॥ ॐ श्री गणपतये नमः ॥

४१ सर्गः
कालधर्मं गते राम सगरे प्रकृतीजनाः।राजानं रोचयामासुरंशुमन्तं सुधार्मिकम्॥ १स राजा सुमहानासीदंशुमान्रघुनन्दन।तस्य पुत्रो महानासीद्दिलीप इति विश्रुतः॥ २तस्मिन्राज्यं समावेश्य दिलीपे रघुनन्दन।हिमवच्छिखरे रम्ये तपस्तेपे सुदारुणम्॥ ३द्वात्रिंशच्च सहस्राणि वर्षाणि सुमहायशाः।तपोवनगतो राजा स्वर्गं लेभे तपोधनः॥ ४दिलीपस्तु महातेजाः श्रुत्वा पैतामहं वधम्।दुःखोपहतया बुद्ध्या निश्चयं नाध्यगच्छत॥ ५कथं गङ्गावतरणं कथं तेषां जलक्रिया।तारयेयं कथं चैतानिति चिन्ता परोऽभवत्॥ ६तस्य चिन्तयतो नित्यं धर्मेण विदितात्मनः।पुत्रो भगीरथो नाम जज्ञे परमधार्मिकः॥ ७दिलीपस्तु महातेजा यज्ञैर्बहुभिरिष्टवान्।त्रिंशद्वर्षसहस्राणि राजा राज्यमकारयत्॥ ८अगत्वा निश्चयं राजा तेषामुद्धरणं प्रति।व्याधिना नरशार्दूल कालधर्ममुपेयिवान्॥ ९इन्द्रलोकं गतो राजा स्वार्जितेनैव कर्मणा।राज्ये भगीरथं पुत्रमभिषिच्य नरर्षभः॥ १०भगीरथस्तु राजर्षिर्धार्मिको रघुनन्दन।अनपत्यो महातेजाः प्रजाकामः स चाप्रजः॥ ११स तपो दीर्घमातिष्ठद्गोकर्णे रघुनन्दन।ऊर्ध्वबाहुः पञ्चतपा मासाहारो जितेन्द्रियः॥ १२तस्य वर्षसहस्राणि घोरे तपसि तिष्ठतः।सुप्रीतो भगवान्ब्रह्मा प्रजानां पतिरीश्वरः॥ १३ततः सुरगणैः सार्धमुपागम्य पितामहः।भगीरथं महात्मानं तप्यमानमथाब्रवीत्॥ १४भगीरथ महाभाग प्रीतस्तेऽहं जनेश्वर।तपसा च सुतप्तेन वरं वरय सुव्रत॥ १५तमुवाच महातेजाः सर्वलोकपितामहम्।भगीरथो महाभागः कृताञ्जलिरवस्थितः॥ १६यदि मे भगवान्प्रीतो यद्यस्ति तपसः फलम्।सगरस्यात्मजाः सर्वे मत्तः सलिलमाप्नुयुः॥ १७गङ्गायाः सलिलक्लिन्ने भस्मन्येषां महात्मनाम्।स्वर्गं गच्छेयुरत्यन्तं सर्वे मे प्रपितामहाः॥ १८देया च संततिर्देव नावसीदेत्कुलं च नः।इक्ष्वाकूणां कुले देव एष मेऽस्तु वरः परः॥ १९उक्तवाक्यं तु राजानं सर्वलोकपितामहः।प्रत्युवाच शुभां वाणीं मधुरां मधुराक्षराम्॥ २०मनोरथो महानेष भगीरथ महारथ।एवं भवतु भद्रं ते इक्ष्वाकुकुलवर्धन॥ २१इयं हैमवती गङ्गा ज्येष्ठा हिमवतः सुता।तां वै धारयितुं राजन्हरस्तत्र नियुज्यताम्॥ २२गङ्गायाः पतनं राजन्पृथिवी न सहिष्यते।तां वै धारयितुं वीर नान्यं पश्यामि शूलिनः॥ २३तमेवमुक्त्वा राजानं गङ्गां चाभाष्य लोककृत्।जगाम त्रिदिवं देवः सह सर्वैर्मरुद्गणैः॥ २४इति श्रीरामायणे बालकाण्डे एकचत्वारिंशः सर्गः ॥ ४१
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved