॥ ॐ श्री गणपतये नमः ॥

४६ सर्गः
प्रभातायां तु शर्वर्यां पृथु वृक्षा महायशाः।उवाच रामः सौमित्रिं लक्ष्मणं शुभलक्षणम्॥ १भास्करोदयकालोऽयं गता भगवती निशा।असौ सुकृष्णो विहगः कोकिलस्तात कूजति॥ २बर्हिणानां च निर्घोषः श्रूयते नदतां वने।तराम जाह्नवीं सौम्य शीघ्रगां सागरंगमाम्॥ ३विज्ञाय रामस्य वचः सौमित्रिर्मित्रनन्दनः।गुहमामन्त्र्य सूतं च सोऽतिष्ठद्भ्रातुरग्रतः॥ ४ततः कलापान्संनह्य खड्गौ बद्ध्वा च धन्विनौ।जग्मतुर्येन तौ गङ्गां सीतया सह राघवौ॥ ५राममेव तु धर्मज्ञमुपगम्य विनीतवत्।किमहं करवाणीति सूतः प्राञ्जलिरब्रवीत्॥ ६निवर्तस्वेत्युवाचैनमेतावद्धि कृतं मम।यानं विहाय पद्भ्यां तु गमिष्यामो महावनम्॥ ७आत्मानं त्वभ्यनुज्ञातमवेक्ष्यार्तः स सारथिः।सुमन्त्रः पुरुषव्याघ्रमैक्ष्वाकमिदमब्रवीत्॥ ८नातिक्रान्तमिदं लोके पुरुषेणेह केनचित्।तव सभ्रातृभार्यस्य वासः प्राकृतवद्वने॥ ९न मन्ये ब्रह्मचर्येऽस्ति स्वधीते वा फलोदयः।मार्दवार्जवयोर्वापि त्वां चेद्व्यसनमागतम्॥ १०सह राघव वैदेह्या भ्रात्रा चैव वने वसन्।त्वं गतिं प्राप्स्यसे वीर त्रीँल्लोकांस्तु जयन्निव॥ ११वयं खलु हता राम ये तयाप्युपवञ्चिताः।कैकेय्या वशमेष्यामः पापाया दुःखभागिनः॥ १२इति ब्रुवन्नात्म समं सुमन्त्रः सारथिस्तदा।दृष्ट्वा दुर गतं रामं दुःखार्तो रुरुदे चिरम्॥ १३ततस्तु विगते बाष्पे सूतं स्पृष्टोदकं शुचिम्।रामस्तु मधुरं वाक्यं पुनः पुनरुवाच तम्॥ १४इक्ष्वाकूणां त्वया तुल्यं सुहृदं नोपलक्षये।यथा दशरथो राजा मां न शोचेत्तथा कुरु॥ १५शोकोपहत चेताश्च वृद्धश्च जगतीपतिः।काम भारावसन्नश्च तस्मादेतद्ब्रवीमि ते॥ १६यद्यदाज्ञापयेत्किंचित्स महात्मा महीपतिः।कैकेय्याः प्रियकामार्थं कार्यं तदविकाङ्क्षया॥ १७एतदर्थं हि राज्यानि प्रशासति नरेश्वराः।यदेषां सर्वकृत्येषु मनो न प्रतिहन्यते॥ १८तद्यथा स महाराजो नालीकमधिगच्छति।न च ताम्यति दुःखेन सुमन्त्र कुरु तत्तथा॥ १९अदृष्टदुःखं राजानं वृद्धमार्यं जितेन्द्रियम्।ब्रूयास्त्वमभिवाद्यैव मम हेतोरिदं वचः॥ २०नैवाहमनुशोचामि लक्ष्मणो न च मैथिली।अयोध्यायाश्च्युताश्चेति वने वत्स्यामहेति वा॥ २१चतुर्दशसु वर्षेषु निवृत्तेषु पुनः पुनः।लक्ष्मणं मां च सीतां च द्रक्ष्यसि क्षिप्रमागतान्॥ २२एवमुक्त्वा तु राजानं मातरं च सुमन्त्र मे।अन्याश्च देवीः सहिताः कैकेयीं च पुनः पुनः॥ २३आरोग्यं ब्रूहि कौसल्यामथ पादाभिवन्दनम्।सीताया मम चार्यस्य वचनाल्लक्ष्मणस्य च॥ २४ब्रूयाश्च हि महाराजं भरतं क्षिप्रमानय।आगतश्चापि भरतः स्थाप्यो नृपमते पदे॥ २५भरतं च परिष्वज्य यौवराज्येऽभिषिच्य च।अस्मत्संतापजं दुःखं न त्वामभिभविष्यति॥ २६भरतश्चापि वक्तव्यो यथा राजनि वर्तसे।तथा मातृषु वर्तेथाः सर्वास्वेवाविशेषतः॥ २७यथा च तव कैकेयी सुमित्रा चाविशेषतः।तथैव देवी कौसल्या मम माता विशेषतः॥ २८निवर्त्यमानो रामेण सुमन्त्रः शोककर्शितः।तत्सर्वं वचनं श्रुत्वा स्नेहात्काकुत्स्थमब्रवीत्॥ २९यदहं नोपचारेण ब्रूयां स्नेहादविक्लवः।भक्तिमानिति तत्तावद्वाक्यं त्वं क्षन्तुमर्हसि॥ ३०कथं हि त्वद्विहीनोऽहं प्रतियास्यामि तां पुरीम्।तव तात वियोगेन पुत्रशोकाकुलामिव॥ ३१सराममपि तावन्मे रथं दृष्ट्वा तदा जनः।विना रामं रथं दृष्ट्वा विदीर्येतापि सा पुरी॥ ३२दैन्यं हि नगरी गच्छेद्दृष्ट्वा शून्यमिमं रथम्।सूतावशेषं स्वं सैन्यं हतवीरमिवाहवे॥ ३३दूरेऽपि निवसन्तं त्वां मानसेनाग्रतः स्थितम्।चिन्तयन्त्योऽद्य नूनं त्वां निराहाराः कृताः प्रजाः॥ ३४आर्तनादो हि यः पौरैर्मुक्तस्तद्विप्रवासने।रथस्थं मां निशाम्यैव कुर्युः शतगुणं ततः॥ ३५अहं किं चापि वक्ष्यामि देवीं तव सुतो मया।नीतोऽसौ मातुलकुलं संतापं मा कृथा इति॥ ३६असत्यमपि नैवाहं ब्रूयां वचनमीदृशम्।कथमप्रियमेवाहं ब्रूयां सत्यमिदं वचः॥ ३७मम तावन्नियोगस्थास्त्वद्बन्धुजनवाहिनः।कथं रथं त्वया हीनं प्रवक्ष्यन्ति हयोत्तमाः॥ ३८यदि मे याचमानस्य त्यागमेव करिष्यसि।सरथोऽग्निं प्रवेक्ष्यामि त्यक्त मात्र इह त्वया॥ ३९भविष्यन्ति वने यानि तपोविघ्नकराणि ते।रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव॥ ४०तत्कृतेन मया प्राप्तं रथ चर्या कृतं सुखम्।आशंसे त्वत्कृतेनाहं वनवासकृतं सुखम्॥ ४१प्रसीदेच्छामि तेऽरण्ये भवितुं प्रत्यनन्तरः।प्रीत्याभिहितमिच्छामि भव मे पत्यनन्तरः॥ ४२तव शुश्रूषणं मूर्ध्ना करिष्यामि वने वसन्।अयोध्यां देवलोकं वा सर्वथा प्रजहाम्यहम्॥ ४३न हि शक्या प्रवेष्टुं सा मयायोध्या त्वया विना।राजधानी महेन्द्रस्य यथा दुष्कृतकर्मणा॥ ४४इमे चापि हया वीर यदि ते वनवासिनः।परिचर्यां करिष्यन्ति प्राप्स्यन्ति परमां गतिम्॥ ४५वनवासे क्षयं प्राप्ते ममैष हि मनोरथः।यदनेन रथेनैव त्वां वहेयं पुरीं पुनः॥ ४६चतुर्दश हि वर्षाणि सहितस्य त्वया वने।क्षणभूतानि यास्यन्ति शतशस्तु ततोऽन्यथा॥ ४७भृत्यवत्सल तिष्ठन्तं भर्तृपुत्रगते पथि।भक्तं भृत्यं स्थितं स्थित्यां त्वं न मां हातुमर्हसि॥ ४८एवं बहुविधं दीनं याचमानं पुनः पुनः।रामो भृत्यानुकम्पी तु सुमन्त्रमिदमब्रवीत्॥ ४९जानामि परमां भक्तिं मयि ते भर्तृवत्सल।शृणु चापि यदर्थं त्वां प्रेषयामि पुरीमितः॥ ५०नगरीं त्वां गतं दृष्ट्वा जननी मे यवीयसी।कैकेयी प्रत्ययं गच्छेदिति रामो वनं गतः॥ ५१परितुष्टा हि सा देवि वनवासं गते मयि।राजानं नातिशङ्केत मिथ्यावादीति धार्मिकम्॥ ५२एष मे प्रथमः कल्पो यदम्बा मे यवीयसी।भरतारक्षितं स्फीतं पुत्रराज्यमवाप्नुयात्॥ ५३मम प्रियार्थं राज्ञश्च सरथस्त्वं पुरीं व्रज।संदिष्टश्चासि यानर्थांस्तांस्तान्ब्रूयास्तथातथा॥ ५४इत्युक्त्वा वचनं सूतं सान्त्वयित्वा पुनः पुनः।गुहं वचनमक्लीबं रामो हेतुमदब्रवीत्।जटाः कृत्वा गमिष्यामि न्यग्रोधक्षीरमानय॥ ५५तत्क्षीरं राजपुत्राय गुहः क्षिप्रमुपाहरत्।लक्ष्मणस्यात्मनश्चैव रामस्तेनाकरोज्जटाः॥ ५६तौ तदा चीरवसनौ जटामण्डलधारिणौ।अशोभेतामृषिसमौ भ्रातरौ रामलक्ष्मणौ॥ ५७ततो वैखानसं मार्गमास्थितः सहलक्ष्मणः।व्रतमादिष्टवान्रामः सहायं गुहमब्रवीत्॥ ५८अप्रमत्तो बले कोशे दुर्गे जनपदे तथा।भवेथा गुह राज्यं हि दुरारक्षतमं मतम्॥ ५९ततस्तं समनुज्ञाय गुहमिक्ष्वाकुनन्दनः।जगाम तूर्णमव्यग्रः सभार्यः सहलक्ष्मणः॥ ६०स तु दृष्ट्वा नदीतीरे नावमिक्ष्वाकुनन्दनः।तितीर्षुः शीघ्रगां गङ्गामिदं लक्ष्मणमब्रवीत्॥ ६१आरोह त्वं नर व्याघ्र स्थितां नावमिमां शनैः।सीतां चारोपयान्वक्षं परिगृह्य मनस्विनीम्॥ ६२स भ्रातुः शासनं श्रुत्वा सर्वमप्रतिकूलयन्।आरोप्य मैथिलीं पूर्वमारुरोहात्मवांस्ततः॥ ६३अथारुरोह तेजस्वी स्वयं लक्ष्मणपूर्वजः।ततो निषादाधिपतिर्गुहो ज्ञातीनचोदयत्॥ ६४अनुज्ञाय सुमन्त्रं च सबलं चैव तं गुहम्।आस्थाय नावं रामस्तु चोदयामास नाविकान्॥ ६५ततस्तैश्चोदिता सा नौः कर्णधारसमाहिता।शुभस्फ्यवेगाभिहता शीघ्रं सलिलमत्यगात्॥ ६६मध्यं तु समनुप्राप्य भागीरथ्यास्त्वनिन्दिता।वैदेही प्राञ्जलिर्भूत्वा तां नदीमिदमब्रवीत्॥ ६७पुत्रो दशरथस्यायं महाराजस्य धीमतः।निदेशं पालयत्वेनं गङ्गे त्वदभिरक्षितः॥ ६८चतुर्दश हि वर्षाणि समग्राण्युष्य कानने।भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति॥ ६९ततस्त्वां देवि सुभगे क्षेमेण पुनरागता।यक्ष्ये प्रमुदिता गङ्गे सर्वकामसमृद्धये॥ ७०त्वं हि त्रिपथगा देवि ब्रह्म लोकं समीक्षसे।भार्या चोदधिराजस्य लोकेऽस्मिन्संप्रदृश्यसे॥ ७१सा त्वां देवि नमस्यामि प्रशंसामि च शोभने।प्राप्त राज्ये नरव्याघ्र शिवेन पुनरागते॥ ७२गवां शतसहस्राणि वस्त्राण्यन्नं च पेशलम्।ब्राह्मणेभ्यः प्रदास्यामि तव प्रियचिकीर्षया॥ ७३तथा संभाषमाणा सा सीता गङ्गामनिन्दिता।दक्षिणा दक्षिणं तीरं क्षिप्रमेवाभ्युपागमत्॥ ७४तीरं तु समनुप्राप्य नावं हित्वा नरर्षभः।प्रातिष्ठत सह भ्रात्रा वैदेह्या च परंतपः॥ ७५अथाब्रवीन्महाबाहुः सुमित्रानन्दवर्धनम्।अग्रतो गच्छ सौमित्रे सीता त्वामनुगच्छतु॥ ७६पृष्ठतोऽहं गमिष्यामि त्वां च सीतां च पालयन्।अद्य दुःखं तु वैदेही वनवासस्य वेत्स्यति॥ ७७गतं तु गङ्गापरपारमाशुरामं सुमन्त्रः प्रततं निरीक्ष्य।अध्वप्रकर्षाद्विनिवृत्तदृष्टिर्मुमोच बाष्पं व्यथितस्तपस्वी॥ ७८तौ तत्र हत्वा चतुरो महामृगान्वराहमृश्यं पृषतं महारुरुम्।आदाय मेध्यं त्वरितं बुभुक्षितौवासाय काले ययतुर्वनस्पतिम्॥ ७९इति श्रीरामायणे अयोध्याकाण्डे षट्चत्वारिंशः सर्गः ॥ ४६
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved