४९ सर्गः
उषित्वा रजनीं तत्र राजपुत्रावरिंदमौ।महर्षिमभिवाद्याथ जग्मतुस्तं गिरिं प्रति॥ १प्रस्थितांश्चैव तान्प्रेक्ष्य पिता पुत्रानिवान्वगात्।ततः प्रचक्रमे वक्तुं वचनं स महामुनिः॥ २अथासाद्य तु कालिन्दीं शीघ्रस्रोतसमापगाम्।तत्र यूयं प्लवं कृत्वा तरतांशुमतीं नदीम्॥ ३ततो न्यग्रोधमासाद्य महान्तं हरितच्छदम्।विवृद्धं बहुभिर्वृक्षैः श्यामं सिद्धोपसेवितम्॥ ४क्रोशमात्रं ततो गत्वा नीलं द्रक्ष्यथ काननम्।पलाशबदरीमिश्रं राम वंशैश्च यामुनैः॥ ५स पन्थाश्चित्रकूटस्य गतः सुबहुशो मया।रम्यो मार्दवयुक्तश्च वनदावैर्विवर्जितः।इति पन्थानमावेद्य महर्षिः स न्यवर्तत॥ ६उपावृत्ते मुनौ तस्मिन्रामो लक्ष्मणमब्रवीत्।कृतपुण्याः स्म सौमित्रे मुनिर्यन्नोऽनुकम्पते॥ ७इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ।सीतामेवाग्रतः कृत्वा कालिन्दीं जग्मतुर्नदीम्॥ ८तौ काष्ठसंघाटमथो चक्रतुः सुमहाप्लवम्।चकार लक्ष्मणश्छित्त्वा सीतायाः सुखमानसम्॥ ९तत्र श्रियमिवाचिन्त्यां रामो दाशरथिः प्रियाम्।ईषत्संलज्जमानां तामध्यारोपयत प्लवम्॥ १०ततः प्लवेनांशुमतीं शीघ्रगामूर्मिमालिनीम्।तीरजैर्बहुभिर्वृक्षैः संतेरुर्यमुनां नदीम्॥ ११ते तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुनावनात्।श्यामं न्यग्रोधमासेदुः शीतलं हरितच्छदम्॥ १२कौसल्यां चैव पश्येयं सुमित्रां च यशस्विनीम्।इति सीताञ्जलिं कृत्वा पर्यगछद्वनस्पतिम्॥ १३क्रोशमात्रं ततो गत्वा भ्रातरौ रामलक्ष्मणौ।बहून्मेध्यान्मृगान्हत्वा चेरतुर्यमुनावने॥ १४विहृत्य ते बर्हिणपूगनादितेशुभे वने वारणवानरायुते।समं नदीवप्रमुपेत्य संमतंनिवासमाजग्मुरदीनदर्शनः॥ १५इति श्रीरामायणे अयोध्याकाण्डे एकोनपञ्चाशः सर्गः ॥ ४९
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved