॥ ॐ श्री गणपतये नमः ॥

८४ सर्गः
भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभः।बलं सर्वमवस्थाप्य जगाम सह मन्त्रिभिः॥ १पद्भ्यामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छदः।वसानो वाससी क्षौमे पुरोधाय पुरोहितम्॥ २ततः संदर्शने तस्य भरद्वाजस्य राघवः।मन्त्रिणस्तानवस्थाप्य जगामानु पुरोहितम्॥ ३वसिष्ठमथ दृष्ट्वैव भरद्वाजो महातपाः।संचचालासनात्तूर्णं शिष्यानर्घ्यमिति ब्रुवन्॥ ४समागम्य वसिष्ठेन भरतेनाभिवादितः।अबुध्यत महातेजाः सुतं दशरथस्य तम्॥ ५ताभ्यामर्घ्यं च पाद्यं च दत्त्वा पश्चात्फलानि च।आनुपूर्व्याच्च धर्मज्ञः पप्रच्छ कुशलं कुले॥ ६अयोध्यायां बले कोशे मित्रेष्वपि च मन्त्रिषु।जानन्दशरथं वृत्तं न राजानमुदाहरत्॥ ७वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम्।शरीरेऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु॥ ८तथेति च प्रतिज्ञाय भरद्वाजो महातपाः।भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात्॥ ९किमिहागमने कार्यं तव राज्यं प्रशासतः।एतदाचक्ष्व मे सर्वं न हि मे शुध्यते मनः॥ १०सुषुवे यम मित्रघ्नं कौसल्यानन्दवर्धनम्।भ्रात्रा सह सभार्यो यश्चिरं प्रव्राजितो वनम्॥ ११नियुक्तः स्त्रीनियुक्तेन पित्रा योऽसौ महायशाः।वनवासी भवेतीह समाः किल चतुर्दश॥ १२कच्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि।अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च॥ १३एवमुक्तो भरद्वाजं भरतः प्रत्युवाच ह।पर्यश्रु नयनो दुःखाद्वाचा संसज्जमानया॥ १४हतोऽस्मि यदि मामेवं भगवानपि मन्यते।मत्तो न दोषमाशङ्केर्नैवं मामनुशाधि हि॥ १५न चैतदिष्टं माता मे यदवोचन्मदन्तरे।नाहमेतेन तुष्टश्च न तद्वचनमाददे॥ १६अहं तु तं नरव्याघ्रमुपयातः प्रसादकः।प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम्॥ १७त्वं मामेवंगतं मत्वा प्रसादं कर्तुमर्हसि।शंस मे भगवन्रामः क्व संप्रति महीपतिः॥ १८उवाच तं भरद्वाजः प्रसादाद्भरतं वचः।त्वय्येतत्पुरुषव्याघ्र युक्तं राघववंशजे।गुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता॥ १९जाने चैतन्मनःस्थं ते दृढीकरणमस्त्विति।अपृच्छं त्वां तवात्यर्थं कीर्तिं समभिवर्धयन्॥ २०असौ वसति ते भ्राता चित्रकूटे महागिरौ।श्वस्तु गन्तासि तं देशं वसाद्य सह मन्त्रिभिः।एतं मे कुरु सुप्राज्ञ कामं कामार्थकोविद॥ २१ततस्तथेत्येवमुदारदर्शनःप्रतीतरूपो भरतोऽब्रवीद्वचः।चकार बुद्धिं च तदा महाश्रमेनिशानिवासाय नराधिपात्मजः॥ २२इति श्रीरामायणे अयोध्याकाण्डे चतुरशीतितमः सर्गः ॥ ८४
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved