॥ ॐ श्री गणपतये नमः ॥

२३ सर्गः
अभिवाद्य तु कौसल्यां रामः संप्रस्थितो वनम्।कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः॥ १विराजयन्राजसुतो राजमार्गं नरैर्वृतम्।हृदयान्याममन्थेव जनस्य गुणवत्तया॥ २वैदेही चापि तत्सर्वं न शुश्राव तपस्विनी।तदेव हृदि तस्याश्च यौवराज्याभिषेचनम्॥ ३देवकार्यं स्म सा कृत्वा कृतज्ञा हृष्टचेतना।अभिज्ञा राजधर्माणां राजपुत्रं प्रतीक्षते॥ ४प्रविवेशाथ रामस्तु स्ववेश्म सुविभूषितम्।प्रहृष्टजनसंपूर्णं ह्रिया किंचिदवाङ्मुखः॥ ५अथ सीता समुत्पत्य वेपमाना च तं पतिम्।अपश्यच्छोकसंतप्तं चिन्ताव्याकुलितेन्द्रियम्॥ ६विवर्णवदनं दृष्ट्वा तं प्रस्विन्नममर्षणम्।आह दुःखाभिसंतप्ता किमिदानीमिदं प्रभो॥ ७अद्य बार्हस्पतः श्रीमान्युक्तः पुष्यो न राघव।प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वमसि दुर्मनाः॥ ८न ते शतशलाकेन जलफेननिभेन च।आवृतं वदनं वल्गु छत्रेणाभिविराजते॥ ९व्यजनाभ्यां च मुख्याभ्यां शतपत्रनिभेक्षणम्।चन्द्रहंसप्रकाशाभ्यां वीज्यते न तवाननम्॥ १०वाग्मिनो बन्दिनश्चापि प्रहृष्टास्त्वं नरर्षभ।स्तुवन्तो नाद्य दृश्यन्ते मङ्गलैः सूतमागधाः॥ ११न ते क्षौद्रं च दधि च ब्राह्मणा वेदपारगाः।मूर्ध्नि मूर्धावसिक्तस्य दधति स्म विधानतः॥ १२न त्वां प्रकृतयः सर्वा श्रेणीमुख्याश्च भूषिताः।अनुव्रजितुमिच्छन्ति पौरजानपदास्तथा॥ १३चतुर्भिर्वेगसंपन्नैर्हयैः काञ्चनभूषणैः।मुख्यः पुष्यरथो युक्तः किं न गच्छति तेऽग्रतः॥ १४न हस्ती चाग्रतः श्रीमांस्तव लक्षणपूजितः।प्रयाणे लक्ष्यते वीर कृष्णमेघगिरि प्रभः॥ १५न च काञ्चनचित्रं ते पश्यामि प्रियदर्शन।भद्रासनं पुरस्कृत्य यान्तं वीरपुरःसरम्॥ १६अभिषेको यदा सज्जः किमिदानीमिदं तव।अपूर्वो मुखवर्णश्च न प्रहर्षश्च लक्ष्यते॥ १७इतीव विलपन्तीं तां प्रोवाच रघुनन्दनः।सीते तत्रभवांस्तातः प्रव्राजयति मां वनम्॥ १८कुले महति संभूते धर्मज्ञे धर्मचारिणि।शृणु जानकि येनेदं क्रमेणाभ्यागतं मम॥ १९राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन मे।कैकेय्यै प्रीतमनसा पुरा दत्तौ महावरौ॥ २०तयाद्य मम सज्जेऽस्मिन्नभिषेके नृपोद्यते।प्रचोदितः स समयो धर्मेण प्रतिनिर्जितः॥ २१चतुर्दश हि वर्षाणि वस्तव्यं दण्डके मया।पित्रा मे भरतश्चापि यौवराज्ये नियोजितः।सोऽहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम्॥ २२भरतस्य समीपे ते नाहं कथ्यः कदाचन।ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम्।तस्मान्न ते गुणाः कथ्या भरतस्याग्रतो मम॥ २३नापि त्वं तेन भर्तव्या विशेषेण कदाचन।अनुकूलतया शक्यं समीपे तस्य वर्तितुम्॥ २४अहं चापि प्रतिज्ञां तां गुरोः समनुपालयन्।वनमद्यैव यास्यामि स्थिरा भव मनस्विनि॥ २५याते च मयि कल्याणि वनं मुनिनिषेवितम्।व्रतोपवासरतया भवितव्यं त्वयानघे॥ २६काल्यमुत्थाय देवानां कृत्वा पूजां यथाविधि।वन्दितव्यो दशरथः पिता मम नरेश्वरः॥ २७माता च मम कौसल्या वृद्धा संतापकर्शिता।धर्ममेवाग्रतः कृत्वा त्वत्तः संमानमर्हति॥ २८वन्दितव्याश्च ते नित्यं याः शेषा मम मातरः।स्नेहप्रणयसंभोगैः समा हि मम मातरः॥ २९भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः।त्वया लक्ष्मणशत्रुघ्नौ प्राणैः प्रियतरौ मम॥ ३०विप्रियं न च कर्तव्यं भरतस्य कदाचन।स हि राजा प्रभुश्चैव देशस्य च कुलस्य च॥ ३१आराधिता हि शीलेन प्रयत्नैश्चोपसेविताः।राजानः संप्रसीदन्ति प्रकुप्यन्ति विपर्यये॥ ३२औरसानपि पुत्रान्हि त्यजन्त्यहितकारिणः।समर्थान्संप्रगृह्णन्ति जनानपि नराधिपाः॥ ३३अहं गमिष्यामि महावनं प्रियेत्वया हि वस्तव्यमिहैव भामिनि।यथा व्यलीकं कुरुषे न कस्यचित्तथा त्वया कार्यमिदं वचो मम॥ ३४इति श्रीरामायणे अयोध्याकाण्डे त्रयोविंशतितमः सर्गः ॥ २३
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved