॥ ॐ श्री गणपतये नमः ॥

१४ सर्गः
स तदन्तःपुरद्वारं समतीत्य जनाकुलम्।प्रविविक्तां ततः कक्ष्यामाससाद पुराणवित्॥ १प्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलैः।अप्रमादिभिरेकाग्रैः स्वनुरक्तैरधिष्ठिताम्॥ २तत्र काषायिणो वृद्धान्वेत्रपाणीन्स्वलंकृतान्।ददर्श विष्ठितान्द्वारि स्त्र्यध्यक्षान्सुसमाहितान्॥ ३ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः।सहभार्याय रामाय क्षिप्रमेवाचचक्षिरे॥ ४प्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितुः।तत्रैवानाययामास राघवः प्रियकाम्यया॥ ५तं वैश्रवणसंकाशमुपविष्टं स्वलंकृतम्।दादर्श सूतः पर्यङ्के सौवणो सोत्तरच्छदे॥ ६वराहरुधिराभेण शुचिना च सुगन्धिना।अनुलिप्तं परार्ध्येन चन्दनेन परंतपम्॥ ७स्थितया पार्श्वतश्चापि वालव्यजनहस्तया।उपेतं सीतया भूयश्चित्रया शशिनं यथा॥ ८तं तपन्तमिवादित्यमुपपन्नं स्वतेजसा।ववन्दे वरदं बन्दी नियमज्ञो विनीतवत्॥ ९प्राञ्जलिस्तु सुखं पृष्ट्वा विहारशयनासने।राजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः॥ १०कौसल्या सुप्रभा देव पिता त्वं द्रष्टुमिच्छति।महिष्या सह कैकेय्या गम्यतां तत्र माचिरम्॥ ११एवमुक्तस्तु संहृष्टो नरसिंहो महाद्युतिः।ततः संमानयामास सीतामिदमुवाच ह॥ १२देवि देवश्च देवी च समागम्य मदन्तरे।मन्त्रेयेते ध्रुवं किंचिदभिषेचनसंहितम्॥ १३लक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा।संचोदयति राजानं मदर्थं मदिरेक्षणा॥ १४यादृशी परिषत्तत्र तादृशो दूत आगतः।ध्रुवमद्यैव मां राजा यौवराज्येऽभिषेक्ष्यति॥ १५हन्त शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिः।सह त्वं परिवारेण सुखमास्स्व रमस्य च॥ १६पतिसंमानिता सीता भर्तारमसितेक्षणा।आद्वारमनुवव्राज मङ्गलान्यभिदध्युषी॥ १७स सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च।ततः पावकसंकाशमारुरोह रथोत्तमम्॥ १८मुष्णन्तमिव चक्षूंषि प्रभया हेमवर्चसम्।करेणुशिशुकल्पैश्च युक्तं परमवाजिभिः॥ १९हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम्।प्रययौ तूर्णमास्थाय राघवो ज्वलितः श्रिया॥ २०स पर्जन्य इवाकाशे स्वनवानभिनादयन्।निकेतान्निर्ययौ श्रीमान्महाभ्रादिव चन्द्रमाः॥ २१छत्रचामरपाणिस्तु लक्ष्मणो राघवानुजः।जुगोप भ्रातरं भ्राता रथमास्थाय पृष्ठतः॥ २२ततो हलहलाशब्दस्तुमुलः समजायत।तस्य निष्क्रममाणस्य जनौघस्य समन्ततः॥ २३स राघवस्तत्र कथाप्रलापंशुश्राव लोकस्य समागतस्य।आत्माधिकारा विविधाश्च वाचःप्रहृष्टरूपस्य पुरे जनस्य॥ २४एष श्रियं गच्छति राघवोऽद्यराजप्रसादाद्विपुलां गमिष्यन्।एते वयं सर्वसमृद्धकामायेषामयं नो भविता प्रशास्ता।लाभो जनस्यास्य यदेष सर्वंप्रपत्स्यते राष्ट्रमिदं चिराय॥ २५स घोषवद्भिश्च हयैः सनागैःपुरःसरैः स्वस्तिकसूतमागधैः।महीयमानः प्रवरैश्च वादकैरभिष्टुतो वैश्रवणो यथा ययौ॥ २६करेणुमातङ्गरथाश्वसंकुलंमहाजनौघैः परिपूर्णचत्वरम्।प्रभूतरत्नं बहुपण्यसंचयंददर्श रामो रुचिरं महापथम्॥ २७इति श्रीरामायणे अयोध्याकाण्डे चतुर्दशः सर्गः ॥ १४
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved