३७ सर्गः
यावत्तु निर्यतस्तस्य रजोरूपमदृश्यत।नैवेक्ष्वाकुवरस्तावत्संजहारात्मचक्षुषी॥ १यावद्राजा प्रियं पुत्रं पश्यत्यत्यन्तधार्मिकम्।तावद्व्यवर्धतेवास्य धरण्यां पुत्रदर्शने॥ २न पश्यति रजोऽप्यस्य यदा रामस्य भूमिपः।तदार्तश्च विषण्णश्च पपात धरणीतले॥ ३तस्य दक्षिणमन्वगात्कौसल्या बाहुमङ्गना।वामं चास्यान्वगात्पार्श्वं कैकेयी भरतप्रिया॥ ४तां नयेन च संपन्नो धर्मेण निवयेन च।उवाच राजा कैकेयीं समीक्ष्य व्यथितेन्द्रियः॥ ५कैकेयि मा ममाङ्गानि स्प्राक्षीस्त्वं दुष्टचारिणी।न हि त्वां द्रष्टुमिच्छामि न भार्या न च बान्धवी॥ ६ये च त्वामुपजीवन्ति नाहं तेषां न ते मम।केवलार्थपरां हि त्वां त्यक्तधर्मां त्यजाम्यहम्॥ ७अगृह्णां यच्च ते पाणिमग्निं पर्यणयं च यत्।अनुजानामि तत्सर्वमस्मिँल्लोके परत्र च॥ ८भरतश्चेत्प्रतीतः स्याद्राज्यं प्राप्येदमव्ययम्।यन्मे स दद्यात्पित्रर्थं मा मा तद्दत्तमागमत्॥ ९अथ रेणुसमुध्वस्तं तमुत्थाप्य नराधिपम्।न्यवर्तत तदा देवी कौसल्या शोककर्शिता॥ १०हत्वेव ब्राह्मणं कामात्स्पृष्ट्वाग्निमिव पाणिना।अन्वतप्यत धर्मात्मा पुत्रं संचिन्त्य तापसम्॥ ११निवृत्यैव निवृत्यैव सीदतो रथवर्त्मसु।राज्ञो नातिबभौ रूपं ग्रस्तस्यांशुमतो यथा॥ १२विललाप च दुःखार्तः प्रियं पुत्रमनुस्मरन्।नगरान्तमनुप्राप्तं बुद्ध्वा पुत्रमथाब्रवीत्॥ १३वाहनानां च मुख्यानां वहतां तं ममात्मजम्।पदानि पथि दृश्यन्ते स महात्मा न दृश्यते॥ १४स नूनं क्वचिदेवाद्य वृक्षमूलमुपाश्रितः।काष्ठं वा यदि वाश्मानमुपधाय शयिष्यते॥ १५उत्थास्यति च मेदिन्याः कृपणः पांशुगुण्ठितः।विनिःश्वसन्प्रस्रवणात्करेणूनामिवर्षभः॥ १६द्रक्ष्यन्ति नूनं पुरुषा दीर्घबाहुं वनेचराः।राममुत्थाय गच्छन्तं लोकनाथमनाथवत्॥ १७सकामा भव कैकेयि विधवा राज्यमावस।न हि तं पुरुषव्याघ्रं विना जीवितुमुत्सहे॥ १८इत्येवं विलपन्राजा जनौघेनाभिसंवृतः।अपस्नात इवारिष्टं प्रविवेश पुरोत्तमम्॥ १९शून्यचत्वरवेश्मान्तां संवृतापणदेवताम्।क्लान्तदुर्बलदुःखार्तां नात्याकीर्णमहापथाम्॥ २०तामवेक्ष्य पुरीं सर्वां राममेवानुचिन्तयन्।विलपन्प्राविशद्राजा गृहं सूर्य इवाम्बुदम्॥ २१महाह्रदमिवाक्षोभ्यं सुपर्णेन हृतोरगम्।रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च॥ २२कौसल्याया गृहं शीघ्रं राम मातुर्नयन्तु माम्।इति ब्रुवन्तं राजानमनयन्द्वारदर्शितः॥ २३ततस्तत्र प्रविष्टस्य कौसल्याया निवेशनम्।अधिरुह्यापि शयनं बभूव लुलितं मनः॥ २४तच्च दृष्ट्वा महाराजो भुजमुद्यम्य वीर्यवान्।उच्चैः स्वरेण चुक्रोश हा राघव जहासि माम्॥ २५सुखिता बत तं कालं जीविष्यन्ति नरोत्तमाः।परिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनरागतम्॥ २६न त्वां पश्यामि कौसल्ये साधु मां पाणिना स्पृश।रामं मेऽनुगता दृष्टिरद्यापि न निवर्तते॥ २७तं राममेवानुविचिन्तयन्तंसमीक्ष्य देवी शयने नरेन्द्रम्।उपोपविश्याधिकमार्तरूपाविनिःश्वसन्ती विललाप कृच्छ्रम्॥ २८इति श्रीरामायणे अयोध्याकाण्डे सप्तत्रिंशः सर्गः ॥ ३७
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved