२५ सर्गः
स एवं ब्रुवतीं सीतां धर्मज्ञो धर्मवत्सलः।निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह॥ १सीते महाकुलीनासि धर्मे च निरता सदा।इहाचर स्वधर्मं त्वं मा यथा मनसः सुखम्॥ २सीते यथा त्वां वक्ष्यामि तथा कार्यं त्वयाबले।वने दोषा हि बहवो वदतस्तान्निबोध मे॥ ३सीते विमुच्यतामेषा वनवासकृता मतिः।बहुदोषं हि कान्तारं वनमित्यभिधीयते॥ ४हितबुद्ध्या खलु वचो मयैतदभिधीयते।सदा सुखं न जानामि दुःखमेव सदा वनम्॥ ५गिरिनिर्झरसंभूता गिरिकन्दरवासिनाम्।सिंहानां निनदा दुःखाः श्रोतुं दुःखमतो वनम्॥ ६सुप्यते पर्णशय्यासु स्वयं भग्नासु भूतले।रात्रिषु श्रमखिन्नेन तस्माद्दुःखतरं वनम्॥ ७उपवासश्च कर्तव्या यथाप्राणेन मैथिलि।जटाभारश्च कर्तव्यो वल्कलाम्बरधारिणा॥ ८अतीव वातस्तिमिरं बुभुक्षा चात्र नित्यशः।भयानि च महान्त्यत्र ततो दुःखतरं वनम्॥ ९सरीसृपाश्च बहवो बहुरूपाश्च भामिनि।चरन्ति पृथिवीं दर्पादतो दुखतरं वनम्॥ १०नदीनिलयनाः सर्पा नदीकुटिलगामिनः।तिष्ठन्त्यावृत्य पन्थानमतो दुःखतरं वनम्॥ ११पतंगा वृश्चिकाः कीटा दंशाश्च मशकैः सह।बाधन्ते नित्यमबले सर्वं दुःखमतो वनम्॥ १२द्रुमाः कण्टकिनश्चैव कुशकाशाश्च भामिनि।वने व्याकुलशाखाग्रास्तेन दुःखतरं वनम्॥ १३तदलं ते वनं गत्वा क्षमं न हि वनं तव।विमृशन्निह पश्यामि बहुदोषतरं वनम्॥ १४वनं तु नेतुं न कृता मतिस्तदाबभूव रामेण यदा महात्मना।न तस्य सीता वचनं चकार तत्ततोऽब्रवीद्राममिदं सुदुःखिता॥ १५इति श्रीरामायणे अयोध्याकाण्डे पञ्चविंशतितमः सर्गः ॥ २५
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved