॥ ॐ श्री गणपतये नमः ॥

३० सर्गः
अथ तां रजनीं तत्र कृतार्थौ रामलक्षणौ।ऊषतुर्मुदितौ वीरौ प्रहृष्टेनान्तरात्मना॥ १प्रभातायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियौ।विश्वामित्रमृषींश्चान्यान्सहितावभिजग्मतुः॥ २अभिवाद्य मुनिश्रेष्ठं ज्वलन्तमिव पावकम्।ऊचतुर्मधुरोदारं वाक्यं मधुरभाषिणौ॥ ३इमौ स्वो मुनिशार्दूल किंकरौ समुपस्थितौ।आज्ञापय यथेष्टं वै शासनं करवाव किम्॥ ४एवमुक्ते ततस्ताभ्यां सर्व एव महर्षयः।विश्वामित्रं पुरस्कृत्य रामं वचनमब्रुवन्॥ ५मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति।यज्ञः परमधर्मिष्ठस्तत्र यास्यामहे वयम्॥ ६त्वं चैव नरशार्दूल सहास्माभिर्गमिष्यसि।अद्भुतं च धनूरत्नं तत्र त्वं द्रष्टुमर्हसि॥ ७तद्धि पूर्वं नरश्रेष्ठ दत्तं सदसि दैवतैः।अप्रमेयबलं घोरं मखे परमभास्वरम्॥ ८नास्य देवा न गन्धर्वा नासुरा न च राक्षसाः।कर्तुमारोपणं शक्ता न कथंचन मानुषाः॥ ९धनुषस्तस्य वीर्यं हि जिज्ञासन्तो महीक्षितः।न शेकुरारोपयितुं राजपुत्रा महाबलाः॥ १०तद्धनुर्नरशार्दूल मैथिलस्य महात्मनः।तत्र द्रक्ष्यसि काकुत्स्थ यज्ञं चाद्भुतदर्शनम्॥ ११तद्धि यज्ञफलं तेन मैथिलेनोत्तमं धनुः।याचितं नरशार्दूल सुनाभं सर्वदैवतैः॥ १२एवमुक्त्वा मुनिवरः प्रस्थानमकरोत्तदा।सर्षिसंघः सकाकुत्स्थ आमन्त्र्य वनदेवताः॥ १३स्वस्ति वोऽस्तु गमिष्यामि सिद्धः सिद्धाश्रमादहम्।उत्तरे जाह्नवीतीरे हिमवन्तं शिलोच्चयम्॥ १४प्रदक्षिणं ततः कृत्वा सिद्धाश्रममनुत्तमम्।उत्तरां दिशमुद्दिश्य प्रस्थातुमुपचक्रमे॥ १५तं व्रजन्तं मुनिवरमन्वगादनुसारिणाम्।शकटी शतमात्रं तु प्रयाणे ब्रह्मवादिनाम्॥ १६मृगपक्षिगणाश्चैव सिद्धाश्रमनिवासिनः।अनुजग्मुर्महात्मानं विश्वामित्रं महामुनिम्॥ १७ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे।वासं चक्रुर्मुनिगणाः शोणाकूले समाहिताः॥ १८तेऽस्तं गते दिनकरे स्नात्वा हुतहुताशनाः।विश्वामित्रं पुरस्कृत्य निषेदुरमितौजसः॥ १९रामोऽपि सहसौमित्रिर्मुनींस्तानभिपूज्य च।अग्रतो निषसादाथ विश्वामित्रस्य धीमतः॥ २०अथ रामो महातेजा विश्वामित्रं महामुनिम्।पप्रच्छ मुनिशार्दूलं कौतूहलसमन्वितः॥ २१भगवन्को न्वयं देशः समृद्धवनशोभितः।श्रोतुमिच्छामि भद्रं ते वक्तुमर्हसि तत्त्वतः॥ २२चोदितो रामवाक्येन कथयामास सुव्रतः।तस्य देशस्य निखिलमृषिमध्ये महातपाः॥ २३इति श्रीरामायणे बालकाण्डे त्रिंशत्तमः सर्गः ॥ ३०
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved