२४ सर्गः
एवमुक्ता तु वैदेही प्रियार्हा प्रियवादिनी।प्रणयादेव संक्रुद्धा भर्तारमिदमब्रवीत्॥ १आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुषा।स्वानि पुण्यानि भुञ्जानाः स्वं स्वं भाग्यमुपासते॥ २भर्तुर्भाग्यं तु भार्यैका प्राप्नोति पुरुषर्षभ।अतश्चैवाहमादिष्टा वने वस्तव्यमित्यपि॥ ३न पिता नात्मजो नात्मा न माता न सखीजनः।इह प्रेत्य च नारीणां पतिरेको गतिः सदा॥ ४यदि त्वं प्रस्थितो दुर्गं वनमद्यैव राघव।अग्रतस्ते गमिष्यामि मृद्नन्ती कुशकण्टकान्॥ ५ईर्ष्यारोषौ बहिष्कृत्य भुक्तशेषमिवोदकम्।नय मां वीर विश्रब्धः पापं मयि न विद्यते॥ ६प्रासादाग्रैर्विमानैर्वा वैहायसगतेन वा।सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते॥ ७अनुशिष्टास्मि मात्रा च पित्रा च विविधाश्रयम्।नास्मि संप्रति वक्तव्या वर्तितव्यं यथा मया॥ ८सुखं वने निवत्स्यामि यथैव भवने पितुः।अचिन्तयन्ती त्रीँल्लोकांश्चिन्तयन्ती पतिव्रतम्॥ ९शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी।सह रंस्ये त्वया वीर वनेषु मधुगन्धिषु॥ १०त्वं हि कर्तुं वने शक्तो राम संपरिपालनम्।अन्यस्यापि जनस्येह किं पुनर्मम मानद॥ ११फलमूलाशना नित्यं भविष्यामि न संशयः।न ते दुःखं करिष्यामि निवसन्ती सह त्वया॥ १२इच्छामि सरितः शैलान्पल्वलानि वनानि च।द्रष्टुं सर्वत्र निर्भीता त्वया नाथेन धीमता॥ १३हंसकारण्डवाकीर्णाः पद्मिनीः साधुपुष्पिताः।इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण संगता॥ १४सह त्वया विशालाक्ष रंस्ये परमनन्दिनी।एवं वर्षसहस्राणां शतं वाहं त्वया सह॥ १५स्वर्गेऽपि च विना वासो भविता यदि राघव।त्वया मम नरव्याघ्र नाहं तमपि रोचये॥ १६अहं गमिष्यामि वनं सुदुर्गमंमृगायुतं वानरवारणैर्युतम्।वने निवत्स्यामि यथा पितुर्गृहेतवैव पादावुपगृह्य संमता॥ १७अनन्यभावामनुरक्तचेतसंत्वया वियुक्तां मरणाय निश्चिताम्।नयस्व मां साधु कुरुष्व याचनांन ते मयातो गुरुता भविष्यति॥ १८तथा ब्रुवाणामपि धर्मवत्सलोन च स्म सीतां नृवरो निनीषति।उवाच चैनां बहु संनिवर्तनेवने निवासस्य च दुःखितां प्रति॥ १९इति श्रीरामायणे अयोध्याकाण्डे चतुर्विंशतितमः सर्गः ॥ २४
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved