५९ सर्गः
तपोबलहतान्कृत्वा वासिष्ठान्समहोदयान्।ऋषिमध्ये महातेजा विश्वामित्रोऽभ्यभाषत॥ १अयमिक्ष्वाकुदायादस्त्रिशङ्कुरिति विश्रुतः।धर्मिष्ठश्च वदान्यश्च मां चैव शरणं गतः।स्वेनानेन शरीरेण देवलोकजिगीषया॥ २यथायं स्वशरीरेण देवलोकं गमिष्यति।तथा प्रवर्त्यतां यज्ञो भवद्भिश्च मया सह॥ ३विश्वामित्रवचः श्रुत्वा सर्व एव महर्षयः।ऊचुः समेत्य सहिता धर्मज्ञा धर्मसंहितम्॥ ४अयं कुशिकदायादो मुनिः परमकोपनः।यदाह वचनं सम्यगेतत्कार्यं न संशयः॥ ५अग्निकल्पो हि भगवाञ्शापं दास्यति रोषितः।तस्मात्प्रवर्त्यतां यज्ञः सशरीरो यथा दिवम्।गच्छेदिक्ष्वाकुदायादो विश्वामित्रस्य तेजसा॥ ६ततः प्रवर्त्यतां यज्ञः सर्वे समधितिष्ठते॥ ७एवमुक्त्वा महर्षयः संजह्रुस्ताः क्रियास्तदा।याजकाश्च महातेजा विश्वामित्रोऽभवत्क्रतौ॥ ८ऋत्विजश्चानुपूर्व्येण मन्त्रवन्मन्त्रकोविदाः।चक्रुः सर्वाणि कर्माणि यथाकल्पं यथाविधि॥ ९ततः कालेन महता विश्वामित्रो महातपाः।चकारावाहनं तत्र भागार्थं सर्वदेवताः॥ १०नाह्यागमंस्तदाहूता भागार्थं सर्वदेवताः।ततः क्रोधसमाविष्टो विश्वमित्रो महामुनिः॥ ११स्रुवमुद्यम्य सक्रोधस्त्रिशङ्कुमिदमब्रवीत्।पश्य मे तपसो वीर्यं स्वार्जितस्य नरेश्वर॥ १२एष त्वां स्वशरीरेण नयामि स्वर्गमोजसा।दुष्प्रापं स्वशरीरेण दिवं गच्छ नराधिप॥ १३स्वार्जितं किंचिदप्यस्ति मया हि तपसः फलम्।राजंस्त्वं तेजसा तस्य सशरीरो दिवं व्रज॥ १४उक्तवाक्ये मुनौ तस्मिन्सशरीरो नरेश्वरः।दिवं जगाम काकुत्स्थ मुनीनां पश्यतां तदा॥ १५देवलोकगतं दृष्ट्वा त्रिशङ्कुं पाकशासनः।सह सर्वैः सुरगणैरिदं वचनमब्रवीत्॥ १६त्रिशङ्को गच्छ भूयस्त्वं नासि स्वर्गकृतालयः।गुरुशापहतो मूढ पत भूमिमवाक्शिराः॥ १७एवमुक्तो महेन्द्रेण त्रिशङ्कुरपतत्पुनः।विक्रोशमानस्त्राहीति विश्वामित्रं तपोधनम्॥ १८तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः।रोषमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत्॥ १९ऋषिमध्ये स तेजस्वी प्रजापतिरिवापरः।सृजन्दक्षिणमार्गस्थान्सप्तर्षीनपरान्पुनः॥ २०नक्षत्रमालामपरामसृजत्क्रोधमूर्छितः।दक्षिणां दिशमास्थाय मुनिमध्ये महायशाः॥ २१सृष्ट्वा नक्षत्रवंशं च क्रोधेन कलुषीकृतः।अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रकः।दैवतान्यपि स क्रोधात्स्रष्टुं समुपचक्रमे॥ २२ततः परमसंभ्रान्ताः सर्षिसंघाः सुरर्षभाः।विश्वामित्रं महात्मानमूचुः सानुनयं वचः॥ २३अयं राजा महाभाग गुरुशापपरिक्षतः।सशरीरो दिवं यातुं नार्हत्येव तपोधन॥ २४तेषां तद्वचनं श्रुत्वा देवानां मुनिपुंगवः।अब्रवीत्सुमहद्वाक्यं कौशिकः सर्वदेवताः॥ २५सशरीरस्य भद्रं वस्त्रिशङ्कोरस्य भूपतेः।आरोहणं प्रतिज्ञाय नानृतं कर्तुमुत्सहे॥ २६सर्गोऽस्तु सशरीरस्य त्रिशङ्कोरस्य शाश्वतः।नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्यथ॥ २७यावल्लोका धरिष्यन्ति तिष्ठन्त्वेतानि सर्वशः।मत्कृतानि सुराः सर्वे तदनुज्ञातुमर्हथ॥ २८एवमुक्ताः सुराः सर्वे प्रत्यूचुर्मुनिपुंगवम्॥ २९एवं भवतु भद्रं ते तिष्ठन्त्वेतानि सर्वशः।गगने तान्यनेकानि वैश्वानरपथाद्बहिः॥ ३०नक्षत्राणि मुनिश्रेष्ठ तेषु ज्योतिःषु जाज्वलन्।अवाक्शिरास्त्रिशङ्कुश्च तिष्ठत्वमरसंनिभः॥ ३१विश्वामित्रस्तु धर्मात्मा सर्वदेवैरभिष्टुतः।ऋषिभिश्च महातेजा बाढमित्याह देवताः॥ ३२ततो देवा महात्मानो मुनयश्च तपोधनाः।जग्मुर्यथागतं सर्वे यज्ञस्यान्ते नरोत्तम॥ ३३इति श्रीरामायणे बालकाण्डे एकोनषष्टितमः सर्गः ॥ ५९
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved