५५ सर्गः
एवमुक्तो वसिष्ठेन विश्वामित्रो महाबलः।आग्नेयमस्त्रमुत्क्षिप्य तिष्ठ तिष्ठेति चाब्रवीत्॥ १वसिष्ठो भगवान्क्रोधादिदं वचनमब्रवीत्॥ २क्षत्रबन्धो स्थितोऽस्म्येष यद्बलं तद्विदर्शय।नाशयाम्येष ते दर्पं शस्त्रस्य तव गाधिज॥ ३क्व च ते क्षत्रियबलं क्व च ब्रह्मबलं महत्।पश्य ब्रह्मबलं दिव्यं मम क्षत्रियपांसन॥ ४तस्यास्त्रं गाधिपुत्रस्य घोरमाग्नेयमुत्तमम्।ब्रह्मदण्डेन तच्छान्तमग्नेर्वेग इवाम्भसा॥ ५वारुणं चैव रौद्रं च ऐन्द्रं पाशुपतं तथा।ऐषीकं चापि चिक्षेप रुषितो गाधिनन्दनः॥ ६मानवं मोहनं चैव गान्धर्वं स्वापनं तथा।जृम्भणं मोहनं चैव संतापनविलापने॥ ७शोषणं दारणं चैव वज्रमस्त्रं सुदुर्जयम्।ब्रह्मपाशं कालपाशं वारुणं पाशमेव च॥ ८पिनाकास्त्रं च दयितं शुष्कार्द्रे अशनी तथा।दण्डास्त्रमथ पैशाचं क्रौञ्चमस्त्रं तथैव च॥ ९धर्मचक्रं कालचक्रं विष्णुचक्रं तथैव च।वायव्यं मथनं चैव अस्त्रं हयशिरस्तथा॥ १०शक्तिद्वयं च चिक्षेप कङ्कालं मुसलं तथा।वैद्याधरं महास्त्रं च कालास्त्रमथ दारुणम्॥ ११त्रिशूलमस्त्रं घोरं च कापालमथ कङ्कणम्।एतान्यस्त्राणि चिक्षेप सर्वाणि रघुनन्दन॥ १२वसिष्ठे जपतां श्रेष्ठे तदद्भुतमिवाभवत्।तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः॥ १३तेषु शान्तेषु ब्रह्मास्त्रं क्षिप्तवान्गाधिनन्दनः।तदस्त्रमुद्यतं दृष्ट्वा देवाः साग्निपुरोगमाः॥ १४देवर्षयश्च संभ्रान्ता गन्धर्वाः समहोरगाः।त्रैलोक्यमासीत्संत्रस्तं ब्रह्मास्त्रे समुदीरिते॥ १५तदप्यस्त्रं महाघोरं ब्राह्मं ब्राह्मेण तेजसा।वसिष्ठो ग्रसते सर्वं ब्रह्मदण्डेन राघव॥ १६ब्रह्मास्त्रं ग्रसमानस्य वसिष्ठस्य महात्मनः।त्रैलोक्यमोहनं रौद्रं रूपमासीत्सुदारुणम्॥ १७रोमकूपेषु सर्वेषु वसिष्ठस्य महात्मनः।मरीच्य इव निष्पेतुरग्नेर्धूमाकुलार्चिषः॥ १८प्राज्वलद्ब्रह्मदण्डश्च वसिष्ठस्य करोद्यतः।विधूम इव कालाग्निर्यमदण्ड इवापरः॥ १९ततोऽस्तुवन्मुनिगणा वसिष्ठं जपतां वरम्।अमोघं ते बलं ब्रह्मंस्तेजो धारय तेजसा॥ २०निगृहीतस्त्वया ब्रह्मन्विश्वामित्रो महातपाः।प्रसीद जपतां श्रेष्ठ लोकाः सन्तु गतव्यथाः॥ २१एवमुक्तो महातेजाः शमं चक्रे महातपाः।विश्वामित्रोऽपि निकृतो विनिःश्वस्येदमब्रवीत्॥ २२धिग्बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम्।एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे॥ २३तदेतत्समवेक्ष्याहं प्रसन्नेन्द्रियमानसः।तपो महत्समास्थास्ये यद्वै ब्रह्मत्वकारकम्॥ २४इति श्रीरामायणे बालकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५५
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved