॥ ॐ श्री गणपतये नमः ॥

१६ सर्गः
स ददर्शासने रामो निषण्णं पितरं शुभे।कैकेयीसहितं दीनं मुखेन परिशुष्यता॥ १स पितुश्चरणौ पूर्वमभिवाद्य विनीतवत्।ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः॥ २रामेत्युक्त्वा च वचनं वाष्पपर्याकुलेक्षणः।शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम्॥ ३तदपूर्वं नरपतेर्दृष्ट्वा रूपं भयावहम्।रामोऽपि भयमापन्नः पदा स्पृष्ट्वेव पन्नगम्॥ ४इन्द्रियैरप्रहृष्टैस्तं शोकसंतापकर्शितम्।निःश्वसन्तं महाराजं व्यथिताकुलचेतसम्॥ ५ऊर्मि मालिनमक्षोभ्यं क्षुभ्यन्तमिव सागरम्।उपप्लुतमिवादित्यमुक्तानृतमृषिं यथा॥ ६अचिन्त्यकल्पं हि पितुस्तं शोकमुपधारयन्।बभूव संरब्धतरः समुद्र इव पर्वणि॥ ७चिन्तयामास च तदा रामः पितृहिते रतः।किंस्विदद्यैव नृपतिर्न मां प्रत्यभिनन्दति॥ ८अन्यदा मां पिता दृष्ट्वा कुपितोऽपि प्रसीदति।तस्य मामद्य संप्रेक्ष्य किमायासः प्रवर्तते॥ ९स दीन इव शोकार्तो विषण्णवदनद्युतिः।कैकेयीमभिवाद्यैव रामो वचनमब्रवीत्॥ १०कच्चिन्मया नापराद्धमज्ञानाद्येन मे पिता।कुपितस्तन्ममाचक्ष्व त्वं चैवैनं प्रसादय॥ ११विवर्णवदनो दीनो न हि मामभिभाषते।शारीरो मानसो वापि कच्चिदेनं न बाधते।संतापो वाभितापो वा दुर्लभं हि सदा सुखम्॥ १२कच्चिन्न किंचिद्भरते कुमारे प्रियदर्शने।शत्रुघ्ने वा महासत्त्वे मातॄणां वा ममाशुभम्॥ १३अतोषयन्महाराजमकुर्वन्वा पितुर्वचः।मुहूर्तमपि नेच्छेयं जीवितुं कुपिते नृपे॥ १४यतोमूलं नरः पश्येत्प्रादुर्भावमिहात्मनः।कथं तस्मिन्न वर्तेत प्रत्यक्षे सति दैवते॥ १५कच्चित्ते परुषं किंचिदभिमानात्पिता मम।उक्तो भवत्या कोपेन यत्रास्य लुलितं मनः॥ १६एतदाचक्ष्व मे देवि तत्त्वेन परिपृच्छतः।किंनिमित्तमपूर्वोऽयं विकारो मनुजाधिपे॥ १७अहं हि वचनाद्राज्ञः पतेयमपि पावके।भक्षयेयं विषं तीक्ष्णं मज्जेयमपि चार्णवे।नियुक्तो गुरुणा पित्रा नृपेण च हितेन च॥ १८तद्ब्रूहि वचनं देवि राज्ञो यदभिकाङ्क्षितम्।करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते॥ १९तमार्जवसमायुक्तमनार्या सत्यवादिनम्।उवाच रामं कैकेयी वचनं भृशदारुणम्॥ २०पुरा देवासुरे युद्धे पित्रा ते मम राघव।रक्षितेन वरौ दत्तौ सशल्येन महारणे॥ २१तत्र मे याचितो राजा भरतस्याभिषेचनम्।गमनं दण्डकारण्ये तव चाद्यैव राघव॥ २२यदि सत्यप्रतिज्ञं त्वं पितरं कर्तुमिच्छसि।आत्मानं च नररेष्ठ मम वाक्यमिदं शृणु॥ २३स निदेशे पितुस्तिष्ठ यथा तेन प्रतिश्रुतम्।त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च॥ २४सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रितः।अभिषेकमिमं त्यक्त्वा जटाचीरधरो वस॥ २५भरतः कोसलपुरे प्रशास्तु वसुधामिमाम्।नानारत्नसमाकीर्णां सवाजिरथकुञ्जराम्॥ २६तदप्रियममित्रघ्नो वचनं मरणोपमम्।श्रुत्वा न विव्यथे रामः कैकेयीं चेदमब्रवीत्॥ २७एवमस्तु गमिष्यामि वनं वस्तुमहं त्वतः।जटाचीरधरो राज्ञः प्रतिज्ञामनुपालयन्॥ २८इदं तु ज्ञातुमिच्छामि किमर्थं मां महीपतिः।नाभिनन्दति दुर्धर्षो यथापुरमरिंदमः॥ २९मन्युर्न च त्वया कार्यो देवि ब्रूहि तवाग्रतः।यास्यामि भव सुप्रीता वनं चीरजटाधरः॥ ३०हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च।नियुज्यमानो विश्रब्धं किं न कुर्यादहं प्रियम्॥ ३१अलीकं मानसं त्वेकं हृदयं दहतीव मे।स्वयं यन्नाह मां राजा भरतस्याभिषेचनम्॥ ३२अहं हि सीतां राज्यं च प्राणानिष्टान्धनानि च।हृष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदितः॥ ३३किं पुनर्मनुजेन्द्रेण स्वयं पित्रा प्रचोदितः।तव च प्रियकामार्थं प्रतिज्ञामनुपालयन्॥ ३४तदाश्वासय हीमं त्वं किं न्विदं यन्महीपतिः।वसुधासक्तनयनो मन्दमश्रूणि मुञ्चति॥ ३५गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर्हयैः।भरतं मातुलकुलादद्यैव नृपशासनात्॥ ३६दण्डकारण्यमेषोऽहमितो गच्छामि सत्वरः।अविचार्य पितुर्वाक्यं समावस्तुं चतुर्दश॥ ३७सा हृष्टा तस्य तद्वाक्यं श्रुत्वा रामस्य कैकयी।प्रस्थानं श्रद्दधाना हि त्वरयामास राघवम्॥ ३८एवं भवतु यास्यन्ति दूताः शीघ्रजवैर्हयैः।भरतं मातुलकुलादुपावर्तयितुं नराः॥ ३९तव त्वहं क्षमं मन्ये नोत्सुकस्य विलम्बनम्।राम तस्मादितः शीघ्रं वनं त्वं गन्तुमर्हसि॥ ४०व्रीडान्वितः स्वयं यच्च नृपस्त्वां नाभिभाषते।नैतत्किंचिन्नरश्रेष्ठ मन्युरेषोऽपनीयताम्॥ ४१यावत्त्वं न वनं यातः पुरादस्मादभित्वरन्।पिता तावन्न ते राम स्नास्यते भोक्ष्यतेऽपि वा॥ ४२धिक्कष्टमिति निःश्वस्य राजा शोकपरिप्लुतः।मूर्छितो न्यपतत्तस्मिन्पर्यङ्के हेमभूषिते॥ ४३रामोऽप्युत्थाप्य राजानं कैकेय्याभिप्रचोदितः।कशयेवाहतो वाजी वनं गन्तुं कृतत्वरः॥ ४४तदप्रियमनार्याया वचनं दारुणोदरम्।श्रुत्वा गतव्यथो रामः कैकेयीं वाक्यमब्रवीत्॥ ४५नाहमर्थपरो देवि लोकमावस्तुमुत्सहे।विद्धि मामृषिभिस्तुल्यं केवलं धर्ममास्थितम्॥ ४६यदत्रभवतः किंचिच्छक्यं कर्तुं प्रियं मया।प्राणानपि परित्यज्य सर्वथा कृतमेव तत्॥ ४७न ह्यतो धर्मचरणं किंचिदस्ति महत्तरम्।यथा पितरि शुश्रूषा तस्य वा वचनक्रिया॥ ४८अनुक्तोऽप्यत्रभवता भवत्या वचनादहम्।वने वत्स्यामि विजने वर्षाणीह चतुर्दश॥ ४९न नूनं मयि कैकेयि किंचिदाशंससे गुणम्।यद्राजानमवोचस्त्वं ममेश्वरतरा सती॥ ५०यावन्मातरमापृच्छे सीतां चानुनयाम्यहम्।ततोऽद्यैव गमिष्यामि दण्डकानां महद्वनम्॥ ५१भरतः पालयेद्राज्यं शुश्रूषेच्च पितुर्यथा।तथा भवत्या कर्तव्यं स हि धर्मः सनातनः॥ ५२स रामस्य वचः श्रुत्वा भृशं दुःखहतः पिता।शोकादशक्नुवन्बाष्पं प्ररुरोद महास्वनम्॥ ५३वन्दित्वा चरणौ रामो विसंज्ञस्य पितुस्तदा।कैकेय्याश्चाप्यनार्याया निष्पपात महाद्युतिः॥ ५४स रामः पितरं कृत्वा कैकेयीं च प्रदक्षिणम्।निष्क्रम्यान्तःपुरात्तस्मात्स्वं ददर्श सुहृज्जनम्॥ ५५तं बाष्पपरिपूर्णाक्षः पृष्ठतोऽनुजगाम ह।लक्ष्मणः परमक्रुद्धः सुमित्रानन्दवर्धनः॥ ५६आभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम्।शनैर्जगाम सापेक्षो दृष्टिं तत्राविचालयन्॥ ५७न चास्य महतीं लक्ष्मीं राज्यनाशोऽपकर्षति।लोककान्तस्य कान्तत्वं शीतरश्मेरिव क्षपा॥ ५८न वनं गन्तुकामस्य त्यजतश्च वसुंधराम्।सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया॥ ५९धारयन्मनसा दुःखमिन्द्रियाणि निगृह्य च।प्रविवेशात्मवान्वेश्म मातुरप्रियशंसिवान्॥ ६०प्रविश्य वेश्मातिभृशं मुदान्वितंसमीक्ष्य तां चार्थविपत्तिमागताम्।न चैव रामोऽत्र जगाम विक्रियांसुहृज्जनस्यात्मविपत्तिशङ्कया॥ ६१इति श्रीरामायणे अयोध्याकाण्डे षोडशः सर्गः ॥ १६
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved