६६ सर्गः
अपश्यंस्तु ततस्तत्र पितरं पितुरालये।जगाम भरतो द्रष्टुं मातरं मातुरालये॥ १अनुप्राप्तं तु तं दृष्ट्वा कैकेयी प्रोषितं सुतम्।उत्पपात तदा हृष्टा त्यक्त्वा सौवर्णमानसम्॥ २स प्रविश्यैव धर्मात्मा स्वगृहं श्रीविवर्जितम्।भरतः प्रेक्ष्य जग्राह जनन्याश्चरणौ शुभौ॥ ३तं मूर्ध्नि समुपाघ्राय परिष्वज्य यशस्विनम्।अङ्के भरतमारोप्य प्रष्टुं समुपचक्रमे॥ ४अद्य ते कतिचिद्रात्र्यश्च्युतस्यार्यकवेश्मनः।अपि नाध्वश्रमः शीघ्रं रथेनापततस्तव॥ ५आर्यकस्ते सुकुशलो युधाजिन्मातुलस्तव।प्रवासाच्च सुखं पुत्र सर्वं मे वक्तुमर्हसि॥ ६एवं पृष्ठस्तु कैकेय्या प्रियं पार्थिवनन्दनः।आचष्ट भरतः सर्वं मात्रे राजीवलोचनः॥ ७अद्य मे सप्तमी रात्रिश्च्युतस्यार्यकवेश्मनः।अम्बायाः कुशली तातो युधाजिन्मातुलश्च मे॥ ८यन्मे धनं च रत्नं च ददौ राजा परंतपः।परिश्रान्तं पथ्यभवत्ततोऽहं पूर्वमागतः॥ ९राजवाक्यहरैर्दूतैस्त्वर्यमाणोऽहमागतः।यदहं प्रष्टुमिच्छामि तदम्बा वक्तुमर्हसि॥ १०शून्योऽयं शयनीयस्ते पर्यङ्को हेमभूषितः।न चायमिक्ष्वाकुजनः प्रहृष्टः प्रतिभाति मे॥ ११राजा भवति भूयिष्ठमिहाम्बाया निवेशने।तमहं नाद्य पश्यामि द्रष्टुमिच्छन्निहागतः॥ १२पितुर्ग्रहीष्ये चरणौ तं ममाख्याहि पृच्छतः।आहोस्विदम्ब ज्येष्ठायाः कौसल्याया निवेशने॥ १३तं प्रत्युवाच कैकेयी प्रियवद्घोरमप्रियम्।अजानन्तं प्रजानन्ती राज्यलोभेन मोहिता।या गतिः सर्वभूतानां तां गतिं ते पिता गतः॥ १४तच्छ्रुत्वा भरतो वाक्यं धर्माभिजनवाञ्शुचिः।पपात सहसा भूमौ पितृशोकबलार्दितः॥ १५ततः शोकेन संवीतः पितुर्मरणदुःखितः।विललाप महातेजा भ्रान्ताकुलितचेतनः॥ १६एतत्सुरुचिरं भाति पितुर्मे शयनं पुरा।तदिदं न विभात्यद्य विहीनं तेन धीमता॥ १७तमार्तं देवसंकाशं समीक्ष्य पतितं भुवि।उत्थापयित्वा शोकार्तं वचनं चेदमब्रवीत्॥ १८उत्तिष्ठोत्तिष्ठ किं शेषे राजपुत्र महायशः।त्वद्विधा न हि शोचन्ति सन्तः सदसि संमताः॥ १९स रुदत्या चिरं कालं भूमौ विपरिवृत्य च।जननीं प्रत्युवाचेदं शोकैर्बहुभिरावृतः॥ २०अभिषेक्ष्यति रामं तु राजा यज्ञं नु यक्ष्यति।इत्यहं कृतसंकल्पो हृष्टो यात्रामयासिषम्॥ २१तदिदं ह्यन्यथा भूतं व्यवदीर्णं मनो मम।पितरं यो न पश्यामि नित्यं प्रियहिते रतम्॥ २२अम्ब केनात्यगाद्राजा व्याधिना मय्यनागते।धन्या रामादयः सर्वे यैः पिता संस्कृतः स्वयम्॥ २३न नूनं मां महाराजः प्राप्तं जानाति कीर्तिमान्।उपजिघ्रेद्धि मां मूर्ध्नि तातः संनम्य सत्वरम्॥ २४क्व स पाणिः सुखस्पर्शस्तातस्याक्लिष्टकर्मणः।येन मां रजसा ध्वस्तमभीक्ष्णं परिमार्जति॥ २५यो मे भ्राता पिता बन्धुर्यस्य दासोऽस्मि धीमतः।तस्य मां शीघ्रमाख्याहि रामस्याक्लिष्ट कर्मणः॥ २६पिता हि भवति ज्येष्ठो धर्ममार्यस्य जानतः।तस्य पादौ ग्रहीष्यामि स हीदानीं गतिर्मम॥ २७आर्ये किमब्रवीद्राजा पिता मे सत्यविक्रमः।पश्चिमं साधु संदेशमिच्छामि श्रोतुमात्मनः॥ २८इति पृष्टा यथातत्त्वं कैकेयी वाक्यमब्रवीत्।रामेति राजा विलपन्हा सीते लक्ष्मणेति च।स महात्मा परं लोकं गतो गतिमतां वरः॥ २९इमां तु पश्चिमां वाचं व्याजहार पिता तव।काल धर्मपरिक्षिप्तः पाशैरिव महागजः॥ ३०सिद्धार्थास्तु नरा राममागतं सीतया सह।लक्ष्मणं च महाबाहुं द्रक्ष्यन्ति पुनरागतम्॥ ३१तच्छ्रुत्वा विषसादैव द्वितीया प्रियशंसनात्।विषण्णवदनो भूत्वा भूयः पप्रच्छ मातरम्॥ ३२क्व चेदानीं स धर्मात्मा कौसल्यानन्दवर्धनः।लक्ष्मणेन सह भ्रात्रा सीतया च समं गतः॥ ३३तथा पृष्टा यथातत्त्वमाख्यातुमुपचक्रमे।मातास्य युगपद्वाक्यं विप्रियं प्रियशङ्कया॥ ३४स हि राजसुतः पुत्र चीरवासा महावनम्।दण्डकान्सह वैदेह्या लक्ष्मणानुचरो गतः॥ ३५तच्छ्रुत्वा भरतस्त्रस्तो भ्रातुश्चारित्रशङ्कया।स्वस्य वंशस्य माहात्म्यात्प्रष्टुं समुपचक्रमे॥ ३६कच्चिन्न ब्राह्मणवधं हृतं रामेण कस्यचित्।कच्चिन्नाढ्यो दरिद्रो वा तेनापापो विहिंसितः॥ ३७कच्चिन्न परदारान्वा राजपुत्रोऽभिमन्यते।कस्मात्स दण्डकारण्ये भ्रूणहेव विवासितः॥ ३८अथास्य चपला माता तत्स्वकर्म यथातथम्।तेनैव स्त्रीस्वभावेन व्याहर्तुमुपचक्रमे॥ ३९न ब्राह्मणधनं किंचिद्धृतं रामेण कस्यचित्।कश्चिन्नाढ्यो दरिद्रो वा तेनापापो विहिंसितः।न रामः परदारांश्च चक्षुर्भ्यामपि पश्यति॥ ४०मया तु पुत्र श्रुत्वैव रामस्यैवाभिषेचनम्।याचितस्ते पिता राज्यं रामस्य च विवासनम्॥ ४१स स्ववृत्तिं समास्थाय पिता ते तत्तथाकरोत्।रामश्च सहसौमित्रिः प्रेषितः सह सीतया॥ ४२तमपश्यन्प्रियं पुत्रं महीपालो महायशाः।पुत्रशोकपरिद्यूनः पञ्चत्वमुपपेदिवान्॥ ४३त्वया त्विदानीं धर्मज्ञ राजत्वमवलम्ब्यताम्।त्वत्कृते हि मया सर्वमिदमेवंविधं कृतम्॥ ४४तत्पुत्र शीघ्रं विधिना विधिज्ञैर्वसिष्ठमुख्यैः सहितो द्विजेन्द्रैः।संकाल्य राजानमदीनसत्त्वमात्मानमुर्व्यामभिषेचयस्व॥ ४५इति श्रीरामायणे अयोध्याकाण्डे षट्षष्टितमः सर्गः ॥ ६६
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved