५५ सर्गः
वनं गते धर्मपरे रामे रमयतां वरे।कौसल्या रुदती स्वार्ता भर्तारमिदमब्रवीत्॥ १यद्यपित्रिषु लोकेषु प्रथितं ते मयद्यशः।सानुक्रोशो वदान्यश्च प्रियवादी च राघवः॥ २कथं नरवरश्रेष्ठ पुत्रौ तौ सह सीतया।दुःखितौ सुखसंवृद्धौ वने दुःखं सहिष्यतः॥ ३सा नूनं तरुणी श्यामा सुकुमारी सुखोचिता।कथमुष्णं च शीतं च मैथिली प्रसहिष्यते॥ ४भुक्त्वाशनं विशालाक्षी सूपदंशान्वितं शुभम्।वन्यं नैवारमाहारं कथं सीतोपभोक्ष्यते॥ ५गीतवादित्रनिर्घोषं श्रुत्वा शुभमनिन्दिता।कथं क्रव्यादसिंहानां शब्दं श्रोष्यत्यशोभनम्॥ ६महेन्द्रध्वजसंकाशः क्व नु शेते महाभुजः।भुजं परिघसंकाशमुपधाय महाबलः॥ ७पद्मवर्णं सुकेशान्तं पद्मनिःश्वासमुत्तमम्।कदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम्॥ ८वज्रसारमयं नूनं हृदयं मे न संशयः।अपश्यन्त्या न तं यद्वै फलतीदं सहस्रधा॥ ९यदि पञ्चदशे वर्षे राघवः पुनरेष्यति।जह्याद्राज्यं च कोशं च भरतेनोपभोक्ष्यते॥ १०एवं कनीयसा भ्रात्रा भुक्तं राज्यं विशां पते।भ्राता ज्येष्ठा वरिष्ठाश्च किमर्थं नावमंस्यते॥ ११न परेणाहृतं भक्ष्यं व्याघ्रः खादितुमिच्छति।एवमेव नरव्याघ्रः परलीढं न मंस्यते॥ १२हविराज्यं पुरोडाशाः कुशा यूपाश्च खादिराः।नैतानि यातयामानि कुर्वन्ति पुनरध्वरे॥ १३तथा ह्यात्तमिदं राज्यं हृतसारां सुरामिव।नाभिमन्तुमलं रामो नष्टसोममिवाध्वरम्॥ १४नैवंविधमसत्कारं राघवो मर्षयिष्यति।बलवानिव शार्दूलो बालधेरभिमर्शनम्॥ १५स तादृशः सिंहबलो वृषभाक्षो नरर्षभः।स्वयमेव हतः पित्रा जलजेनात्मजो यथा॥ १६द्विजाति चरितो धर्मः शास्त्रदृष्टः सनातनः।यदि ते धर्मनिरते त्वया पुत्रे विवासिते॥ १७गतिरेवाक्पतिर्नार्या द्वितीया गतिरात्मजः।तृतीया ज्ञातयो राजंश्चतुर्थी नेह विद्यते॥ १८तत्र त्वं चैव मे नास्ति रामश्च वनमाश्रितः।न वनं गन्तुमिच्छामि सर्वथा हि हता त्वया॥ १९हतं त्वया राज्यमिदं सराष्ट्रंहतस्तथात्मा सह मन्त्रिभिश्च।हता सपुत्रास्मि हताश्च पौराःसुतश्च भार्या च तव प्रहृष्टौ॥ २०इमां गिरं दारुणशब्दसंश्रितांनिशम्य राजापि मुमोह दुःखितः।ततः स शोकं प्रविवेश पार्थिवःस्वदुष्कृतं चापि पुनस्तदास्मरत्॥ २१इति श्रीरामायणे अयोध्याकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५५
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved