॥ ॐ श्री गणपतये नमः ॥

१८ सर्गः
तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भुतविस्तरम्।हृष्टरोमा महातेजा विश्वामित्रोऽभ्यभाषत॥ १सदृशं राजशार्दूल तवैतद्भुवि नान्यतः।महावंशप्रसूतस्य वसिष्ठव्यपदेशिनः॥ २यत्तु मे हृद्गतं वाक्यं तस्य कार्यस्य निश्चयम्।कुरुष्व राजशार्दूल भव सत्यप्रतिश्रवः॥ ३अहं नियममातिष्ठे सिद्ध्यर्थं पुरुषर्षभ।तस्य विघ्नकरौ द्वौ तु राक्षसौ कामरूपिणौ॥ ४व्रते मे बहुशश्चीर्णे समाप्त्यां राक्षसाविमौ।मारीचश्च सुबाहुश्च वीर्यवन्तौ सुशिक्षितौ।तौ मांसरुधिरौघेण वेदिं तामभ्यवर्षताम्॥ ५अवधूते तथा भूते तस्मिन्नियमनिश्चये।कृतश्रमो निरुत्साहस्तस्माद्देशादपाक्रमे॥ ६न च मे क्रोधमुत्स्रष्टुं बुद्धिर्भवति पार्थिव।तथाभूता हि सा चर्या न शापस्तत्र मुच्यते॥ ७स्वपुत्रं राजशार्दूल रामं सत्यपराक्रमम्।काकपक्षधरं शूरं ज्येष्ठं मे दातुमर्हसि॥ ८शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा।राक्षसा ये विकर्तारस्तेषामपि विनाशने॥ ९श्रेयश्चास्मै प्रदास्यामि बहुरूपं न संशयः।त्रयाणामपि लोकानां येन ख्यातिं गमिष्यति॥ १०न च तौ राममासाद्य शक्तौ स्थातुं कथंचन।न च तौ राघवादन्यो हन्तुमुत्सहते पुमान्॥ ११वीर्योत्सिक्तौ हि तौ पापौ कालपाशवशं गतौ।रामस्य राजशार्दूल न पर्याप्तौ महात्मनः॥ १२न च पुत्रकृतं स्नेहं कर्तुमर्हसि पार्थिव।अहं ते प्रतिजानामि हतौ तौ विद्धि राक्षसौ॥ १३अहं वेद्मि महात्मानं रामं सत्यपराक्रमम्।वसिष्ठोऽपि महातेजा ये चेमे तपसि स्थिताः॥ १४यदि ते धर्मलाभं च यशश्च परमं भुवि।स्थिरमिच्छसि राजेन्द्र रामं मे दातुमर्हसि॥ १५यद्यभ्यनुज्ञां काकुत्स्थ ददते तव मन्त्रिणः।वसिष्ठप्रमुखाः सर्वे ततो रामं विसर्जय॥ १६अभिप्रेतमसंसक्तमात्मजं दातुमर्हसि।दशरात्रं हि यज्ञस्य रामं राजीवलोचनम्॥ १७नात्येति कालो यज्ञस्य यथायं मम राघव।तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः॥ १८इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वचः।विरराम महातेजा विश्वामित्रो महामुनिः॥ १९इति हृदयमनोविदारणंमुनिवचनं तदतीव शुश्रुवान्।नरपतिरगमद्भयं महद्व्यथितमनाः प्रचचाल चासनात्॥ २०इति श्रीरामायणे बालकाण्डे अष्टादशः सर्गः ॥ १८
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved