॥ ॐ श्री गणपतये नमः ॥

१७ सर्गः
रामस्तु भृशमायस्तो निःश्वसन्निव कुञ्जरः।जगाम सहितो भ्रात्रा मातुरन्तःपुरं वशी॥ १सोऽपश्यत्पुरुषं तत्र वृद्धं परमपूजितम्।उपविष्टं गृहद्वारि तिष्ठतश्चापरान्बहून्॥ २प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः।ब्राह्मणान्वेदसंपन्नान्वृद्धान्राज्ञाभिसत्कृतान्॥ ३प्रणम्य रामस्तान्वृद्धांस्तृतीयायां ददर्श सः।स्त्रियो वृद्धाश्च बालाश्च द्वाररक्षणतत्पराः॥ ४वर्धयित्वा प्रहृष्टास्ताः प्रविश्य च गृहं स्त्रियः।न्यवेदयन्त त्वरिता राम मातुः प्रियं तदा॥ ५कौसल्यापि तदा देवी रात्रिं स्थित्वा समाहिता।प्रभाते त्वकरोत्पूजां विष्णोः पुत्रहितैषिणी॥ ६सा क्षौमवसना हृष्टा नित्यं व्रतपरायणा।अग्निं जुहोति स्म तदा मन्त्रवत्कृतमङ्गला॥ ७प्रविश्य च तदा रामो मातुरन्तःपुरं शुभम्।ददर्श मातरं तत्र हावयन्तीं हुताशनम्॥ ८सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनमागतम्।अभिचक्राम संहृष्टा किशोरं वडवा यथा॥ ९तमुवाच दुराधर्षं राघवं सुतमात्मनः।कौसल्या पुत्रवात्सल्यादिदं प्रियहितं वचः॥ १०वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम्।प्राप्नुह्यायुश्च कीर्तिं च धर्मं चोपहितं कुले॥ ११सत्यप्रतिज्ञं पितरं राजानं पश्य राघव।अद्यैव हि त्वां धर्मात्मा यौवराज्येऽभिषेक्ष्यति॥ १२मातरं राघवः किंचित्प्रसार्याञ्जलिमब्रवीत्।स स्वभावविनीतश्च गौरवाच्च तदानतः॥ १३देवि नूनं न जानीषे महद्भयमुपस्थितम्।इदं तव च दुःखाय वैदेह्या लक्ष्मणस्य च॥ १४चतुर्दश हि वर्षाणि वत्स्यामि विजने वने।मधुमूलफलैर्जीवन्हित्वा मुनिवदामिषम्॥ १५भरताय महाराजो यौवराज्यं प्रयच्छति।मां पुनर्दण्डकारण्यं विवासयति तापसम्॥ १६तामदुःखोचितां दृष्ट्वा पतितां कदलीमिव।रामस्तूत्थापयामास मातरं गतचेतसम्॥ १७उपावृत्योत्थितां दीनां वडवामिव वाहिताम्।पांशुगुण्ठितसर्वाग्नीं विममर्श च पाणिना॥ १८सा राघवमुपासीनमसुखार्ता सुखोचिता।उवाच पुरुषव्याघ्रमुपशृण्वति लक्ष्मणे॥ १९यदि पुत्र न जायेथा मम शोकाय राघव।न स्म दुःखमतो भूयः पश्येयमहमप्रजा॥ २०एक एव हि वन्ध्यायाः शोको भवति मानवः।अप्रजास्मीति संतापो न ह्यन्यः पुत्र विद्यते॥ २१न दृष्टपूर्वं कल्याणं सुखं वा पतिपौरुषे।अपि पुत्रे विपश्येयमिति रामास्थितं मया॥ २२सा बहून्यमनोज्ञानि वाक्यानि हृदयच्छिदाम्।अहं श्रोष्ये सपत्नीनामवराणां वरा सती।अतो दुःखतरं किं नु प्रमदानां भविष्यति॥ २३त्वयि संनिहितेऽप्येवमहमासं निराकृता।किं पुनः प्रोषिते तात ध्रुवं मरणमेव मे॥ २४यो हि मां सेवते कश्चिदथ वाप्यनुवर्तते।कैकेय्याः पुत्रमन्वीक्ष्य स जनो नाभिभाषते॥ २५दश सप्त च वर्षाणि तव जातस्य राघव।अतीतानि प्रकाङ्क्षन्त्या मया दुःखपरिक्षयम्॥ २६उपवासैश्च योगैश्च बहुभिश्च परिश्रमैः।दुःखं संवर्धितो मोघं त्वं हि दुर्गतया मया॥ २७स्थिरं तु हृदयं मन्ये ममेदं यन्न दीर्यते।प्रावृषीव महानद्याः स्पृष्टं कूलं नवाम्भसा॥ २८ममैव नूनं मरणं न विद्यतेन चावकाशोऽस्ति यमक्षये मम।यदन्तकोऽद्यैव न मां जिहीर्षतिप्रसह्य सिंहो रुदतीं मृगीमिव॥ २९स्थिरं हि नूनं हृदयं ममायसंन भिद्यते यद्भुवि नावदीर्यते।अनेन दुःखेन च देहमर्पितंध्रुवं ह्यकाले मरणं न विद्यते॥ ३०इदं तु दुःखं यदनर्थकानि मेव्रतानि दानानि च संयमाश्च हि।तपश्च तप्तं यदपत्यकारणात्सुनिष्फलं बीजमिवोप्तमूषरे॥ ३१यदि ह्यकाले मरणं स्वयेच्छयालभेत कश्चिद्गुरुदुःखकर्शितः।गताहमद्यैव परेत संसदंविना त्वया धेनुरिवात्मजेन वै॥ ३२भृशमसुखममर्षिता तदाबहु विललाप समीक्ष्य राघवम्।व्यसनमुपनिशाम्य सा महत्सुतमिव बद्धमवेक्ष्य किंनरी॥ ३३इति श्रीरामायणे अयोध्याकाण्डे सप्तदशः सर्गः ॥ १७
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved