४३ सर्गः
रामोऽपि रात्रिशेषेण तेनैव महदन्तरम्।जगाम पुरुषव्याघ्रः पितुराज्ञामनुस्मरन्॥ १तथैव गच्छतस्तस्य व्यपायाद्रजनी शिवा।उपास्य स शिवां संध्यां विषयान्तं व्यगाहत॥ २ग्रामान्विकृष्टसीमांस्तान्पुष्पितानि वनानि च।पश्यन्नतिययौ शीघ्रं शरैरिव हयोत्तमैः॥ ३शृण्वन्वाचो मनुष्याणां ग्रामसंवासवासिनाम्।राजानं धिग्दशरथं कामस्य वशमागतम्॥ ४हा नृशंसाद्य कैकेयी पापा पापानुबन्धिनी।तीक्ष्णा संभिन्नमर्यादा तीक्ष्णे कर्मणि वर्तते॥ ५या पुत्रमीदृशं राज्ञः प्रवासयति धार्मिकम्।वन वासे महाप्राज्ञं सानुक्रोशमतन्द्रितम्॥ ६एता वाचो मनुष्याणां ग्रामसंवासवासिनाम्।शृण्वन्नतिययौ वीरः कोसलान्कोसलेश्वरः॥ ७ततो वेदश्रुतिं नाम शिववारिवहां नदीम्।उत्तीर्याभिमुखः प्रायादगस्त्याध्युषितां दिशम्॥ ८गत्वा तु सुचिरं कालं ततः शीतजलां नदीम्।गोमतीं गोयुतानूपामतरत्सागरंगमाम्॥ ९गोमतीं चाप्यतिक्रम्य राघवः शीघ्रगैर्हयैः।मयूरहंसाभिरुतां ततार स्यन्दिकां नदीम्॥ १०स महीं मनुना राज्ञा दत्तामिक्ष्वाकवे पुरा।स्फीतां राष्ट्रावृतां रामो वैदेहीमन्वदर्शयत्॥ ११सूत इत्येव चाभाष्य सारथिं तमभीक्ष्णशः।हंसमत्तस्वरः श्रीमानुवाच पुरुषर्षभः॥ १२कदाहं पुनरागम्य सरय्वाः पुष्पिते वने।मृगयां पर्याटष्यामि मात्रा पित्रा च संगतः॥ १३नात्यर्थमभिकाङ्क्षामि मृगयां सरयूवने।रतिर्ह्येषातुला लोके राजर्षिगणसंमता॥ १४स तमध्वानमैक्ष्वाकः सूतं मधुरया गिरा।तं तमर्थमभिप्रेत्य ययौवाक्यमुदीरयन्॥ १५इति श्रीरामायणे अयोध्याकाण्डे त्रिचत्वारिंशः सर्गः ॥ ४३
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved