॥ ॐ श्री गणपतये नमः ॥

३० सर्गः
दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु।जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ॥ १ततो गृहीते दुष्प्रेक्ष्ये अशोभेतां तदायुधे।मालादामभिरासक्ते सीतया समलंकृते॥ २ततः प्रासादहर्म्याणि विमानशिखराणि च।अधिरुह्य जनः श्रीमानुदासीनो व्यलोकयत्॥ ३न हि रथ्याः स्म शक्यन्ते गन्तुं बहुजनाकुलाः।आरुह्य तस्मात्प्रासादान्दीनाः पश्यन्ति राघवम्॥ ४पदातिं वर्जितच्छत्रं रामं दृष्ट्वा तदा जनाः।ऊचुर्बहुविधा वाचः शोकोपहतचेतसः॥ ५यं यान्तमनुयाति स्म चतुरङ्गबलं महत्।तमेकं सीतया सार्धमनुयाति स्म लक्ष्मणः॥ ६ऐश्वर्यस्य रसज्ञः सन्कामिनां चैव कामदः।नेच्छत्येवानृतं कर्तुं पितरं धर्मगौरवात्॥ ७या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि।तामद्य सीतां पश्यन्ति राजमार्गगता जनाः॥ ८अङ्गरागोचितां सीतां रक्तचन्दन सेविनीम्।वर्षमुष्णं च शीतं च नेष्यत्याशु विवर्णताम्॥ ९अद्य नूनं दशरथः सत्त्वमाविश्य भाषते।न हि राजा प्रियं पुत्रं विवासयितुमर्हति॥ १०निर्गुणस्यापि पुत्रस्या काथं स्याद्विप्रवासनम्।किं पुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम्॥ ११आनृशंस्यमनुक्रोशः श्रुतं शीलं दमः शमः।राघवं शोभयन्त्येते षड्गुणाः पुरुषोत्तमम्॥ १२तस्मात्तस्योपघातेन प्रजाः परमपीडिताः।औदकानीव सत्त्वानि ग्रीष्मे सलिलसंक्षयात्॥ १३पीडया पीडितं सर्वं जगदस्य जगत्पतेः।मूलस्येवोपघातेन वृक्षः पुष्पफलोपगः॥ १४ते लक्ष्मण इव क्षिप्रं सपत्न्यः सहबान्धवाः।गच्छन्तमनुगच्छामो येन गच्छति राघवः॥ १५उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च।एकदुःखसुखा राममनुगच्छाम धार्मिकम्॥ १६समुद्धृतनिधानानि परिध्वस्ताजिराणि च।उपात्तधनधान्यानि हृतसाराणि सर्वशः॥ १७रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः।अस्मत्त्यक्तानि वेश्मानि कैकेयी प्रतिपद्यताम्॥ १८वनं नगरमेवास्तु येन गच्छति राघवः।अस्माभिश्च परित्यक्तं पुरं संपद्यतां वनम्॥ १९बिलानि दंष्ट्रिणः सर्वे सानूनि मृगपक्षिणः।अस्मत्त्यक्तं प्रपद्यन्तां सेव्यमानं त्यजन्तु च॥ २०इत्येवं विविधा वाचो नानाजनसमीरिताः।शुश्राव रामः श्रुत्वा च न विचक्रेऽस्य मानसम्॥ २१प्रतीक्षमाणोऽभिजनं तदार्तमनार्तरूपः प्रहसन्निवाथ।जगाम रामः पितरं दिदृक्षुःपितुर्निदेशं विधिवच्चिकीर्षुः॥ २२तत्पूर्वमैक्ष्वाकसुतो महात्मारामो गमिष्यन्वनमार्तरूपम्।व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रंपितुर्महात्मा प्रतिहारणार्थम्॥ २३पितुर्निदेशेन तु धर्मवत्सलोवनप्रवेशे कृतबुद्धिनिश्चयः।स राघवः प्रेक्ष्य सुमन्त्रमब्रवीन्निवेदयस्वागमनं नृपाय मे॥ २४इति श्रीरामायणे अयोध्याकाण्डे त्रिंशत्तमः सर्गः ॥ ३०
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved