॥ ॐ श्री गणपतये नमः ॥

६४ सर्गः
अथ हैमवतीं राम दिशं त्यक्त्वा महामुनिः।पूर्वां दिशमनुप्राप्य तपस्तेपे सुदारुणम्॥ १मौनं वर्षसहस्रस्य कृत्वा व्रतमनुत्तमम्।चकाराप्रतिमं राम तपः परमदुष्करम्॥ २पूर्णे वर्षसहस्रे तु काष्ठभूतं महामुनिम्।विघ्नैर्बहुभिराधूतं क्रोधो नान्तरमाविशत्॥ ३ततो देवाः सगन्धर्वाः पन्नगासुरराक्षसाः।मोहितास्तेजसा तस्य तपसा मन्दरश्मयः।कश्मलोपहताः सर्वे पितामहमथाब्रुवन्॥ ४बहुभिः कारणैर्देव विश्वामित्रो महामुनिः।लोभितः क्रोधितश्चैव तपसा चाभिवर्धते॥ ५न ह्यस्य वृजिनं किंचिद्दृश्यते सूक्ष्ममप्यथ।न दीयते यदि त्वस्य मनसा यदभीप्सितम्।विनाशयति त्रैलोक्यं तपसा सचराचरम्।व्याकुलाश्च दिशः सर्वा न च किंचित्प्रकाशते॥ ६सागराः क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः।प्रकम्पते च पृथिवी वायुर्वाति भृशाकुलः॥ ७बुद्धिं न कुरुते यावन्नाशे देव महामुनिः।तावत्प्रसाद्यो भगवानग्निरूपो महाद्युतिः॥ ८कालाग्निना यथा पूर्वं त्रैलोक्यं दह्यतेऽखिलम्।देवराज्ये चिकीर्षेत दीयतामस्य यन्मतम्॥ ९ततः सुरगणाः सर्वे पितामहपुरोगमाः।विश्वामित्रं महात्मानं वाक्यं मधुरमब्रुवन्॥ १०ब्रह्मर्षे स्वागतं तेऽस्तु तपसा स्म सुतोषिताः।ब्राह्मण्यं तपसोग्रेण प्राप्तवानसि कौशिक॥ ११दीर्घमायुश्च ते ब्रह्मन्ददामि समरुद्गणः।स्वस्ति प्राप्नुहि भद्रं ते गच्छ सौम्य यथासुखम्॥ १२पितामहवचः श्रुत्वा सर्वेषां च दिवौकसाम्।कृत्वा प्रणामं मुदितो व्याजहार महामुनिः॥ १३ब्राह्मण्यं यदि मे प्राप्तं दीर्घमायुस्तथैव च।ओंकारोऽथ वषट्कारो वेदाश्च वरयन्तु माम्॥ १४क्षत्रवेदविदां श्रेष्ठो ब्रह्मवेदविदामपि।ब्रह्मपुत्रो वसिष्ठो मामेवं वदतु देवताः।यद्ययं परमः कामः कृतो यान्तु सुरर्षभाः॥ १५ततः प्रसादितो देवैर्वसिष्ठो जपतां वरः।सख्यं चकार ब्रह्मर्षिरेवमस्त्विति चाब्रवीत्॥ १६ब्रह्मर्षित्वं न संदेहः सर्वं संपत्स्यते तव।इत्युक्त्वा देवताश्चापि सर्वा जग्मुर्यथागतम्॥ १७विश्वामित्रोऽपि धर्मात्मा लब्ध्वा ब्राह्मण्यमुत्तमम्।पूजयामास ब्रह्मर्षिं वसिष्ठं जपतां वरम्॥ १८कृतकामो महीं सर्वां चचार तपसि स्थितः।एवं त्वनेन ब्राह्मण्यं प्राप्तं राम महात्मना॥ १९एष राम मुनिश्रेष्ठ एष विग्रहवांस्तपः।एष धर्मः परो नित्यं वीर्यस्यैष परायणम्॥ २०शतानन्दवचः श्रुत्वा रामलक्ष्मणसंनिधौ।जनकः प्राञ्जलिर्वाक्यमुवाच कुशिकात्मजम्॥ २१धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगव।यज्ञं काकुत्स्थ सहितः प्राप्तवानसि धार्मिक॥ २२पावितोऽहं त्वया ब्रह्मन्दर्शनेन महामुने।गुणा बहुविधाः प्राप्तास्तव संदर्शनान्मया॥ २३विस्तरेण च ते ब्रह्मन्कीर्त्यमानं महत्तपः।श्रुतं मया महातेजो रामेण च महात्मना॥ २४सदस्यैः प्राप्य च सदः श्रुतास्ते बहवो गुणाः॥ २५अप्रमेयं तपस्तुभ्यमप्रमेयं च ते बलम्।अप्रमेया गुणाश्चैव नित्यं ते कुशिकात्मज॥ २६तृप्तिराश्चर्यभूतानां कथानां नास्ति मे विभो।कर्मकालो मुनिश्रेष्ठ लम्बते रविमण्डलम्॥ २७श्वः प्रभाते महातेजो द्रष्टुमर्हसि मां पुनः।स्वागतं तपसां श्रेष्ठ मामनुज्ञातुमर्हसि॥ २८एवमुक्त्वा मुनिश्रेष्ठं वैदेहो मिथिलाधिपः।प्रदक्षिणं चकाराशु सोपाध्यायः सबान्धवः॥ २९विश्वामित्रोऽपि धर्मात्मा सहरामः सलक्ष्मणः।स्वं वाटमभिचक्राम पूज्यमानो महर्षिभिः॥ ३०इति श्रीरामायणे बालकाण्डे चतुष्षष्टितमः सर्गः ॥ ६४
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved