५ सर्गः
संदिश्य रामं नृपतिः श्वोभाविन्यभिषेचने।पुरोहितं समाहूय वसिष्ठमिदमब्रवीत्॥ १गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन।श्रीयशोराज्यलाभाय वध्वा सह यतव्रतम्॥ २तथेति च स राजानमुक्त्वा वेदविदां वरः।स्वयं वसिष्ठो भगवान्ययौ रामनिवेशनम्॥ ३स रामभवनं प्राप्य पाण्डुराभ्रघनप्रभम्।तिस्रः कक्ष्या रथेनैव विवेश मुनिसत्तमः॥ ४तमागतमृषिं रामस्त्वरन्निव ससंभ्रमः।मानयिष्यन्स मानार्हं निश्चक्राम निवेशनात्॥ ५अभ्येत्य त्वरमाणश्च रथाभ्याशं मनीषिणः।ततोऽवतारयामास परिगृह्य रथात्स्वयम्॥ ६स चैनं प्रश्रितं दृष्ट्वा संभाष्याभिप्रसाद्य च।प्रियार्हं हर्षयन्राममित्युवाच पुरोहितः॥ ७प्रसन्नस्ते पिता राम यौवराज्यमवाप्स्यसि।उपवासं भवानद्य करोतु सह सीतया॥ ८प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः।पिता दशरथः प्रीत्या ययातिं नहुषो यथा॥ ९इत्युक्त्वा स तदा राममुपवासं यतव्रतम्।मन्त्रवत्कारयामास वैदेह्या सहितं मुनिः॥ १०ततो यथावद्रामेण स राज्ञो गुरुरर्चितः।अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात्॥ ११सुहृद्भिस्तत्र रामोऽपि ताननुज्ञाप्य सर्वशः।सभाजितो विवेशाथ ताननुज्ञाप्य सर्वशः॥ १२हृष्टनारी नरयुतं रामवेश्म तदा बभौ।यथा मत्तद्विजगणं प्रफुल्लनलिनं सरः॥ १३स राजभवनप्रख्यात्तस्माद्रामनिवेशनात्।निर्गत्य ददृशे मार्गं वसिष्ठो जनसंवृतम्॥ १४वृन्दवृन्दैरयोध्यायां राजमार्गाः समन्ततः।बभूवुरभिसंबाधाः कुतूहलजनैर्वृताः॥ १५जनवृन्दोर्मिसंघर्षहर्षस्वनवतस्तदा।बभूव राजमार्गस्य सागरस्येव निस्वनः॥ १६सिक्तसंमृष्टरथ्या हि तदहर्वनमालिनी।आसीदयोध्या नगरी समुच्छ्रितगृहध्वजा॥ १७तदा ह्ययोध्या निलयः सस्त्रीबालाबलो जनः।रामाभिषेकमाकाङ्क्षन्नाकाङ्क्षन्नुदयं रवेः॥ १८प्रजालंकारभूतं च जनस्यानन्दवर्धनम्।उत्सुकोऽभूज्जनो द्रष्टुं तमयोध्या महोत्सवम्॥ १९एवं तं जनसंबाधं राजमार्गं पुरोहितः।व्यूहन्निव जनौघं तं शनै राज कुलं ययौ॥ २०सिताभ्रशिखरप्रख्यं प्रासदमधिरुह्य सः।समियाय नरेन्द्रेण शक्रेणेव बृहस्पतिः॥ २१तमागतमभिप्रेक्ष्य हित्वा राजासनं नृपः।पप्रच्छ स च तस्मै तत्कृतमित्यभ्यवेदयत्॥ २२गुरुणा त्वभ्यनुज्ञातो मनुजौघं विसृज्य तम्।विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव॥ २३तदग्र्यवेषप्रमदाजनाकुलंमहेन्द्रवेश्मप्रतिमं निवेशनम्।व्यदीपयंश्चारु विवेश पार्थिवःशशीव तारागणसंकुलं नभः॥ २४इति श्रीरामायणे अयोध्याकाण्डे पञ्चमः सर्गः ॥ ५
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved