३३ सर्गः
महामात्रवचः श्रुत्वा रामो दशरथं तदा।अन्वभाषत वाक्यं तु विनयज्ञो विनीतवत्॥ १त्यक्तभोगस्य मे राजन्वने वन्येन जीवतः।किं कार्यमनुयात्रेण त्यक्तसङ्गस्य सर्वतः॥ २यो हि दत्त्वा द्विपश्रेष्ठं कक्ष्यायां कुरुते मनः।रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम्॥ ३तथा मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पते।सर्वाण्येवानुजानामि चीराण्येवानयन्तु मे॥ ४खनित्रपिटके चोभे ममानयत गच्छतः।चतुर्दश वने वासं वर्षाणि वसतो मम॥ ५अथ चीराणि कैकेयी स्वयमाहृत्य राघवम्।उवाच परिधत्स्वेति जनौघे निरपत्रपा॥ ६स चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य ते।सूक्ष्मवस्त्रमवक्षिप्य मुनिवस्त्राण्यवस्त ह॥ ७लक्ष्मणश्चापि तत्रैव विहाय वसने शुभे।तापसाच्छादने चैव जग्राह पितुरग्रतः॥ ८अथात्मपरिधानार्थं सीता कौशेयवासिनी।समीक्ष्य चीरं संत्रस्ता पृषती वागुरामिव॥ ९सा व्यपत्रपमाणेव प्रतिगृह्य च दुर्मनाः।गन्धर्वराजप्रतिमं भर्तारमिदमब्रवीत्।कथं नु चीरं बध्नन्ति मुनयो वनवासिनः॥ १०कृत्वा कण्ठे च सा चीरमेकमादाय पाणिना।तस्थौ ह्यकुषला तत्र व्रीडिता जनकात्मज॥ ११तस्यास्तत्क्षिप्रमागम्य रामो धर्मभृतां वरः।चीरं बबन्ध सीतायाः कौशेयस्योपरि स्वयम्॥ १२तस्यां चीरं वसानायां नाथवत्यामनाथवत्।प्रचुक्रोश जनः सर्वो धिक्त्वां दशरथं त्विति॥ १३स निःश्वस्योष्णमैक्ष्वाकस्तां भार्यामिदमब्रवीत्।कैकेयि कुशचीरेण न सीता गन्तुमर्हति॥ १४ननु पर्याप्तमेतत्ते पापे रामविवासनम्।किमेभिः कृपणैर्भूयः पातकैरपि ते कृतैः॥ १५एवं ब्रुवन्तं पितरं रामः संप्रस्थितो वनम्।अवाक्शिरसमासीनमिदं वचनमब्रवीत्॥ १६इयं धार्मिक कौसल्या मम माता यशस्विनी।वृद्धा चाक्षुद्रशीला च न च त्वां देवगर्हिते॥ १७मया विहीनां वरद प्रपन्नां शोकसागरम्।अदृष्टपूर्वव्यसनां भूयः संमन्तुमर्हसि॥ १८इमां महेन्द्रोपमजातगर्भिणींतथा विधातुं जनमीं ममार्हसि।यथा वनस्थे मयि शोककर्शितान जीवितं न्यस्य यमक्षयं व्रजेत्॥ १९इति श्रीरामायणे अयोध्याकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved