२७ सर्गः
सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा।वनवासनिमित्ताय भर्तारमिदमब्रवीत्॥ १सा तमुत्तमसंविग्ना सीता विपुलवक्षसम्।प्रणयाच्चाभिमानाच्च परिचिक्षेप राघवम्॥ २किं त्वामन्यत वैदेहः पिता मे मिथिलाधिपः।राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम्॥ ३अनृतं बललोकोऽयमज्ञानाद्यद्धि वक्ष्यति।तेजो नास्ति परं रामे तपतीव दिवाकरे॥ ४किं हि कृत्वा विषण्णस्त्वं कुतो वा भयमस्ति ते।यत्परित्यक्तुकामस्त्वं मामनन्यपरायणाम्॥ ५द्युमत्सेनसुतं वीर सत्यवन्तमनुव्रताम्।सावित्रीमिव मां विद्धि त्वमात्मवशवर्तिनीम्॥ ६न त्वहं मनसाप्यन्यं द्रष्टास्मि त्वदृतेऽनघ।त्वया राघव गच्छेयं यथान्या कुलपांसनी॥ ७स्वयं तु भार्यां कौमारीं चिरमध्युषितां सतीम्।शैलूष इव मां राम परेभ्यो दातुमिच्छसि॥ ८स मामनादाय वनं न त्वं प्रस्थातुमर्हसि।तपो वा यदि वारण्यं स्वर्गो वा स्यात्सह त्वया॥ ९न च मे भविता तत्र कश्चित्पथि परिश्रमः।पृष्ठतस्तव गच्छन्त्या विहारशयनेष्वपि॥ १०कुशकाशशरेषीका ये च कण्टकिनो द्रुमाः।तूलाजिनसमस्पर्शा मार्गे मम सह त्वया॥ ११महावातसमुद्धूतं यन्मामवकरिष्यति।रजो रमण तन्मन्ये परार्ध्यमिव चन्दनम्॥ १२शाद्वलेषु यदासिष्ये वनान्ते वनगोचरा।कुथास्तरणतल्पेषु किं स्यात्सुखतरं ततः॥ १३पत्रं मूलं फलं यत्त्वमल्पं वा यदि वा बहु।दास्यसि स्वयमाहृत्य तन्मेऽमृतरसोपमम्॥ १४न मातुर्न पितुस्तत्र स्मरिष्यामि न वेश्मनः।आर्तवान्युपभुञ्जाना पुष्पाणि च फलानि च॥ १५न च तत्र गतः किंचिद्द्रष्टुमर्हसि विप्रियम्।मत्कृते न च ते शोको न भविष्यामि दुर्भरा॥ १६यस्त्वया सह स स्वर्गो निरयो यस्त्वया विना।इति जानन्परां प्रीतिं गच्छ राम मया सह॥ १७अथ मामेवमव्यग्रां वनं नैव नयिष्यसि।विषमद्यैव पास्यामि मा विशं द्विषतां वशम्॥ १८पश्चादपि हि दुःखेन मम नैवास्ति जीवितम्।उज्झितायास्त्वया नाथ तदैव मरणं वरम्॥ १९इदं हि सहितुं शोकं मुहूर्तमपि नोत्सहे।किं पुनर्दशवर्षाणि त्रीणि चैकं च दुःखिता॥ २०इति सा शोकसंतप्ता विलप्य करुणं बहु।चुक्रोश पतिमायस्ता भृशमालिङ्ग्य सस्वरम्॥ २१सा विद्धा बहुभिर्वाक्यैर्दिग्धैरिव गजाङ्गना।चिर संनियतं बाष्पं मुमोचाग्निमिवारणिः॥ २२तस्याः स्फटिकसंकाशं वारि संतापसंभवम्।नेत्राभ्यां परिसुस्राव पङ्कजाभ्यामिवोदकम्॥ २३तां परिष्वज्य बाहुभ्यां विसंज्ञामिव दुःखिताम्।उवाच वचनं रामः परिविश्वासयंस्तदा॥ २४न देवि तव दुःखेन स्वर्गमप्यभिरोचये।न हि मेऽस्ति भयं किंचित्स्वयम्भोरिव सर्वतः॥ २५तव सर्वमभिप्रायमविज्ञाय शुभानने।वासं न रोचयेऽरण्ये शक्तिमानपि रक्षणे॥ २६यत्सृष्टासि मया सार्धं वनवासाय मैथिलि।न विहातुं मया शक्या कीर्तिरात्मवता यथा॥ २७धर्मस्तु गजनासोरु सद्भिराचरितः पुरा।तं चाहमनुवर्तेऽद्य यथा सूर्यं सुवर्चला॥ २८एष धर्मस्तु सुश्रोणि पितुर्मातुश्च वश्यता।अतश्चाज्ञां व्यतिक्रम्य नाहं जीवितुमुत्सहे॥ २९स मां पिता यथा शास्ति सत्यधर्मपथे स्थितः।तथा वर्तितुमिच्छामि स हि धर्मः सनातनः।अनुगच्छस्व मां भीरु सहधर्मचरी भव॥ ३०ब्राह्मणेभ्यश्च रत्नानि भिक्षुकेभ्यश्च भोजनम्।देहि चाशंसमानेभ्यः संत्वरस्व च माचिरम्॥ ३१अनुकूलं तु सा भर्तुर्ज्ञात्वा गमनमात्मनः।क्षिप्रं प्रमुदिता देवी दातुमेवोपचक्रमे॥ ३२ततः प्रहृष्टा परिपूर्णमानसायशस्विनी भर्तुरवेक्ष्य भाषितम्।धनानि रत्नानि च दातुमङ्गनाप्रचक्रमे धर्मभृतां मनस्विनी॥ ३३इति श्रीरामायणे अयोध्याकाण्डे सप्तविंशतितमः सर्गः ॥ २७
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved