाप्य तु तदा न्यायतः पुरुषर्षभः।ऋत्विग्भ्यो हि ददौ राजा धरां तां क्रतुवर्धनः॥ ३८ऋत्विजस्त्वब्रुवन्सर्वे राजानं गतकल्मषम्।भवानेव महीं कृत्स्नामेको रक्षितुमर्हति॥ ३९न भूम्या कार्यमस्माकं न हि शक्ताः स्म पालने।रताः स्वाध्यायकरणे वयं नित्यं हि भूमिप।निष्क्रयं किंचिदेवेह प्रयच्छतु भवानिति॥ ४०गवां शतसहस्राणि दश तेभ्यो ददौ नृपः।दशकोटिं सुवर्णस्य रजतस्य चतुर्गुणम्॥ ४१ऋत्विजस्तु ततः सर्वे प्रददुः सहिता वसु।ऋश्यशृङ्गाय मुनये वसिष्ठाय च धीमते॥ ४२ततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः।सुप्रीतमनसः सर्वे प्रत्यूचुर्मुदिता भृशम्॥ ४३ततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम्।पापापहं स्वर्नयनं दुस्तरं पार्थिवर्षभैः॥ ४४ततोऽब्रवीदृश्यशृङ्गं राजा दशरथस्तदा।कुलस्य वर्धनं तत्तु कर्तुमर्हसि सुव्रत॥ ४५तथेति च स राजानमुवाच द्विजसत्तमः।भविष्यन्ति सुता राजंश्चत्वारस्ते कुलोद्वहाः॥ ४६इति श्रीरामायणे बालकाण्डे त्रयोदशः सर्गः ॥ १३
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved