३६ सर्गः
तप्यमाने तपो देवे देवाः सर्षिगणाः पुरा।सेनापतिमभीप्सन्तः पितामहमुपागमन्॥ १ततोऽब्रुवन्सुराः सर्वे भगवन्तं पितामहम्।प्रणिपत्य शुभं वाक्यं सेन्द्राः साग्निपुरोगमाः॥ २यो नः सेनापतिर्देव दत्तो भगवता पुरा।स तपः परमास्थाय तप्यते स्म सहोमया॥ ३यदत्रानन्तरं कार्यं लोकानां हितकाम्यया।संविधत्स्व विधानज्ञ त्वं हि नः परमा गतिः॥ ४देवतानां वचः श्रुत्वा सर्वलोकपितामहः।सान्त्वयन्मधुरैर्वाक्यैस्त्रिदशानिदमब्रवीत्॥ ५शैलपुत्र्या यदुक्तं तन्न प्रजास्यथ पत्निषु।तस्या वचनमक्लिष्टं सत्यमेव न संशयः॥ ६इयमाकाशगा गङ्गा यस्यां पुत्रं हुताशनः।जनयिष्यति देवानां सेनापतिमरिंदमम्॥ ७ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तं सुतम्।उमायास्तद्बहुमतं भविष्यति न संशयः॥ ८तच्छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दन।प्रणिपत्य सुराः सर्वे पितामहमपूजयन्॥ ९ते गत्वा पर्वतं राम कैलासं धातुमण्डितम्।अग्निं नियोजयामासुः पुत्रार्थं सर्वदेवताः॥ १०देवकार्यमिदं देव समाधत्स्व हुताशन।शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज॥ ११देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकः।गर्भं धारय वै देवि देवतानामिदं प्रियम्॥ १२इत्येतद्वचनं श्रुत्वा दिव्यं रूपमधारयत्।स तस्या महिमां दृष्ट्वा समन्तादवकीर्यत॥ १३समन्ततस्तदा देवीमभ्यषिञ्चत पावकः।सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन॥ १४तमुवाच ततो गङ्गा सर्वदेवपुरोहितम्।अशक्ता धारणे देव तव तेजः समुद्धतम्।दह्यमानाग्निना तेन संप्रव्यथितचेतना॥ १५अथाब्रवीदिदं गङ्गां सर्वदेवहुताशनः।इह हैमवते पादे गर्भोऽयं संनिवेश्यताम्॥ १६श्रुत्वा त्वग्निवचो गङ्गा तं गर्भमतिभास्वरम्।उत्ससर्ज महातेजाः स्रोतोभ्यो हि तदानघ॥ १७यदस्या निर्गतं तस्मात्तप्तजाम्बूनदप्रभम्।काञ्चनं धरणीं प्राप्तं हिरण्यममलं शुभम्॥ १८ताम्रं कार्ष्णायसं चैव तैक्ष्ण्यादेवाभिजायत।मलं तस्याभवत्तत्र त्रपुसीसकमेव च॥ १९तदेतद्धरणीं प्राप्य नानाधातुरवर्धत॥ २०निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरञ्जितम्।सर्वं पर्वतसंनद्धं सौवर्णमभवद्वनम्॥ २१जातरूपमिति ख्यातं तदा प्रभृति राघव।सुवर्णं पुरुषव्याघ्र हुताशनसमप्रभम्॥ २२तं कुमारं ततो जातं सेन्द्राः सहमरुद्गणाः।क्षीरसंभावनार्थाय कृत्तिकाः समयोजयन्॥ २३ताः क्षीरं जातमात्रस्य कृत्वा समयमुत्तमम्।ददुः पुत्रोऽयमस्माकं सर्वासामिति निश्चिताः॥ २४ततस्तु देवताः सर्वाः कार्तिकेय इति ब्रुवन्।पुत्रस्त्रैलोक्य विख्यातो भविष्यति न संशयः॥ २५तेषां तद्वचनं श्रुत्वा स्कन्नं गर्भपरिस्रवे।स्नापयन्परया लक्ष्म्या दीप्यमानमिवानलम्॥ २६स्कन्द इत्यब्रुवन्देवाः स्कन्नं गर्भपरिस्रवात्।कार्तिकेयं महाभागं काकुत्स्थज्वलनोपमम्॥ २७प्रादुर्भूतं ततः क्षीरं कृत्तिकानामनुत्तमम्।षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः॥ २८गृहीत्वा क्षीरमेकाह्ना सुकुमार वपुस्तदा।अजयत्स्वेन वीर्येण दैत्यसैन्यगणान्विभुः॥ २९सुरसेनागणपतिं ततस्तममलद्युतिम्।अभ्यषिञ्चन्सुरगणाः समेत्याग्निपुरोगमाः॥ ३०एष ते राम गङ्गाया विस्तरोऽभिहितो मया।कुमारसंभवश्चैव धन्यः पुण्यस्तथैव च॥ ३१इति श्रीरामायणे बालकाण्डे षट्त्रिंशः सर्गः ॥ ३६
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved