॥ ॐ श्री गणपतये नमः ॥

१७ सर्गः
निर्वृत्ते तु क्रतौ तस्मिन्हयमेधे महात्मनः।प्रतिगृह्य सुरा भागान्प्रतिजग्मुर्यथागतम्॥ १समाप्तदीक्षानियमः पत्नीगणसमन्वितः।प्रविवेश पुरीं राजा सभृत्यबलवाहनः॥ २यथार्हं पूजितास्तेन राज्ञा वै पृथिवीश्वराः।मुदिताः प्रययुर्देशान्प्रणम्य मुनिपुंगवम्॥ ३गतेषु पृथिवीशेषु राजा दशरथः पुनः।प्रविवेश पुरीं श्रीमान्पुरस्कृत्य द्विजोत्तमान्॥ ४शान्तया प्रययौ सार्धमृश्यशृङ्गः सुपूजितः।अन्वीयमानो राज्ञाथ सानुयात्रेण धीमता॥ ५कौसल्याजनयद्रामं दिव्यलक्षणसंयुतम्।विष्णोरर्धं महाभागं पुत्रमिक्ष्वाकुनन्दनम्॥ ६कौसल्या शुशुभे तेन पुत्रेणामिततेजसा।यथा वरेण देवानामदितिर्वज्रपाणिना॥ ७भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः।साक्षाद्विष्णोश्चतुर्भागः सर्वैः समुदितो गुणैः॥ ८अथ लक्ष्मणशत्रुघ्नौ सुमित्राजनयत्सुतौ।वीरौ सर्वास्त्रकुशलौ विष्णोरर्धसमन्वितौ॥ ९राज्ञः पुत्रा महात्मानश्चत्वारो जज्ञिरे पृथक्।गुणवन्तोऽनुरूपाश्च रुच्या प्रोष्ठपदोपमाः॥ १०अतीत्यैकादशाहं तु नाम कर्म तथाकरोत्।ज्येष्ठं रामं महात्मानं भरतं कैकयीसुतम्॥ ११सौमित्रिं लक्ष्मणमिति शत्रुघ्नमपरं तथा।वसिष्ठः परमप्रीतो नामानि कृतवांस्तदा।तेषां जन्मक्रियादीनि सर्वकर्माण्यकारयत्॥ १२तेषां केतुरिव ज्येष्ठो रामो रतिकरः पितुः।बभूव भूयो भूतानां स्वयम्भूरिव संमतः॥ १३सर्वे वेदविदः शूराः सर्वे लोकहिते रताः।सर्वे ज्ञानोपसंपन्नाः सर्वे समुदिता गुणैः॥ १४तेषामपि महातेजा रामः सत्यपराक्रमः।बाल्यात्प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मिवर्धनः॥ १५रामस्य लोकरामस्य भ्रातुर्ज्येष्ठस्य नित्यशः।सर्वप्रियकरस्तस्य रामस्यापि शरीरतः॥ १६लक्ष्मणो लक्ष्मिसंपन्नो बहिःप्राण इवापरः।न च तेन विना निद्रां लभते पुरुषोत्तमः।मृष्टमन्नमुपानीतमश्नाति न हि तं विना॥ १७यदा हि हयमारूढो मृगयां याति राघवः।तदैनं पृष्ठतोऽभ्येति सधनुः परिपालयन्॥ १८भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सः।प्राणैः प्रियतरो नित्यं तस्य चासीत्तथा प्रियः॥ १९स चतुर्भिर्महाभागैः पुत्रैर्दशरथः प्रियैः।बभूव परमप्रीतो देवैरिव पितामहः॥ २०ते यदा ज्ञानसंपन्नाः सर्वे समुदिता गुणैः।ह्रीमन्तः कीर्तिमन्तश्च सर्वज्ञा दीर्घदर्शिनः॥ २१अथ राजा दशरथस्तेषां दारक्रियां प्रति।चिन्तयामास धर्मात्मा सोपाध्यायः सबान्धवः॥ २२तस्य चिन्तयमानस्य मन्त्रिमध्ये महात्मनः।अभ्यागच्छन्महातेजो विश्वामित्रो महामुनिः॥ २३स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच ह।शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनः सुतम्॥ २४तच्छ्रुत्वा वचनं तस्य राजवेश्म प्रदुद्रुवुः।संभ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः॥ २५ते गत्वा राजभवनं विश्वामित्रमृषिं तदा।प्राप्तमावेदयामासुर्नृपायेक्ष्वाकवे तदा॥ २६तेषां तद्वचनं श्रुत्वा सपुरोधाः समाहितः।प्रत्युज्जगाम संहृष्टो ब्रह्माणमिव वासवः॥ २७स दृष्ट्वा ज्वलितं दीप्त्या तापसं संशितव्रतम्।प्रहृष्टवदनो राजा ततोऽर्घ्यमुपहारयत्॥ २८स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा।कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम्॥ २९वसिष्ठं च समागम्य कुशलं मुनिपुंगवः।ऋषींश्च तान्यथा न्यायं महाभागानुवाच ह॥ ३०ते सर्वे हृष्टमनसस्तस्य राज्ञो निवेशनम्।विविशुः पूजितास्तत्र निषेदुश्च यथार्थतः॥ ३१अथ हृष्टमना राजा विश्वामित्रं महामुनिम्।उवाच परमोदारो हृष्टस्तमभिपूजयन्॥ ३२यथामृतस्य संप्राप्तिर्यथा वर्षमनूदके।यथा सदृशदारेषु पुत्रजन्माप्रजस्य च।प्रनष्टस्य यथा लाभो यथा हर्षो महोदये।तथैवागमनं मन्ये स्वागतं ते महामुने॥ ३३कं च ते परमं कामं करोमि किमु हर्षितः।पात्रभूतोऽसि मे विप्र दिष्ट्या प्राप्तोऽसि धार्मिक।अद्य मे सफलं जन्म जीवितं च सुजीवितम्॥ ३४पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः।ब्रह्मर्षित्वमनुप्राप्तः पूज्योऽसि बहुधा मया॥ ३५तदद्भुतमिदं विप्र पवित्रं परमं मम।शुभक्षेत्रगतश्चाहं तव संदर्शनात्प्रभो॥ ३६ब्रूहि यत्प्रार्थितं तुभ्यं कार्यमागमनं प्रति।इच्छाम्यनुगृहीतोऽहं त्वदर्थपरिवृद्धये॥ ३७कार्यस्य न विमर्शं च गन्तुमर्हसि कौशिक।कर्ता चाहमशेषेण दैवतं हि भवान्मम॥ ३८इति हृदयसुखं निशम्य वाक्यंश्रुतिसुखमात्मवता विनीतमुक्तम्।प्रथितगुणयशा गुणैर्विशिष्टःपरम ऋषिः परमं जगाम हर्षम्॥ ३९इति श्रीरामायणे बालकाण्डे सप्तदशः सर्गः ॥ १७
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved