॥ ॐ श्री गणपतये नमः ॥

६२ सर्गः
पूर्णे वर्षसहस्रे तु व्रतस्नातं महामुनिम्।अभ्यागच्छन्सुराः सर्वे तपःफलचिकीर्षवः॥ १अब्रवीत्सुमहातेजा ब्रह्मा सुरुचिरं वचः।ऋषिस्त्वमसि भद्रं ते स्वार्जितैः कर्मभिः शुभैः॥ २तमेवमुक्त्वा देवेशस्त्रिदिवं पुनरभ्यगात्।विश्वामित्रो महातेजा भूयस्तेपे महत्तपः॥ ३ततः कालेन महता मेनका परमाप्सराः।पुष्करेषु नरश्रेष्ठ स्नातुं समुपचक्रमे॥ ४तां ददर्श महातेजा मेनकां कुशिकात्मजः।रूपेणाप्रतिमां तत्र विद्युतं जलदे यथा॥ ५दृष्ट्वा कन्दर्पवशगो मुनिस्तामिदमब्रवीत्।अप्सरः स्वागतं तेऽस्तु वस चेह ममाश्रमे।अनुगृह्णीष्व भद्रं ते मदनेन सुमोहितम्॥ ६इत्युक्ता सा वरारोहा तत्रावासमथाकरोत्।तपसो हि महाविघ्नो विश्वामित्रमुपागतः॥ ७तस्यां वसन्त्यां वर्षाणि पञ्च पञ्च च राघव।विश्वामित्राश्रमे सौम्य सुखेन व्यतिचक्रमुः॥ ८अथ काले गते तस्मिन्विश्वामित्रो महामुनिः।सव्रीड इव संवृत्तश्चिन्ताशोकपरायणः॥ ९बुद्धिर्मुनेः समुत्पन्ना सामर्षा रघुनन्दन।सर्वं सुराणां कर्मैतत्तपोऽपहरणं महत्॥ १०अहोरात्रापदेशेन गताः संवत्सरा दश।काममोहाभिभूतस्य विघ्नोऽयं प्रत्युपस्थितः॥ ११विनिःश्वसन्मुनिवरः पश्चात्तापेन दुःखितः॥ १२भीतामप्सरसं दृष्ट्वा वेपन्तीं प्राञ्जलिं स्थिताम्।मेनकां मधुरैर्वाक्यैर्विसृज्य कुशिकात्मजः।उत्तरं पर्वतं राम विश्वामित्रो जगाम ह॥ १३स कृत्वा नैष्ठिकीं बुद्धिं जेतुकामो महायशाः।कौशिकीतीरमासाद्य तपस्तेपे सुदारुणम्॥ १४तस्य वर्षसहस्रं तु घोरं तप उपासतः।उत्तरे पर्वते राम देवतानामभूद्भयम्॥ १५अमन्त्रयन्समागम्य सर्वे सर्षिगणाः सुराः।महर्षिशब्दं लभतां साध्वयं कुशिकात्मजः॥ १६देवतानां वचः श्रुत्वा सर्वलोकपितामहः।अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम्॥ १७महर्षे स्वागतं वत्स तपसोग्रेण तोषितः।महत्त्वमृषिमुख्यत्वं ददामि तव कौशिक॥ १८ब्रह्मणः स वचः श्रुत्वा विश्वामित्रस्तपोधनः।प्राञ्जलिः प्रणतो भूत्वा प्रत्युवाच पितामहम्॥ १९ब्रह्मर्षि शब्दमतुलं स्वार्जितैः कर्मभिः शुभैः।यदि मे भगवानाह ततोऽहं विजितेन्द्रियः॥ २०तमुवाच ततो ब्रह्मा न तावत्त्वं जितेन्द्रियः।यतस्व मुनिशार्दूल इत्युक्त्वा त्रिदिवं गतः॥ २१विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः।ऊर्ध्वबाहुर्निरालम्बो वायुभक्षस्तपश्चरन्॥ २२धर्मे पञ्चतपा भूत्वा वर्षास्वाकाशसंश्रयः।शिशिरे सलिलस्थायी रात्र्यहानि तपोधनः॥ २३एवं वर्षसहस्रं हि तपो घोरमुपागमत्॥ २४तस्मिन्संतप्यमाने तु विश्वामित्रे महामुनौ।संभ्रमः सुमहानासीत्सुराणां वासवस्य च॥ २५रम्भामप्सरसं शक्रः सह सर्वैर्मरुद्गणैः।उवाचात्महितं वाक्यमहितं कौशिकस्य च॥ २६इति श्रीरामायणे बालकाण्डे द्विषष्टितमः सर्गः ॥ ६२
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved