॥ ॐ श्री गणपतये नमः ॥

४४ सर्गः
विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः।विस्मयं परमं गत्वा विश्वामित्रमथाब्रवीत्॥ १अत्यद्भुतमिदं ब्रह्मन्कथितं परमं त्वया।गङ्गावतरणं पुण्यं सागरस्य च पूरणम्॥ २तस्य सा शर्वरी सर्वा सह सौमित्रिणा तदा।जगाम चिन्तयानस्य विश्वामित्रकथां शुभाम्॥ ३ततः प्रभाते विमले विश्वामित्रं महामुनिम्।उवाच राघवो वाक्यं कृताह्निकमरिंदमः॥ ४गता भगवती रात्रिः श्रोतव्यं परमं श्रुतम्।क्षणभूतेव सा रात्रिः संवृत्तेयं महातपः।इमां चिन्तयतः सर्वां निखिलेन कथां तव॥ ५तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम्।नौरेषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम्।भगवन्तमिह प्राप्तं ज्ञात्वा त्वरितमागता॥ ६तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः।संतारं कारयामास सर्षिसंघः सराघवः॥ ७उत्तरं तीरमासाद्य संपूज्यर्षिगणं तथ।गङ्गाकूले निविष्टास्ते विशालां ददृशुः पुरीम्॥ ८ततो मुनिवरस्तूर्णं जगाम सहराघवः।विशालां नगरीं रम्यां दिव्यां स्वर्गोपमां तदा॥ ९अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम्।पप्रच्छ प्राञ्जलिर्भूत्वा विशालामुत्तमां पुरीम्॥ १०कतरो राजवंशोऽयं विशालायां महामुने।श्रोतुमिच्छामि भद्रं ते परं कौतूहलं हि मे॥ ११तस्य तद्वचनं श्रुत्वा रामस्य मुनिपुंगवः।आख्यातुं तत्समारेभे विशालस्य पुरातनम्॥ १२श्रूयतां राम शक्रस्य कथां कथयतः शुभाम्।अस्मिन्देशे हि यद्वृत्तं शृणु तत्त्वेन राघव॥ १३पूर्वं कृतयुगे राम दितेः पुत्रा महाबलाः।अदितेश्च महाभागा वीर्यवन्तः सुधार्मिकाः॥ १४ततस्तेषां नरश्रेष्ठ बुद्धिरासीन्महात्मनाम्।अमरा निर्जराश्चैव कथं स्याम निरामयाः॥ १५तेषां चिन्तयतां राम बुद्धिरासीद्विपश्चिताम्।क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै॥ १६ततो निश्चित्य मथनं योक्त्रं कृत्वा च वासुकिम्।मन्थानं मन्दरं कृत्वा ममन्थुरमितौजसः॥ १७अथ धन्वन्तरिर्नाम अप्सराश्च सुवर्चसः।अप्सु निर्मथनादेव रसात्तस्माद्वरस्त्रियः।उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसोऽभवन्॥ १८षष्टिः कोट्योऽभवंस्तासामप्सराणां सुवर्चसाम्।असंख्येयास्तु काकुत्स्थ यास्तासां परिचारिकाः॥ १९न ताः स्म प्रतिगृह्णन्ति सर्वे ते देवदानवाः।अप्रतिग्रहणाच्चैव तेन साधारणाः स्मृताः॥ २०वरुणस्य ततः कन्या वारुणी रघुनन्दन।उत्पपात महाभागा मार्गमाणा परिग्रहम्॥ २१दितेः पुत्रा न तां राम जगृहुर्वरुणात्मजाम्।अदितेस्तु सुता वीर जगृहुस्तामनिन्दिताम्॥ २२असुरास्तेन दैतेयाः सुरास्तेनादितेः सुताः।हृष्टाः प्रमुदिताश्चासन्वारुणी ग्रहणात्सुराः॥ २३उच्चैःश्रवा हयश्रेष्ठो मणिरत्नं च कौस्तुभम्।उदतिष्ठन्नरश्रेष्ठ तथैवामृतमुत्तमम्॥ २४अथ तस्य कृते राम महानासीत्कुलक्षयः।अदितेस्तु ततः पुत्रा दितेः पुत्राण सूदयन्॥ २५अदितेरात्मजा वीरा दितेः पुत्रान्निजघ्निरे।तस्मिन्घोरे महायुद्धे दैतेयादित्ययोर्भृशम्॥ २६निहत्य दितिपुत्रांस्तु राज्यं प्राप्य पुरंदरः।शशास मुदितो लोकान्सर्षिसंघान्सचारणान्॥ २७इति श्रीरामायणे बालकाण्डे चतुश्चत्वारिंशः सर्गः ॥ ४४
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved