॥ ॐ श्री गणपतये नमः ॥

१८ सर्गः
तथा तु विलपन्तीं तां कौसल्यां राममातरम्।उवाच लक्ष्मणो दीनस्तत्कालसदृशं वचः॥ १न रोचते ममाप्येतदार्ये यद्राघवो वनम्।त्यक्त्वा राज्यश्रियं गच्छेत्स्त्रिया वाक्यवशं गतः॥ २विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः।नृपः किमिव न ब्रूयाच्चोद्यमानः समन्मथः॥ ३नास्यापराधं पश्यामि नापि दोषं तथा विधम्।येन निर्वास्यते राष्ट्राद्वनवासाय राघवः॥ ४न तं पश्याम्यहं लोके परोक्षमपि यो नरः।अमित्रोऽपि निरस्तोऽपि योऽस्य दोषमुदाहरेत्॥ ५देवकल्पमृजुं दान्तं रिपूणामपि वत्सलम्।अवेक्षमाणः को धर्मं त्यजेत्पुत्रमकारणात्॥ ६तदिदं वचनं राज्ञः पुनर्बाल्यमुपेयुषः।पुत्रः को हृदये कुर्याद्राजवृत्तमनुस्मरन्॥ ७यावदेव न जानाति कश्चिदर्थमिमं नरः।तावदेव मया सार्धमात्मस्थं कुरु शासनम्॥ ८मया पार्श्वे सधनुषा तव गुप्तस्य राघव।कः समर्थोऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः॥ ९निर्मनुष्यामिमां सर्वामयोध्यां मनुजर्षभ।करिष्यामि शरैस्तीक्ष्णैर्यदि स्थास्यति विप्रिये॥ १०भरतस्याथ पक्ष्यो वा यो वास्य हितमिच्छति।सर्वानेतान्वधिष्यामि मृदुर्हि परिभूयते॥ ११त्वया चैव मया चैव कृत्वा वैरमनुत्तमम्।कस्य शक्तिः श्रियं दातुं भरतायारिशासन॥ १२अनुरक्तोऽस्मि भावेन भ्रातरं देवि तत्त्वतः।सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे॥ १३दीप्तमग्निमरण्यं वा यदि रामः प्रवेक्ष्यते।प्रविष्टं तत्र मां देवि त्वं पूर्वमवधारय॥ १४हरामि वीर्याद्दुःखं ते तमः सूर्य इवोदितः।देवी पश्यतु मे वीर्यं राघवश्चैव पश्यतु॥ १५एतत्तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः।उवाच रामं कौसल्या रुदन्ती शोकलालसा॥ १६भ्रातुस्ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया।यदत्रानन्तरं तत्त्वं कुरुष्व यदि रोचते॥ १७न चाधर्म्यं वचः श्रुत्वा सपत्न्या मम भाषितम्।विहाय शोकसंतप्तां गन्तुमर्हसि मामितः॥ १८धर्मज्ञ यदि धर्मिष्ठो धर्मं चरितुमिच्छसि।शुश्रूष मामिहस्थस्त्वं चर धर्ममनुत्तमम्॥ १९शुश्रूषुर्जननीं पुत्र स्वगृहे नियतो वसन्।परेण तपसा युक्तः काश्यपस्त्रिदिवं गतः॥ २०यथैव राजा पूज्यस्ते गौरवेण तथा ह्यहम्।त्वां नाहमनुजानामि न गन्तव्यमितो वनम्॥ २१त्वद्वियोगान्न मे कार्यं जीवितेन सुखेन वा।त्वया सह मम श्रेयस्तृणानामपि भक्षणम्॥ २२यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम्।अहं प्रायमिहासिष्ये न हि शक्ष्यामि जीवितुम्॥ २३ततस्त्वं प्राप्स्यसे पुत्र निरयं लोकविश्रुतम्।ब्रह्महत्यामिवाधर्मात्समुद्रः सरितां पतिः॥ २४विलपन्तीं तथा दीनां कौसल्यां जननीं ततः।उवाच रामो धर्मात्मा वचनं धर्मसंहितम्॥ २५नास्ति शक्तिः पितुर्वाक्यं समतिक्रमितुं मम।प्रसादये त्वां शिरसा गन्तुमिच्छाम्यहं वनम्॥ २६ऋषिणा च पितुर्वाक्यं कुर्वता व्रतचारिणा।गौर्हता जानता धर्मं कण्डुनापि विपश्चिता॥ २७अस्माकं च कुले पूर्वं सगरस्याज्ञया पितुः।खनद्भिः सागरैर्भूतिमवाप्तः सुमहान्वधः॥ २८जामदग्न्येन रामेण रेणुका जननी स्वयम्।कृत्ता परशुनारण्ये पितुर्वचनकारिणा॥ २९न खल्वेतन्मयैकेन क्रियते पितृशासनम्।पूर्वैरयमभिप्रेतो गतो मार्गोऽनुगम्यते॥ ३०तदेतत्तु मया कार्यं क्रियते भुवि नान्यथा।पितुर्हि वचनं कुर्वन्न कश्चिन्नाम हीयते॥ ३१तामेवमुक्त्वा जननीं लक्ष्मणं पुनरब्रवीत्।तव लक्ष्मण जानामि मयि स्नेहमनुत्तमम्।अभिप्रायमविज्ञाय सत्यस्य च शमस्य च॥ ३२धर्मो हि परमो लोके धर्मे सत्यं प्रतिष्ठितम्।धर्मसंश्रितमेतच्च पितुर्वचनमुत्तमम्॥ ३३संश्रुत्य च पितुर्वाक्यं मातुर्वा ब्राह्मणस्य वा।न कर्तव्यं वृथा वीर धर्ममाश्रित्य तिष्ठता॥ ३४सोऽहं न शक्ष्यामि पितुर्नियोगमतिवर्तितुम्।पितुर्हि वचनाद्वीर कैकेय्याहं प्रचोदितः॥ ३५तदेनां विसृजानार्यां क्षत्रधर्माश्रितां मतिम्।धर्ममाश्रय मा तैक्ष्ण्यं मद्बुद्धिरनुगम्यताम्॥ ३६तमेवमुक्त्वा सौहार्दाद्भ्रातरं लक्ष्मणाग्रजः।उवाच भूयः कौसल्यां प्राञ्जलिः शिरसानतः॥ ३७अनुमन्यस्व मां देवि गमिष्यन्तमितो वनम्।शापितासि मम प्राणैः कुरु स्वस्त्ययनानि मे।तीर्णप्रतिज्ञश्च वनात्पुनरेष्याम्यहं पुरीम्॥ ३८यशो ह्यहं केवलराज्यकारणान्न पृष्ठतः कर्तुमलं महोदयम्।अदीर्घकाले न तु देवि जीवितेवृणेऽवरामद्य महीमधर्मतः॥ ३९प्रसादयन्नरवृषभः स मातरंपराक्रमाज्जिगमिषुरेव दण्डकान्।अथानुजं भृशमनुशास्य दर्शनंचकार तां हृदि जननीं प्रदक्षिणम्॥ ४०इति श्रीरामायणे अयोध्याकाण्डे अष्टादशः सर्गः ॥ १८
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved