॥ ॐ श्री गणपतये नमः ॥

९२ सर्गः
निवेश्य सेनां तु विभुः पद्भ्यां पादवतां वरः।अभिगन्तुं स काकुत्स्थमियेष गुरुवर्तकम्॥ १निविष्ट मात्रे सैन्ये तु यथोद्देशं विनीतवत्।भरतो भ्रातरं वाक्यं शत्रुघ्नमिदमब्रवीत्॥ २क्षिप्रं वनमिदं सौम्य नरसंघैः समन्ततः।लुब्धैश्च सहितैरेभिस्त्वमन्वेषितुमर्हसि॥ ३यावन्न रामं द्रक्ष्यामि लक्ष्मणं वा महाबलम्।वैदेहीं वा महाभागां न मे शान्तिर्भविष्यति॥ ४यावन्न चन्द्रसंकाशं द्रक्ष्यामि शुभमाननम्।भ्रातुः पद्मपलाशाक्षं न मे शान्तिर्भविष्यति॥ ५यावन्न चरणौ भ्रातुः पार्थिव व्यञ्जनान्वितौ।शिरसा धारयिष्यामि न मे शान्तिर्भविष्यति॥ ६यावन्न राज्ये राज्यार्हः पितृपैतामहे स्थितः।अभिषेकजलक्लिन्नो न मे शान्तिर्भविष्यति॥ ७कृतकृत्या महाभागा वैदेही जनकात्मजा।भर्तारं सागरान्तायाः पृथिव्या यानुगच्छति॥ ८सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरिः।यस्मिन्वसति काकुत्स्थः कुबेर इवनन्दने॥ ९कृतकार्यमिदं दुर्गं वनं व्यालनिषेवितम्।यदध्यास्ते महातेजा रामः शस्त्रभृतां वरः॥ १०एवमुक्त्वा महातेजा भरतः पुरुषर्षभः।पद्भ्यामेव महातेजाः प्रविवेश महद्वनम्॥ ११स तानि द्रुमजालानि जातानि गिरिसानुषु।पुष्पिताग्राणि मध्येन जगाम वदतां वरः॥ १२स गिरेश्चित्रकूटस्य सालमासाद्य पुष्पितम्।रामाश्रमगतस्याग्नेर्ददर्श ध्वजमुच्छ्रितम्॥ १३तं दृष्ट्वा भरतः श्रीमान्मुमोद सहबान्धवः।अत्र राम इति ज्ञात्वा गतः पारमिवाम्भसः॥ १४स चित्रकूटे तु गिरौ निशाम्यरामाश्रमं पुण्यजनोपपन्नम्।गुहेन सार्धं त्वरितो जगामपुनर्निवेश्यैव चमूं महात्मा॥ १५इति श्रीरामायणे अयोध्याकाण्डे द्विनवतितमः सर्गः ॥ ९२
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved