८० सर्गः
आचचक्षेऽथ सद्भावं लक्ष्मणस्य महात्मनः।भरतायाप्रमेयाय गुहो गहनगोचरः॥ १तं जाग्रतं गुणैर्युक्तं वरचापेषुधारिणम्।भ्रातृ गुप्त्यर्थमत्यन्तमहं लक्ष्मणमब्रवम्॥ २इयं तात सुखा शय्या त्वदर्थमुपकल्पिता।प्रत्याश्वसिहि शेष्वास्यां सुखं राघवनन्दन॥ ३उचितोऽयं जनः सर्वे दुःखानां त्वं सुखोचितः।धर्मात्मंस्तस्य गुप्त्यर्थं जागरिष्यामहे वयम्॥ ४न हि रामात्प्रियतरो ममास्ति भुवि कश्चन।मोत्सुको भूर्ब्रवीम्येतदप्यसत्यं तवाग्रतः॥ ५अस्य प्रसादादाशंसे लोकेऽस्मिन्सुमहद्यशः।धर्मावाप्तिं च विपुलामर्थावाप्तिं च केवलाम्॥ ६सोऽहं प्रियसखं रामं शयानं सह सीतया।रक्षिष्यामि धनुष्पाणिः सर्वैः स्वैर्ज्ञातिभिः सह॥ ७न हि मेऽविदितं किंचिद्वनेऽस्मिंश्चरतः सदा।चतुरङ्गं ह्यपि बलं प्रसहेम वयं युधि॥ ८एवमस्माभिरुक्तेन लक्ष्मणेन महात्मना।अनुनीता वयं सर्वे धर्ममेवानुपश्यता॥ ९कथं दाशरथौ भूमौ शयाने सह सीतया।शक्या निद्रामया लब्धुं जीवितं वा सुखानि वा॥ १०यो न देवासुरैः सर्वैः शक्यः प्रसहितुं युधि।तं पश्य गुह संविष्टं तृणेषु सह सीतया॥ ११महता तपसा लब्धो विविधैश्च परिश्रमैः।एको दशरथस्यैष पुत्रः सदृशलक्षणः॥ १२अस्मिन्प्रव्राजिते राजा न चिरं वर्तयिष्यति।विधवा मेदिनी नूनं क्षिप्रमेव भविष्यति॥ १३विनद्य सुमहानादं श्रमेणोपरताः स्त्रियः।निर्घोषोपरतं नूनमद्य राजनिवेशनम्॥ १४कौसल्या चैव राजा च तथैव जननी मम।नाशंसे यदि ते सर्वे जीवेयुः शर्वरीमिमाम्॥ १५जीवेदपि हि मे माता शत्रुघ्नस्यान्ववेक्षया।दुःखिता या तु कौसल्या वीरसूर्विनशिष्यति॥ १६अतिक्रान्तमतिक्रान्तमनवाप्य मनोरथम्।राज्ये राममनिक्षिप्य पिता मे विनशिष्यति॥ १७सिद्धार्थाः पितरं वृत्तं तस्मिन्काले ह्युपस्थिते।प्रेतकार्येषु सर्वेषु संस्करिष्यन्ति भूमिपम्॥ १८रम्यचत्वरसंस्थानां सुविभक्तमहापथाम्।हर्म्यप्रासादसंपन्नां सर्वरत्नविभूषिताम्॥ १९गजाश्वरथसंबाधां तूर्यनादविनादिताम्।सर्वकल्याणसंपूर्णां हृष्टपुष्टजनाकुलाम्॥ २०आरामोद्यानसंपूर्णां समाजोत्सवशालिनीम्।सुखिता विचरिष्यन्ति राजधानीं पितुर्मम॥ २१अपि सत्यप्रतिज्ञेन सार्धं कुशलिना वयम्।निवृत्ते समये ह्यस्मिन्सुखिताः प्रविशेमहि॥ २२परिदेवयमानस्य तस्यैवं सुमहात्मनः।तिष्ठतो राजपुत्रस्य शर्वरी सात्यवर्तत॥ २३प्रभाते विमले सूर्ये कारयित्वा जटा उभौ।अस्मिन्भागीरथीतीरे सुखं संतारितौ मया॥ २४जटाधरौ तौ द्रुमचीरवाससौमहाबलौ कुञ्जरयूथपोपमौ।वरेषुचापासिधरौ परंतपौव्यवेक्षमाणौ सह सीतया गतौ॥ २५इति श्रीरामायणे अयोध्याकाण्डे अशीतितमः सर्गः ॥ ८०
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved