५१ सर्गः
कथयित्वा सुदुःखार्तः सुमन्त्रेण चिरं सह।रामे दक्षिण कूलस्थे जगाम स्वगृहं गुहः॥ १अनुज्ञातः सुमन्त्रोऽथ योजयित्वा हयोत्तमान्।अयोध्यामेव नगरीं प्रययौ गाढदुर्मनाः॥ २स वनानि सुगन्धीनि सरितश्च सरांसि च।पश्यन्नतिययौ शीघ्रं ग्रामाणि नगराणि च॥ ३ततः सायाह्नसमये तृतीयेऽहनि सारथिः।अयोध्यां समनुप्राप्य निरानन्दां ददर्श ह॥ ४स शून्यामिव निःशब्दां दृष्ट्वा परमदुर्मनाः।सुमन्त्रश्चिन्तयामास शोकवेगसमाहतः॥ ५कच्चिन्न सगजा साश्वा सजना सजनाधिपा।रामसंतापदुःखेन दग्धा शोकाग्निना पुरी।इति चिन्तापरः सूतस्त्वरितः प्रविवेश ह॥ ६सुमन्त्रमभियान्तं तं शतशोऽथ सहस्रशः।क्व राम इति पृच्छन्तः सूतमभ्यद्रवन्नराः॥ ७तेषां शशंस गङ्गायामहमापृच्छ्य राघवम्।अनुज्ञातो निवृत्तोऽस्मि धार्मिकेण महात्मना॥ ८ते तीर्णा इति विज्ञाय बाष्पपूर्णमुखा जनाः।अहो धिगिति निःश्वस्य हा रामेति च चुक्रुशुः॥ ९शुश्राव च वचस्तेषां वृन्दं वृन्दं च तिष्ठताम्।हताः स्म खलु ये नेह पश्याम इति राघवम्॥ १०दानयज्ञविवाहेषु समाजेषु महत्सु च।न द्रक्ष्यामः पुनर्जातु धार्मिकं राममन्तरा॥ ११किं समर्थं जनस्यास्य किं प्रियं किं सुखावहम्।इति रामेण नगरं पितृवत्परिपालितम्॥ १२वातायनगतानां च स्त्रीणामन्वन्तरापणम्।रामशोकाभितप्तानां शुश्राव परिदेवनम्॥ १३स राजमार्गमध्येन सुमन्त्रः पिहिताननः।यत्र राजा दशरथस्तदेवोपययौ गृहम्॥ १४सोऽवतीर्य रथाच्छीघ्रं राजवेश्म प्रविश्य च।कक्ष्याः सप्ताभिचक्राम महाजनसमाकुलाः॥ १५ततो दशरथस्त्रीणां प्रासादेभ्यस्ततस्ततः।रामशोकाभितप्तानां मन्दं शुश्राव जल्पितम्॥ १६सह रामेण निर्यातो विना राममिहागतः।सूतः किं नाम कौसल्यां शोचन्तीं प्रतिवक्ष्यति॥ १७यथा च मन्ये दुर्जीवमेवं न सुकरं ध्रुवम्।आच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति॥ १८सत्य रूपं तु तद्वाक्यं राज्ञः स्त्रीणां निशामयन्।प्रदीप्तमिव शोकेन विवेश सहसा गृहम्॥ १९स प्रविश्याष्टमीं कक्ष्यां राजानं दीनमातुलम्।पुत्रशोकपरिद्यूनमपश्यत्पाण्डरे गृहे॥ २०अभिगम्य तमासीनं नरेन्द्रमभिवाद्य च।सुमन्त्रो रामवचनं यथोक्तं प्रत्यवेदयत्॥ २१स तूष्णीमेव तच्छ्रुत्वा राजा विभ्रान्त चेतनः।मूर्छितो न्यपतद्भूमौ रामशोकाभिपीडितः॥ २२ततोऽन्तःपुरमाविद्धं मूर्छिते पृथिवीपतौ।उद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ॥ २३सुमित्रया तु सहिता कौसल्या पतितं पतिम्।उत्थापयामास तदा वचनं चेदमब्रवीत्॥ २४इमं तस्य महाभाग दूतं दुष्करकारिणः।वनवासादनुप्राप्तं कस्मान्न प्रतिभाषसे॥ २५अद्येममनयं कृत्वा व्यपत्रपसि राघव।उत्तिष्ठ सुकृतं तेऽस्तु शोके न स्यात्सहायता॥ २६देव यस्या भयाद्रामं नानुपृच्छसि सारथिम्।नेह तिष्ठति कैकेयी विश्रब्धं प्रतिभाष्यताम्॥ २७सा तथोक्त्वा महाराजं कौसल्या शोकलालसा।धरण्यां निपपाताशु बाष्पविप्लुतभाषिणी॥ २८एवं विलपतीं दृष्ट्वा कौसल्यां पतितां भुवि।पतिं चावेक्ष्य ताः सर्वाः सस्वरं रुरुदुः स्त्रियः॥ २९ततस्तमन्तःपुरनादमुत्थितंसमीक्ष्य वृद्धास्तरुणाश्च मानवाः।स्त्रियश्च सर्वा रुरुदुः समन्ततःपुरं तदासीत्पुनरेव संकुलम्॥ ३०इति श्रीरामायणे अयोध्याकाण्डे एकपञ्चाशः सर्गः ॥ ५१
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved