६९ सर्गः
तथैव क्रोशतस्तस्य भरतस्य महात्मनः।कौसल्या शब्दमाज्ञाय सुमित्रामिदमब्रवीत्॥ १आगतः क्रूरकार्यायाः कैकेय्या भरतः सुतः।तमहं द्रष्टुमिच्छामि भरतं दीर्घदर्शिनम्॥ २एवमुक्त्वा सुमित्रां सा विवर्णा मलिनाम्बरा।प्रतस्थे भरतो यत्र वेपमाना विचेतना॥ ३स तु रामानुजश्चापि शत्रुघ्नसहितस्तदा।प्रतस्थे भरतो यत्र कौसल्याया निवेशनम्॥ ४ततः शत्रुघ्नभरतौ कौसल्यां प्रेक्ष्य दुःखितौ।पर्यष्वजेतां दुःखार्तां पतितां नष्टचेतनाम्॥ ५भरतं प्रत्युवाचेदं कौसल्या भृशदुःखिता।इदं ते राज्यकामस्य राज्यं प्राप्तमकण्टकम्।संप्राप्तं बत कैकेय्या शीघ्रं क्रूरेण कर्मणा॥ ६प्रस्थाप्य चीरवसनं पुत्रं मे वनवासिनम्।कैकेयी कं गुणं तत्र पश्यति क्रूरदर्शिनी॥ ७क्षिप्रं मामपि कैकेयी प्रस्थापयितुमर्हति।हिरण्यनाभो यत्रास्ते सुतो मे सुमहायशाः॥ ८अथ वा स्वयमेवाहं सुमित्रानुचरा सुखम्।अग्निहोत्रं पुरस्कृत्य प्रस्थास्ये यत्र राघवः॥ ९कामं वा स्वयमेवाद्य तत्र मां नेतुमर्हसि।यत्रासौ पुरुषव्याघ्रस्तप्यते मे तपः सुतः॥ १०इदं हि तव विस्तीर्णं धनधान्यसमाचितम्।हस्त्यश्वरथसंपूर्णं राज्यं निर्यातितं तया॥ ११एवं विलपमानां तां भरतः प्राञ्जलिस्तदा।कौसल्यां प्रत्युवाचेदं शोकैर्बहुभिरावृताम्॥ १२आर्ये कस्मादजानन्तं गर्हसे मामकिल्बिषम्।विपुलां च मम प्रीतिं स्थिरां जानासि राघवे॥ १३कृता शास्त्रानुगा बुद्धिर्मा भूत्तस्य कदाचन।सत्यसंधः सतां श्रेष्ठो यस्यार्योऽनुमते गतः॥ १४प्रैष्यं पापीयसां यातु सूर्यं च प्रति मेहतु।हन्तु पादेन गां सुप्तां यस्यार्योऽनुमते गतः॥ १५कारयित्वा महत्कर्म भर्ता भृत्यमनर्थकम्।अधर्मो योऽस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः॥ १६परिपालयमानस्य राज्ञो भूतानि पुत्रवत्।ततस्तु द्रुह्यतां पापं यस्यार्योऽनुमते गतः॥ १७बलिषड्भागमुद्धृत्य नृपस्यारक्षतः प्रजाः।अधर्मो योऽस्य सोऽस्यास्तु यस्यार्योऽनुमते गतः॥ १८संश्रुत्य च तपस्विभ्यः सत्रे वै यज्ञदक्षिणाम्।तां विप्रलपतां पापं यस्यार्योऽनुमते गतः॥ १९हस्त्यश्वरथसंबाधे युद्धे शस्त्रसमाकुले।मा स्म कार्षीत्सतां धर्मं यस्यार्योऽनुमते गतः॥ २०उपदिष्टं सुसूक्ष्मार्थं शास्त्रं यत्नेन धीमता।स नाशयतु दुष्टात्मा यस्यार्योऽनुमते गतः॥ २१पायसं कृसरं छागं वृथा सोऽश्नातु निर्घृणः।गुरूंश्चाप्यवजानातु यस्यार्योऽनुमते गतः॥ २२पुत्रैर्दारैश्च भृत्यैश्च स्वगृहे परिवारितः।स एको मृष्टमश्नातु यस्यार्योऽनुमते गतः॥ २३राजस्त्रीबालवृद्धानां वधे यत्पापमुच्यते।भृत्यत्यागे च यत्पापं तत्पापं प्रतिपद्यताम्॥ २४उभे संध्ये शयानस्य यत्पापं परिकल्प्यते।तच्च पापं भवेत्तस्य यस्यार्योऽनुमते गतः॥ २५यदग्निदायके पापं यत्पापं गुरुतल्पगे।मित्रद्रोहे च यत्पापं तत्पापं प्रतिपद्यताम्॥ २६देवतानां पितॄणां च माता पित्रोस्तथैव च।मा स्म कार्षीत्स शुश्रूषां यस्यार्योऽनुमते गतः॥ २७सतां लोकात्सतां कीर्त्याः सज्जुष्टात्कर्मणस्तथा।भ्रश्यतु क्षिप्रमद्यैव यस्यार्योऽनुमते गतः॥ २८विहीनां पतिपुत्राभ्यां कौसल्यां पार्थिवात्मजः।एवमाश्वसयन्नेव दुःखार्तो निपपात ह॥ २९तथा तु शपथैः कष्टैः शपमानमचेतनम्।भरतं शोकसंतप्तं कौसल्या वाक्यमब्रवीत्॥ ३०मम दुःखमिदं पुत्र भूयः समुपजायते।शपथैः शपमानो हि प्राणानुपरुणत्सि मे॥ ३१दिष्ट्या न चलितो धर्मादात्मा ते सहलक्ष्मणः।वत्स सत्यप्रतिज्ञो मे सतां लोकानवाप्स्यसि॥ ३२एवं विलपमानस्य दुःखार्तस्य महात्मनः।मोहाच्च शोकसंरोधाद्बभूव लुलितं मनः॥ ३३लालप्यमानस्य विचेतनस्यप्रनष्टबुद्धेः पतितस्य भूमौ।मुहुर्मुहुर्निःश्वसतश्च दीर्घंसा तस्य शोकेन जगाम रात्रिः॥ ३४इति श्रीरामायणे अयोध्याकाण्डे एकोनसप्ततितमः सर्गः ॥ ६९
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved