५१ सर्गः
स दृष्ट्वा परमप्रीतो विश्वामित्रो महाबलः।प्रणतो विनयाद्वीरो वसिष्ठं जपतां वरम्॥ १स्वागतं तव चेत्युक्तो वसिष्ठेन महात्मना।आसनं चास्य भगवान्वसिष्ठो व्यादिदेश ह॥ २उपविष्टाय च तदा विश्वामित्राय धीमते।यथान्यायं मुनिवरः फलमूलमुपाहरत्॥ ३प्रतिगृह्य च तां पूजां वसिष्ठाद्राजसत्तमः।तपोऽग्निहोत्रशिष्येषु कुशलं पर्यपृच्छत॥ ४विश्वामित्रो महातेजा वनस्पतिगणे तथा।सर्वत्र कुशलं चाह वसिष्ठो राजसत्तमम्॥ ५सुखोपविष्टं राजानं विश्वामित्रं महातपाः।पप्रच्छ जपतां श्रेष्ठो वसिष्ठो ब्रह्मणः सुतः॥ ६कच्चित्ते कुशलं राजन्कच्चिद्धर्मेण रञ्जयन्।प्रजाः पालयसे राजन्राजवृत्तेन धार्मिक॥ ७कच्चित्ते सुभृता भृत्याः कच्चित्तिष्ठन्ति शासने।कच्चित्ते विजिताः सर्वे रिपवो रिपुसूदन॥ ८कच्चिद्बले च कोशे च मित्रेषु च परंतप।कुशलं ते नरव्याघ्र पुत्रपौत्रे तथानघ॥ ९सर्वत्र कुशलं राजा वसिष्ठं प्रत्युदाहरत्।विश्वामित्रो महातेजा वसिष्ठं विनयान्वितः॥ १०कृत्वोभौ सुचिरं कालं धर्मिष्ठौ ताः कथाः शुभाः।मुदा परमया युक्तौ प्रीयेतां तौ परस्परम्॥ ११ततो वसिष्ठो भगवान्कथान्ते रघुनन्दन।विश्वामित्रमिदं वाक्यमुवाच प्रहसन्निव॥ १२आतिथ्यं कर्तुमिच्छामि बलस्यास्य महाबल।तव चैवाप्रमेयस्य यथार्हं संप्रतीच्छ मे॥ १३सत्क्रियां तु भवानेतां प्रतीच्छतु मयोद्यताम्।राजंस्त्वमतिथिश्रेष्ठः पूजनीयः प्रयत्नतः॥ १४एवमुक्तो वसिष्ठेन विश्वामित्रो महामतिः।कृतमित्यब्रवीद्राजा पूजावाक्येन मे त्वया॥ १५फलमूलेन भगवन्विद्यते यत्तवाश्रमे।पाद्येनाचमनीयेन भगवद्दर्शनेन च॥ १६सर्वथा च महाप्राज्ञ पूजार्हेण सुपूजितः।गमिष्यामि नमस्तेऽस्तु मैत्रेणेक्षस्व चक्षुषा॥ १७एवं ब्रुवन्तं राजानं वसिष्ठः पुनरेव हि।न्यमन्त्रयत धर्मात्मा पुनः पुनरुदारधीः॥ १८बाढमित्येव गाधेयो वसिष्ठं प्रत्युवाच ह।यथा प्रियं भगवतस्तथास्तु मुनिसत्तम॥ १९एवमुक्तो महातेजा वसिष्ठो जपतां वरः।आजुहाव ततः प्रीतः कल्माषीं धूतकल्मषः॥ २०एह्येहि शबले क्षिप्रं शृणु चापि वचो मम।सबलस्यास्य राजर्षेः कर्तुं व्यवसितोऽस्म्यहम्।भोजनेन महार्हेण सत्कारं संविधत्स्व मे॥ २१यस्य यस्य यथाकामं षड्रसेष्वभिपूजितम्।तत्सर्वं कामधुग्दिव्ये अभिवर्षकृते मम॥ २२रसेनान्नेन पानेन लेह्यचोष्येण संयुतम्।अन्नानां निचयं सर्वं सृजस्व शबले त्वर॥ २३इति श्रीरामायणे बालकाण्डे एकपञ्चाशः सर्गः ॥ ५१
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved