२६ सर्गः
एतत्तु वचनं श्रुत्वा सीता रामस्य दुःखिता।प्रसक्ताश्रुमुखी मन्दमिदं वचनमब्रवीत्॥ १ये त्वया कीर्तिता दोषा वने वस्तव्यतां प्रति।गुणानित्येव तान्विद्धि तव स्नेहपुरस्कृतान्॥ २त्वया च सह गन्तव्यं मया गुरुजनाज्ञया।त्वद्वियोगेन मे राम त्यक्तव्यमिह जीवितम्॥ ३न च मां त्वत्समीपस्थमपि शक्नोति राघव।सुराणामीश्वरः शक्रः प्रधर्षयितुमोजसा॥ ४पतिहीना तु या नारी न सा शक्ष्यति जीवितुम्।काममेवंविधं राम त्वया मम विदर्शितम्॥ ५अथ चापि महाप्राज्ञ ब्राह्मणानां मया श्रुतम्।पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने॥ ६लक्षणिभ्यो द्विजातिभ्यः श्रुत्वाहं वचनं गृहे।वनवासकृतोत्साहा नित्यमेव महाबल॥ ७आदेशो वनवासस्य प्राप्तव्यः स मया किल।सा त्वया सह तत्राहं यास्यामि प्रिय नान्यथा॥ ८कृतादेशा भविष्यामि गमिष्यामि सह त्वया।कालश्चायं समुत्पन्नः सत्यवाग्भवतु द्विजः॥ ९वनवासे हि जानामि दुःखानि बहुधा किल।प्राप्यन्ते नियतं वीर पुरुषैरकृतात्मभिः॥ १०कन्यया च पितुर्गेहे वनवासः श्रुतो मया।भिक्षिण्याः साधुवृत्ताया मम मातुरिहाग्रतः॥ ११प्रसादितश्च वै पूर्वं त्वं वै बहुविधं प्रभो।गमनं वनवासस्य काङ्क्षितं हि सह त्वया॥ १२कृतक्षणाहं भद्रं ते गमनं प्रति राघव।वनवासस्य शूरस्य चर्या हि मम रोचते॥ १३शुद्धात्मन्प्रेमभावाद्धि भविष्यामि विकल्मषा।भर्तारमनुगच्छन्ती भर्ता हि मम दैवतम्॥ १४प्रेत्यभावेऽपि कल्याणः संगमो मे सह त्वया।श्रुतिर्हि श्रूयते पुण्या ब्राह्मणानां यशस्विनाम्॥ १५इह लोके च पितृभिर्या स्त्री यस्य महामते।अद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेऽपि तस्य सा॥ १६एवमस्मात्स्वकां नारीं सुवृत्तां हि पतिव्रताम्।नाभिरोचयसे नेतुं त्वं मां केनेह हेतुना॥ १७भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः।नेतुमर्हसि काकुत्स्थ समानसुखदुःखिनीम्॥ १८यदि मां दुःखितामेवं वनं नेतुं न चेच्छसि।विषमग्निं जलं वाहमास्थास्ये मृत्युकारणात्॥ १९एवं बहुविधं तं सा याचते गमनं प्रति।नानुमेने महाबाहुस्तां नेतुं विजनं वनम्॥ २०एवमुक्ता तु सा चिन्तां मैथिली समुपागता।स्नापयन्तीव गामुष्णैरश्रुभिर्नयनच्युतैः॥ २१चिन्तयन्तीं तथा तां तु निवर्तयितुमात्मवान्।क्रोधाविष्टां तु वैदेहीं काकुत्स्थो बह्वसान्त्वयत्॥ २२इति श्रीरामायणे अयोध्याकाण्डे षड्विंशतितमः सर्गः ॥ २६
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved