॥ ॐ श्री गणपतये नमः ॥

८६ सर्गः
ततस्तां रजनीमुष्य भरतः सपरिच्छदः।कृतातिथ्यो भरद्वाजं कामादभिजगाम ह॥ १तमृषिः पुरुषव्याघ्रं प्रेक्ष्य प्राञ्जलिमागतम्।हुताग्निहोत्रो भरतं भरद्वाजोऽभ्यभाषत॥ २कच्चिदत्र सुखा रात्रिस्तवास्मद्विषये गता।समग्रस्ते जनः कच्चिदातिथ्ये शंस मेऽनघ॥ ३तमुवाचाञ्जलिं कृत्वा भरतोऽभिप्रणम्य च।आश्रमादभिनिष्क्रन्तमृषिमुत्तम तेजसम्॥ ४सुखोषितोऽस्मि भगवन्समग्रबलवाहनः।तर्पितः सर्वकामैश्च सामात्यो बलवत्त्वया॥ ५अपेतक्लमसंतापाः सुभक्ष्याः सुप्रतिश्रयाः।अपि प्रेष्यानुपादाय सर्वे स्म सुसुखोषिताः॥ ६आमन्त्रयेऽहं भगवन्कामं त्वामृषिसत्तम।समीपं प्रस्थितं भ्रातुर्मैरेणेक्षस्व चक्षुषा॥ ७आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मनः।आचक्ष्व कतमो मार्गः कियानिति च शंस मे॥ ८इति पृष्टस्तु भरतं भ्रातृदर्शनलालसम्।प्रत्युवाच महातेजा भरद्वाजो महातपाः॥ ९भरतार्धतृतीयेषु योजनेष्वजने वने।चित्रकूटो गिरिस्तत्र रम्यनिर्दरकाननः॥ १०उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी।पुष्पितद्रुमसंछन्ना रम्यपुष्पितकानना॥ ११अनन्तरं तत्सरितश्चित्रकूटश्च पर्वतः।ततो पर्णकुटी तात तत्र तौ वसतो ध्रुवम्॥ १२दक्षिणेनैव मार्गेण सव्यदक्षिणमेव च।गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते।वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम्॥ १३प्रयाणमिति च श्रुत्वा राजराजस्य योषितः।हित्वा यानानि यानार्हा ब्राह्मणं पर्यवारयन्॥ १४वेपमाना कृशा दीना सह देव्या सुमन्त्रिया।कौसल्या तत्र जग्राह कराभ्यां चरणौ मुनेः॥ १५असमृद्धेन कामेन सर्वलोकस्य गर्हिता।कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा॥ १६तं प्रदक्षिणमागम्य भगवन्तं महामुनिम्।अदूराद्भरतस्यैव तस्थौ दीनमनास्तदा॥ १७ततः पप्रच्छ भरतं भरद्वाजो दृढव्रतः।विशेषं ज्ञातुमिच्छामि मातॄणां तव राघव॥ १८एवमुक्तस्तु भरतो भरद्वाजेन धार्मिकः।उवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविदः॥ १९यामिमां भगवन्दीनां शोकानशनकर्शिताम्।पितुर्हि महिषीं देवीं देवतामिव पश्यसि॥ २०एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम्।कौसल्या सुषुवे रामं धातारमदितिर्यथा॥ २१अस्या वामभुजं श्लिष्टा यैषा तिष्ठति दुर्मनाः।कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे॥ २२एतस्यास्तौ सुतौ देव्याः कुमारौ देववर्णिनौ।उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ॥ २३यस्याः कृते नरव्याघ्रौ जीवनाशमितो गतौ।राजा पुत्रविहीनश्च स्वर्गं दशरथो गतः॥ २४ऐश्वर्यकामां कैकेयीमनार्यामार्यरूपिणीम्।ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम्।यतोमूलं हि पश्यामि व्यसनं महदात्मनः॥ २५इत्युक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा।स निशश्वास ताम्राक्षो क्रुद्धो नाग इवासकृत्॥ २६भरद्वाजो महर्षिस्तं ब्रुवन्तं भरतं तदा।प्रत्युवाच महाबुद्धिरिदं वचनमर्थवत्॥ २७न दोषेणावगन्तव्या कैकेयी भरत त्वया।रामप्रव्राजनं ह्येतत्सुखोदर्कं भविष्यति॥ २८अभिवाद्य तु संसिद्धः कृत्वा चैनं प्रदक्षिणम्।आमन्त्र्य भरतः सैन्यं युज्यतामित्यचोदयत्॥ २९ततो वाजिरथान्युक्त्वा दिव्यान्हेमपरिष्क्रितान्।अध्यारोहत्प्रयाणार्थी बहून्बहुविधो जनः॥ ३०गजकन्यागजाश्चैव हेमकक्ष्याः पताकिनः।जीमूता इव घर्मान्ते सघोषाः संप्रतस्थिरे॥ ३१विविधान्यपि यानानि महानि च लघूनि च।प्रययुः सुमहार्हाणि पादैरेव पदातयः॥ ३२अथ यानप्रवेकैस्तु कौसल्याप्रमुखाः स्त्रियः।रामदर्शनकाङ्क्षिण्यः प्रययुर्मुदितास्तदा॥ ३३स चार्कतरुणाभासां नियुक्तां शिबिकां शुभाम्।आस्थाय प्रययौ श्रीमान्भरतः सपरिच्छदः॥ ३४सा प्रयाता महासेना गजवाजिरथाकुला।दक्षिणां दिशमावृत्य महामेघ इवोत्थितः।वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभिः॥ ३५सा संप्रहृष्टद्विपवाजियोधावित्रासयन्ती मृगपक्षिसंघान्।महद्वनं तत्प्रविगाहमानारराज सेना भरतस्य तत्र॥ ३६इति श्रीरामायणे अयोध्याकाण्डे षडशीतितमः सर्गः ॥ ८६
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved