॥ ॐ श्री गणपतये नमः ॥

४५ सर्गः
हतेषु तेषु पुत्रेषु दितिः परमदुःखिता।मारीचं काश्यपं राम भर्तारमिदमब्रवीत्॥ १हतपुत्रास्मि भगवंस्तव पुत्रैर्महाबलैः।शक्रहन्तारमिच्छामि पुत्रं दीर्घतपोऽर्जितम्॥ २साहं तपश्चरिष्यामि गर्भं मे दातुमर्हसि।ईदृशं शक्रहन्तारं त्वमनुज्ञातुमर्हसि॥ ३तस्यास्तद्वचनं श्रुत्वा मारीचः काश्यपस्तदा।प्रत्युवाच महातेजा दितिं परमदुःखिताम्॥ ४एवं भवतु भद्रं ते शुचिर्भव तपोधने।जनयिष्यसि पुत्रं त्वं शक्र हन्तारमाहवे॥ ५पूर्णे वर्षसहस्रे तु शुचिर्यदि भविष्यसि।पुत्रं त्रैलोक्य हन्तारं मत्तस्त्वं जनयिष्यसि॥ ६एवमुक्त्वा महातेजाः पाणिना स ममार्ज ताम्।समालभ्य ततः स्वस्तीत्युक्त्वा स तपसे ययौ॥ ७गते तस्मिन्नरश्रेष्ठ दितिः परमहर्षिता।कुशप्लवनमासाद्य तपस्तेपे सुदारुणम्॥ ८तपस्तस्यां हि कुर्वत्यां परिचर्यां चकार ह।सहस्राक्षो नरश्रेष्ठ परया गुणसंपदा॥ ९अग्निं कुशान्काष्ठमपः फलं मूलं तथैव च।न्यवेदयत्सहस्राक्षो यच्चान्यदपि काङ्क्षितम्॥ १०गात्रसंवाहनैश्चैव श्रमापनयनैस्तथा।शक्रः सर्वेषु कालेषु दितिं परिचचार ह॥ ११अथ वर्षसहस्रेतु दशोने रघु नन्दन।दितिः परमसंप्रीता सहस्राक्षमथाब्रवीत्॥ १२तपश्चरन्त्या वर्षाणि दश वीर्यवतां वर।अवशिष्टानि भद्रं ते भ्रातरं द्रक्ष्यसे ततः॥ १३तमहं त्वत्कृते पुत्र समाधास्ये जयोत्सुकम्।त्रैलोक्यविजयं पुत्र सह भोक्ष्यसि विज्वरः॥ १४एवमुक्त्वा दितिः शक्रं प्राप्ते मध्यं दिवाकरे।निद्रयापहृता देवी पादौ कृत्वाथ शीर्षतः॥ १५दृष्ट्वा तामशुचिं शक्रः पादतः कृतमूर्धजाम्।शिरःस्थाने कृतौ पादौ जहास च मुमोद च॥ १६तस्याः शरीरविवरं विवेश च पुरंदरः।गर्भं च सप्तधा राम बिभेद परमात्मवान्॥ १७बिध्यमानस्ततो गर्भो वज्रेण शतपर्वणा।रुरोद सुस्वरं राम ततो दितिरबुध्यत॥ १८मा रुदो मा रुदश्चेति गर्भं शक्रोऽभ्यभाषत।बिभेद च महातेजा रुदन्तमपि वासवः॥ १९न हन्तव्यो न हन्तव्य इत्येवं दितिरब्रवीत्।निष्पपात ततः शक्रो मातुर्वचनगौरवात्॥ २०प्राञ्जलिर्वज्रसहितो दितिं शक्रोऽभ्यभाषत।अशुचिर्देवि सुप्तासि पादयोः कृतमूर्धजा॥ २१तदन्तरमहं लब्ध्वा शक्रहन्तारमाहवे।अभिन्दं सप्तधा देवि तन्मे त्वं क्षन्तुमर्हसि॥ २२इति श्रीरामायणे बालकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ४५
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved