॥ ॐ श्री गणपतये नमः ॥

४७ सर्गः
स तं वृक्षं समासाद्य संध्यामन्वास्य पश्चिमाम्।रामो रमयतां श्रेष्ठ इति होवाच लक्ष्मणम्॥ १अद्येयं प्रथमा रात्रिर्याता जनपदाद्बहिः।या सुमन्त्रेण रहिता तां नोत्कण्ठितुमर्हसि॥ २जागर्तव्यमतन्द्रिभ्यामद्य प्रभृति रात्रिषु।योगक्षेमो हि सीताया वर्तते लक्ष्मणावयोः॥ ३रात्रिं कथंचिदेवेमां सौमित्रे वर्तयामहे।उपावर्तामहे भूमावास्तीर्य स्वयमार्जितैः॥ ४स तु संविश्य मेदिन्यां महार्हशयनोचितः।इमाः सौमित्रये रामो व्याजहार कथाः शुभाः॥ ५ध्रुवमद्य महाराजो दुःखं स्वपिति लक्ष्मण।कृतकामा तु कैकेयी तुष्टा भवितुमर्हति॥ ६सा हि देवी महाराजं कैकेयी राज्यकारणात्।अपि न च्यावयेत्प्राणान्दृष्ट्वा भरतमागतम्॥ ७अनाथश्चैव वृद्धश्च मया चैव विनाकृतः।किं करिष्यति कामात्मा कैकेय्या वशमागतः॥ ८इदं व्यसनमालोक्य राज्ञश्च मतिविभ्रमम्।काम एवार्धधर्माभ्यां गरीयानिति मे मतिः॥ ९को ह्यविद्वानपि पुमान्प्रमदायाः कृते त्यजेत्।छन्दानुवर्तिनं पुत्रं तातो मामिव लक्ष्मण॥ १०सुखी बत सभार्यश्च भरतः केकयीसुतः।मुदितान्कोसलानेको यो भोक्ष्यत्यधिराजवत्॥ ११स हि सर्वस्य राज्यस्य मुखमेकं भविष्यति।ताते च वयसातीते मयि चारण्यमाश्रिते॥ १२अर्थधर्मौ परित्यज्य यः काममनुवर्तते।एवमापद्यते क्षिप्रं राजा दशरथो यथा॥ १३मन्ये दशरथान्ताय मम प्रव्राजनाय च।कैकेयी सौम्य संप्राप्ता राज्याय भरतस्य च॥ १४अपीदानीं न कैकेयी सौभाग्यमदमोहिता।कौसल्यां च सुमित्रां च संप्रबाधेत मत्कृते॥ १५मा स्म मत्कारणाद्देवी सुमित्रा दुःखमावसेत्।अयोध्यामित एव त्वं काले प्रविश लक्ष्मण॥ १६अहमेको गमिष्यामि सीतया सह दण्डकान्।अनाथाया हि नाथस्त्वं कौसल्याया भविष्यसि॥ १७क्षुद्रकर्मा हि कैकेयी द्वेषादन्याय्यमाचरेत्।परिदद्या हि धर्मज्ञे भरते मम मातरम्॥ १८नूनं जात्यन्तरे कस्मिं स्त्रियः पुत्रैर्वियोजिताः।जनन्या मम सौमित्रे तदप्येतदुपस्थितम्॥ १९मया हि चिरपुष्टेन दुःखसंवर्धितेन च।विप्रायुज्यत कौसल्या फलकाले धिगस्तु माम्॥ २०मा स्म सीमन्तिनी काचिज्जनयेत्पुत्रमीदृशम्।सौमित्रे योऽहमम्बाया दद्मि शोकमनन्तकम्॥ २१मन्ये प्रीतिविशिष्टा सा मत्तो लक्ष्मणसारिका।यस्यास्तच्छ्रूयते वाक्यं शुक पादमरेर्दश॥ २२शोचन्त्याश्चाल्पभाग्याया न किंचिदुपकुर्वता।पुर्त्रेण किमपुत्राया मया कार्यमरिंदम॥ २३अल्पभाग्या हि मे माता कौसल्या रहिता मया।शेते परमदुःखार्ता पतिता शोकसागरे॥ २४एको ह्यहमयोध्यां च पृथिवीं चापि लक्ष्मण।तरेयमिषुभिः क्रुद्धो ननु वीर्यमकारणम्॥ २५अधर्मभय भीतश्च परलोकस्य चानघ।तेन लक्ष्मण नाद्याहमात्मानमभिषेचये॥ २६एतदन्यच्च करुणं विलप्य विजने बहु।अश्रुपूर्णमुखो रामो निशि तूष्णीमुपाविशत्॥ २७विलप्योपरतं रामं गतार्चिषमिवानलम्।समुद्रमिव निर्वेगमाश्वासयत लक्ष्मणः॥ २८ध्रुवमद्य पुरी राम अयोध्या युधिनां वर।निष्प्रभा त्वयि निष्क्रान्ते गतचन्द्रेव शर्वरी॥ २९नैतदौपयिकं राम यदिदं परितप्यसे।विषादयसि सीतां च मां चैव पुरुषर्षभ॥ ३०न च सीता त्वया हीना न चाहमपि राघव।मुहूर्तमपि जीवावो जलान्मत्स्याविवोद्धृतौ॥ ३१न हि तातं न शत्रुघ्नं न सुमित्रां परंतप।द्रष्टुमिच्छेयमद्याहं स्वर्गं वापि त्वया विना॥ ३२स लक्ष्मणस्योत्तम पुष्कलं वचोनिशम्य चैवं वनवासमादरात्।समाः समस्ता विदधे परंतपःप्रपद्य धर्मं सुचिराय राघवः॥ ३३इति श्रीरामायणे अयोध्याकाण्डे सप्तचत्वारिंशः सर्गः ॥ ४७
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved