४३ सर्गः
स गत्वा सागरं राजा गङ्गयानुगतस्तदा।प्रविवेश तलं भूमेर्यत्र ते भस्मसात्कृताः॥ १भस्मन्यथाप्लुते राम गङ्गायाः सलिलेन वै।सर्व लोकप्रभुर्ब्रह्मा राजानमिदमब्रवीत्॥ २तारिता नरशार्दूल दिवं याताश्च देववत्।षष्टिः पुत्रसहस्राणि सगरस्य महात्मनः॥ ३सागरस्य जलं लोके यावत्स्थास्यति पार्थिव।सगरस्यात्मजास्तावत्स्वर्गे स्थास्यन्ति देववत्॥ ४इयं च दुहिता ज्येष्ठा तव गङ्गा भविष्यति।त्वत्कृतेन च नाम्ना वै लोके स्थास्यति विश्रुता॥ ५गङ्गा त्रिपथगा नाम दिव्या भागीरथीति च।त्रिपथो भावयन्तीति ततस्त्रिपथगा स्मृता॥ ६पितामहानां सर्वेषां त्वमत्र मनुजाधिप।कुरुष्व सलिलं राजन्प्रतिज्ञामपवर्जय॥ ७पूर्वकेण हि ते राजंस्तेनातियशसा तदा।धर्मिणां प्रवरेणाथ नैष प्राप्तो मनोरथः॥ ८तथैवांशुमता तात लोकेऽप्रतिमतेजसा।गङ्गां प्रार्थयता नेतुं प्रतिज्ञा नापवर्जिता॥ ९राजर्षिणा गुणवता महर्षिसमतेजसा।मत्तुल्यतपसा चैव क्षत्रधर्मस्थितेन च॥ १०दिलीपेन महाभाग तव पित्रातितेजसा।पुनर्न शङ्किता नेतुं गङ्गां प्रार्थयतानघ॥ ११सा त्वया समतिक्रान्ता प्रतिज्ञा पुरुषर्षभ।प्राप्तोऽसि परमं लोके यशः परमसंमतम्॥ १२यच्च गङ्गावतरणं त्वया कृतमरिंदम।अनेन च भवान्प्राप्तो धर्मस्यायतनं महत्॥ १३प्लावयस्व त्वमात्मानं नरोत्तम सदोचिते।सलिले पुरुषव्याघ्र शुचिः पुण्यफलो भव॥ १४पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम्।स्वस्ति तेऽस्तु गमिष्यामि स्वं लोकं गम्यतां नृप॥ १५इत्येवमुक्त्वा देवेशः सर्वलोकपितामहः।यथागतं तथागच्छद्देवलोकं महायशाः॥ १६भगीरथोऽपि राजर्षिः कृत्वा सलिलमुत्तमम्।यथाक्रमं यथान्यायं सागराणां महायशाः।कृतोदकः शुची राजा स्वपुरं प्रविवेश ह॥ १७समृद्धार्थो नरश्रेष्ठ स्वराज्यं प्रशशास ह।प्रमुमोद च लोकस्तं नृपमासाद्य राघव।नष्टशोकः समृद्धार्थो बभूव विगतज्वरः॥ १८एष ते राम गङ्गाया विस्तरोऽभिहितो मया।स्वस्ति प्राप्नुहि भद्रं ते संध्याकालोऽतिवर्तते॥ १९धन्यं यशस्यमायुष्यं स्वर्ग्यं पुत्र्यमथापि च।इदमाख्यानमाख्यातं गङ्गावतरणं मया॥ २०इति श्रीरामायणे बालकाण्डे त्रिचत्वारिंशः सर्गः ॥ ४३
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved