२० सर्गः
इति ब्रुवति रामे तु लक्ष्मणोऽधःशिरा मुहुः।श्रुत्वा मध्यं जगामेव मनसा दुःखहर्षयोः॥ १तदा तु बद्ध्वा भ्रुकुटीं भ्रुवोर्मध्ये नरर्षभ।निशश्वास महासर्पो बिलस्थ इव रोषितः॥ २तस्य दुष्प्रतिवीक्ष्यं तद्भ्रुकुटीसहितं तदा।बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशं मुखम्॥ ३अग्रहस्तं विधुन्वंस्तु हस्ती हस्तमिवात्मनः।तिर्यगूर्ध्वं शरीरे च पातयित्वा शिरोधराम्॥ ४अग्राक्ष्णा वीक्षमाणस्तु तिर्यग्भ्रातरमब्रवीत्।अस्थाने संभ्रमो यस्य जातो वै सुमहानयम्॥ ५धर्मदोषप्रसङ्गेन लोकस्यानतिशङ्कया।कथं ह्येतदसंभ्रान्तस्त्वद्विधो वक्तुमर्हति॥ ६यथा दैवमशौण्डीरं शौण्डीरः क्षत्रियर्षभः।किं नाम कृपणं दैवमशक्तमभिशंससि॥ ७पापयोस्ते कथं नाम तयोः शङ्का न विद्यते।सन्ति धर्मोपधाः श्लक्ष्णा धर्मात्मन्किं न बुध्यसे॥ ८लोकविद्विष्टमारब्धं त्वदन्यस्याभिषेचनम्।येनेयमागता द्वैधं तव बुद्धिर्महीपते।स हि धर्मो मम द्वेष्यः प्रसङ्गाद्यस्य मुह्यसि॥ ९यद्यपि प्रतिपत्तिस्ते दैवी चापि तयोर्मतम्।तथाप्युपेक्षणीयं ते न मे तदपि रोचते॥ १०विक्लवो वीर्यहीनो यः स दैवमनुवर्तते।वीराः संभावितात्मानो न दैवं पर्युपासते॥ ११दैवं पुरुषकारेण यः समर्थः प्रबाधितुम्।न दैवेन विपन्नार्थः पुरुषः सोऽवसीदति॥ १२द्रक्ष्यन्ति त्वद्य दैवस्य पौरुषं पुरुषस्य च।दैवमानुषयोरद्य व्यक्ता व्यक्तिर्भविष्यति॥ १३अद्य मत्पौरुषहतं दैवं द्रक्ष्यन्ति वै जनाः।यद्दैवादाहतं तेऽद्य दृष्टं राज्याभिषेचनम्॥ १४अत्यङ्कुशमिवोद्दामं गजं मदबलोद्धतम्।प्रधावितमहं दैवं पौरुषेण निवर्तये॥ १५लोकपालाः समस्तास्ते नाद्य रामाभिषेचनम्।न च कृत्स्नास्त्रयो लोका विहन्युः किं पुनः पिता॥ १६यैर्विवासस्तवारण्ये मिथो राजन्समर्थितः।अरण्ये ते विवत्स्यन्ति चतुर्दश समास्तथा॥ १७अहं तदाशां छेत्स्यामि पितुस्तस्याश्च या तव।अभिषेकविघातेन पुत्रराज्याय वर्तते॥ १८मद्बलेन विरुद्धाय न स्याद्दैवबलं तथा।प्रभविष्यति दुःखाय यथोग्रं पौरुषं मम॥ १९ऊर्ध्वं वर्षसहस्रान्ते प्रजापाल्यमनन्तरम्।आर्यपुत्राः करिष्यन्ति वनवासं गते त्वयि॥ २०पूर्वराजर्षिवृत्त्या हि वनवासो विधीयते।प्रजा निक्षिप्य पुत्रेषु पुत्रवत्परिपालने॥ २१स चेद्राजन्यनेकाग्रे राज्यविभ्रमशङ्कया।नैवमिच्छसि धर्मात्मन्राज्यं राम त्वमात्मनि॥ २२प्रतिजाने च ते वीर मा भूवं वीरलोकभाक्।राज्यं च तव रक्षेयमहं वेलेव सागरम्॥ २३मङ्गलैरभिषिञ्चस्व तत्र त्वं व्यापृतो भव।अहमेको महीपालानलं वारयितुं बलात्॥ २४न शोभार्थाविमौ बाहू न धनुर्भूषणाय मे।नासिराबन्धनार्थाय न शराः स्तम्भहेतवः॥ २५अमित्रदमनार्थं मे सर्वमेतच्चतुष्टयम्।न चाहं कामयेऽत्यर्थं यः स्याच्छत्रुर्मतो मम॥ २६असिना तीक्ष्णधारेण विद्युच्चलितवर्चसा।प्रगृहीतेन वै शत्रुं वज्रिणं वा न कल्पये॥ २७खड्गनिष्पेषनिष्पिष्टैर्गहना दुश्चरा च मे।हस्त्यश्वनरहस्तोरुशिरोभिर्भविता मही॥ २८खड्गधाराहता मेऽद्य दीप्यमाना इवाद्रयः।पतिष्यन्ति द्विपा भूमौ मेघा इव सविद्युतः॥ २९बद्धगोधाङ्गुलित्राणे प्रगृहीतशरासने।कथं पुरुषमानी स्यात्पुरुषाणां मयि स्थिते॥ ३०बहुभिश्चैकमत्यस्यन्नेकेन च बहूञ्जनान्।विनियोक्ष्याम्यहं बाणान्नृवाजिगजमर्मसु॥ ३१अद्य मेऽस्त्रप्रभावस्य प्रभावः प्रभविष्यति।राज्ञश्चाप्रभुतां कर्तुं प्रभुत्वं च तव प्रभो॥ ३२अद्य चन्दनसारस्य केयूरामोक्षणस्य च।वसूनां च विमोक्षस्य सुहृदां पालनस्य च॥ ३३अनुरूपाविमौ बाहू राम कर्म करिष्यतः।अभिषेचनविघ्नस्य कर्तॄणां ते निवारणे॥ ३४ब्रवीहि कोऽद्यैव मया वियुज्यतांतवासुहृत्प्राणयशः सुहृज्जनैः।यथा तवेयं वसुधा वशे भवेत्तथैव मां शाधि तवास्मि किंकरः॥ ३५विमृज्य बाष्पं परिसान्त्व्य चासकृत्स लक्ष्मणं राघववंशवर्धनः।उवाच पित्र्ये वचने व्यवस्थितंनिबोध मामेष हि सौम्य सत्पथः॥ ३६इति श्रीरामायणे अयोध्याकाण्डे विंशतितमः सर्गः ॥ २०
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved