३७ सर्गः
तां कथां कौशिको रामे निवेद्य मधुराक्षरम्।पुनरेवापरं वाक्यं काकुत्स्थमिदमब्रवीत्॥ १अयोध्याधिपतिः शूरः पूर्वमासीन्नराधिपः।सगरो नाम धर्मात्मा प्रजाकामः स चाप्रजः॥ २वैदर्भदुहिता राम केशिनी नाम नामतः।ज्येष्ठा सगरपत्नी सा धर्मिष्ठा सत्यवादिनी॥ ३अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि।द्वितीया सगरस्यासीत्पत्नी सुमतिसंज्ञिता॥ ४ताभ्यां सह तदा राजा पत्नीभ्यां तप्तवांस्तपः।हिमवन्तं समासाद्य भृगुप्रस्रवणे गिरौ॥ ५अथ वर्ष शते पूर्णे तपसाराधितो मुनिः।सगराय वरं प्रादाद्भृगुः सत्यवतां वरः॥ ६अपत्यलाभः सुमहान्भविष्यति तवानघ।कीर्तिं चाप्रतिमां लोके प्राप्स्यसे पुरुषर्षभ॥ ७एका जनयिता तात पुत्रं वंशकरं तव।षष्टिं पुत्रसहस्राणि अपरा जनयिष्यति॥ ८भाषमाणं नरव्याघ्रं राजपत्न्यौ प्रसाद्य तम्।ऊचतुः परमप्रीते कृताञ्जलिपुटे तदा॥ ९एकः कस्याः सुतो ब्रह्मन्का बहूञ्जनयिष्यति।श्रोतुमिच्छावहे ब्रह्मन्सत्यमस्तु वचस्तव॥ १०तयोस्तद्वचनं श्रुत्वा भृगुः परम धार्मिकः।उवाच परमां वाणीं स्वच्छन्दोऽत्र विधीयताम्॥ ११एको वंशकरो वास्तु बहवो वा महाबलाः।कीर्तिमन्तो महोत्साहाः का वा कं वरमिच्छति॥ १२मुनेस्तु वचनं श्रुत्वा केशिनी रघुनन्दन।पुत्रं वंशकरं राम जग्राह नृपसंनिधौ॥ १३षष्टिं पुत्रसहस्राणि सुपर्णभगिनी तदा।महोत्साहान्कीर्तिमतो जग्राह सुमतिः सुतान्॥ १४प्रदक्षिणमृषिं कृत्वा शिरसाभिप्रणम्य च।जगाम स्वपुरं राजा सभार्या रघुनन्दन॥ १५अथ काले गते तस्मिञ्ज्येष्ठा पुत्रं व्यजायत।असमञ्ज इति ख्यातं केशिनी सगरात्मजम्॥ १६सुमतिस्तु नरव्याघ्र गर्भतुम्बं व्यजायत।षष्टिः पुत्रसहस्राणि तुम्बभेदाद्विनिःसृताः॥ १७घृतपूर्णेषु कुम्भेषु धात्र्यस्तान्समवर्धयन्।कालेन महता सर्वे यौवनं प्रतिपेदिरे॥ १८अथ दीर्घेण कालेन रूपयौवनशालिनः।षष्टिः पुत्रसहस्राणि सगरस्याभवंस्तदा॥ १९स च ज्येष्ठो नरश्रेष्ठ सगरस्यात्मसंभवः।बालान्गृहीत्वा तु जले सरय्वा रघुनन्दन।प्रक्षिप्य प्रहसन्नित्यं मज्जतस्तान्निरीक्ष्य वै॥ २०पौराणामहिते युक्तः पित्रा निर्वासितः पुरात्॥ २१तस्य पुत्रोंऽशुमान्नाम असमञ्जस्य वीर्यवान्।संमतः सर्वलोकस्य सर्वस्यापि प्रियंवदः॥ २२ततः कालेन महता मतिः समभिजायत।सगरस्य नरश्रेष्ठ यजेयमिति निश्चिता॥ २३स कृत्वा निश्चयं राजा सोपाध्यायगणस्तदा।यज्ञकर्मणि वेदज्ञो यष्टुं समुपचक्रमे॥ २४इति श्रीरामायणे बालकाण्डे सप्तत्रिंशः सर्गः ॥ ३७
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved