॥ ॐ श्री गणपतये नमः ॥

४ सर्गः
गतेष्वथ नृपो भूयः पौरेषु सह मन्त्रिभिः।मन्त्रयित्वा ततश्चक्रे निश्चयज्ञः स निश्चयम्॥ १श्व एव पुष्यो भविता श्वोऽभिषेच्येत मे सुतः।रामो राजीवताम्राक्षो यौवराज्य इति प्रभुः॥ २अथान्तर्गृहमाविश्य राजा दशरथस्तदा।सूतमाज्ञापयामास रामं पुनरिहानय॥ ३प्रतिगृह्य स तद्वाक्यं सूतः पुनरुपाययौ।रामस्य भवनं शीघ्रं राममानयितुं पुनः॥ ४द्वाःस्थैरावेदितं तस्य रामायागमनं पुनः।श्रुत्वैव चापि रामस्तं प्राप्तं शङ्कान्वितोऽभवत्॥ ५प्रवेश्य चैनं त्वरितं रामो वचनमब्रवीत्।यदागमनकृत्यं ते भूयस्तद्ब्रूह्यशेषतः॥ ६तमुवाच ततः सूतो राजा त्वां द्रष्टुमिच्छति।श्रुत्वा प्रमाणमत्र त्वं गमनायेतराय वा॥ ७इति सूतवचः श्रुत्वा रामोऽथ त्वरयान्वितः।प्रययौ राजभवनं पुनर्द्रष्टुं नरेश्वरम्॥ ८तं श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः।प्रवेशयामास गृहं विविक्षुः प्रियमुत्तमम्॥ ९प्रविशन्नेव च श्रीमान्राघवो भवनं पितुः।ददर्श पितरं दूरात्प्रणिपत्य कृताञ्जलिः॥ १०प्रणमन्तं समुत्थाप्य तं परिष्वज्य भूमिपः।प्रदिश्य चास्मै रुचिरमासनं पुनरब्रवीत्॥ ११राम वृद्धोऽस्मि दीर्घायुर्भुक्ता भोगा मयेप्सिताः।अन्नवद्भिः क्रतुशतैस्तथेष्टं भूरिदक्षिणैः॥ १२जातमिष्टमपत्यं मे त्वमद्यानुपमं भुवि।दत्तमिष्टमधीतं च मया पुरुषसत्तम॥ १३अनुभूतानि चेष्टानि मया वीर सुखानि च।देवर्षि पितृविप्राणामनृणोऽस्मि तथात्मनः॥ १४न किंचिन्मम कर्तव्यं तवान्यत्राभिषेचनात्।अतो यत्त्वामहं ब्रूयां तन्मे त्वं कर्तुमर्हसि॥ १५अद्य प्रकृतयः सर्वास्त्वामिच्छन्ति नराधिपम्।अतस्त्वां युवराजानमभिषेक्ष्यामि पुत्रक॥ १६अपि चाद्याशुभान्राम स्वप्नान्पश्यामि दारुणान्।सनिर्घाता महोल्काश्च पतन्तीह महास्वनाः॥ १७अवष्टब्धं च मे राम नक्षत्रं दारुणैर्ग्रहैः।आवेदयन्ति दैवज्ञाः सूर्याङ्गारकराहुभिः॥ १८प्रायेण हि निमित्तानामीदृशानां समुद्भवे।राजा वा मृत्युमाप्नोति घोरां वापदमृच्छति॥ १९तद्यावदेव मे चेतो न विमुह्यति राघव।तावदेवाभिषिञ्चस्व चला हि प्राणिनां मतिः॥ २०अद्य चन्द्रोऽभ्युपगतः पुष्यात्पूर्वं पुनर्वसुम्।श्वः पुष्य योगं नियतं वक्ष्यन्ते दैवचिन्तकाः॥ २१तत्र पुष्येऽभिषिञ्चस्व मनस्त्वरयतीव माम्।श्वस्त्वाहमभिषेक्ष्यामि यौवराज्ये परंतप॥ २२तस्मात्त्वयाद्य व्रतिना निशेयं नियतात्मना।सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना॥ २३सुहृदश्चाप्रमत्तास्त्वां रक्षन्त्वद्य समन्ततः।भवन्ति बहुविघ्नानि कार्याण्येवंविधानि हि॥ २४विप्रोषितश्च भरतो यावदेव पुरादितः।तावदेवाभिषेकस्ते प्राप्तकालो मतो मम॥ २५कामं खलु सतां वृत्ते भ्राता ते भरतः स्थितः।ज्येष्ठानुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः॥ २६किं तु चित्तं मनुष्याणामनित्यमिति मे मतिः।सतां च धर्मनित्यानां कृतशोभि च राघव॥ २७इत्युक्तः सोऽभ्यनुज्ञातः श्वोभाविन्यभिषेचने।व्रजेति रामः पितरमभिवाद्याभ्ययाद्गृहम्॥ २८प्रविश्य चात्मनो वेश्म राज्ञोद्दिष्टेऽभिषेचने।तस्मिन्क्षणे विनिर्गत्य मातुरन्तःपुरं ययौ॥ २९तत्र तां प्रवणामेव मातरं क्षौमवासिनीम्।वाग्यतां देवतागारे ददर्श याचतीं श्रियम्॥ ३०प्रागेव चागता तत्र सुमित्रा लक्ष्मणस्तथा।सीता चानायिता श्रुत्वा प्रियं रामाभिषेचनम्॥ ३१तस्मिन्काले हि कौसल्या तस्थावामीलितेक्षणा।सुमित्रयान्वास्यमाना सीतया लक्ष्मणेन च॥ ३२श्रुत्वा पुष्येण पुत्रस्य यौवराज्याभिषेचनम्।प्राणायामेन पुरुषं ध्यायमाना जनार्दनम्॥ ३३तथा सनियमामेव सोऽभिगम्याभिवाद्य च।उवाच वचनं रामो हर्षयंस्तामिदं तदा॥ ३४अम्ब पित्रा नियुक्तोऽस्मि प्रजापालनकर्मणि।भविता श्वोऽभिषेको मे यथा मे शासनं पितुः॥ ३५सीतयाप्युपवस्तव्या रजनीयं मया सह।एवमृत्विगुपाध्यायैः सह मामुक्तवान्पिता॥ ३६यानि यान्यत्र योग्यानि श्वोभाविन्यभिषेचने।तानि मे मङ्गलान्यद्य वैदेह्याश्चैव कारय॥ ३७एतच्छ्रुत्वा तु कौसल्या चिरकालाभिकाङ्क्षितम्।हर्षबाष्पकलं वाक्यमिदं राममभाषत॥ ३८वत्स राम चिरं जीव हतास्ते परिपन्थिनः।ज्ञातीन्मे त्वं श्रिया युक्तः सुमित्रायाश्च नन्दय॥ ३९कल्याणे बत नक्षत्रे मयि जातोऽसि पुत्रक।येन त्वया दशरथो गुणैराराधितः पिता॥ ४०अमोघं बत मे क्षान्तं पुरुषे पुष्करेक्षणे।येयमिक्ष्वाकुराज्यश्रीः पुत्र त्वां संश्रयिष्यति॥ ४१इत्येवमुक्तो मात्रेदं रामो भारतमब्रवीत्।प्राञ्जलिं प्रह्वमासीनमभिवीक्ष्य स्मयन्निव॥ ४२लक्ष्मणेमां मया सार्धं प्रशाधि त्वं वसुंधराम्।द्वितीयं मेऽन्तरात्मानं त्वामियं श्रीरुपस्थिता॥ ४३सौमित्रे भुङ्क्ष्व भोगांस्त्वमिष्टान्राज्यफलानि च।जीवितं च हि राज्यं च त्वदर्थमभिकामये॥ ४४इत्युक्त्वा लक्ष्मणं रामो मातरावभिवाद्य च।अभ्यनुज्ञाप्य सीतां च जगाम स्वं निवेशनम्॥ ४५इति श्रीरामायणे अयोध्याकाण्डे चतुर्थः सर्गः ॥ ४
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved