॥ ॐ श्री गणपतये नमः ॥

९३ सर्गः
निविष्टायां तु सेनायामुत्सुको भरतस्तदा।जगाम भ्रातरं द्रष्टुं शत्रुघ्नमनुदर्शयन्॥ १ऋषिं वसिष्ठं संदिश्य मातॄर्मे शीघ्रमानय।इति तरितमग्रे स जागम गुरुवत्सलः॥ २सुमन्त्रस्त्वपि शतुघ्नमदूरादन्वपद्यत।रामदार्शनजस्तर्षो भरतस्येव तस्य च॥ ३गच्छन्नेवाथ भरतस्तापसालयसंस्थिताम्।भ्रातुः पर्णकुटीं श्रीमानुटजं च ददर्श ह॥ ४शालायास्त्वग्रतस्तस्या ददर्श भरतस्तदा।काष्टानि चावभग्नानि पुष्पाण्यवचितानि च॥ ५ददर्श च वने तस्मिन्महतः संचयान्कृतान्।मृगाणां महिषाणां च करीषैः शीतकारणात्॥ ६गच्छनेव महाबाहुर्द्युतिमान्भरतस्तदा।शत्रुघ्नं चाब्रवीद्धृष्टस्तानमात्यांश्च सर्वशः॥ ७मन्ये प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत्।नातिदूरे हि मन्येऽहं नदीं मन्दाकिनीमितः॥ ८उच्चैर्बद्धानि चीराणि लक्ष्मणेन भवेदयम्।अभिज्ञानकृतः पन्था विकाले गन्तुमिच्छता॥ ९इदं चोदात्तदन्तानां कुञ्जराणां तरस्विनाम्।शैलपार्श्वे परिक्रान्तमन्योन्यमभिगर्जताम्॥ १०यमेवाधातुमिच्छन्ति तापसाः सततं वने।तस्यासौ दृश्यते धूमः संकुलः कृष्टवर्त्मनः॥ ११अत्राहं पुरुषव्याघ्रं गुरुसत्कारकारिणम्।आर्यं द्रक्ष्यामि संहृष्टो महर्षिमिव राघवम्॥ १२अथ गत्वा मुहूर्तं तु चित्रकूटं स राघवः।मन्दाकिनीमनुप्राप्तस्तं जनं चेदमब्रवीत्॥ १३जगत्यां पुरुषव्याघ्र आस्ते वीरासने रतः।जनेन्द्रो निर्जनं प्राप्य धिन्मे जन्म सजीवितम्॥ १४मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युतिः।सरान्कामान्परित्यज्य वने वसति राघवः॥ १५इति लोकसमाक्रुष्टः पादेष्वद्य प्रसादयन्।रामस्य निपतिष्यामि सीतायाश्च पुनः पुनः॥ १६एवं स विलपंस्तस्मिन्वने दशरथात्मजः।ददर्श महतीं पुण्यां पर्णशालां मनोरमाम्॥ १७सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम्।विशालां मृदुभिस्तीर्णां कुशैर्वेदिमिवाध्वरे॥ १८शक्रायुध निकाशैश्च कार्मुकैर्भारसाधनैः।रुक्मपृष्ठैर्महासारैः शोभितां शत्रुबाधकैः॥ १९अर्करश्मिप्रतीकाशैर्घोरैस्तूणीगतैः शरैः।शोभितां दीप्तवदनैः सर्पैर्भोगवतीमिव॥ २०महारजतवासोभ्यामसिभ्यां च विराजिताम्।रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम्॥ २१गोधाङ्गुलित्रैरासाक्तैश्चित्रैः काञ्चनभूषितैः।अरिसंघैरनाधृष्यां मृगैः सिंहगुहामिव॥ २२प्रागुदक्स्रवणां वेदिं विशालां दीप्तपावकाम्।ददर्श भरतस्तत्र पुण्यां रामनिवेशने॥ २३निरीक्ष्य स मुहूर्तं तु ददर्श भरतो गुरुम्।उटजे राममासीनां जटामण्डलधारिणम्॥ २४तं तु कृष्णाजिनधरं चीरवल्कलवाससं।ददर्श राममासीनमभितः पावकोपमम्॥ २५सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम्।पृथिव्याः सगरान्ताया भर्तारं धर्मचारिणम्॥ २६उपविष्टं महाबाहुं ब्रह्माणमिव शाश्वतम्।स्थण्डिले दर्भसस्म्तीर्णे सीतया लक्ष्मणेन च॥ २७तं दृष्ट्वा भरतः श्रीमान्दुःखमोहपरिप्लुतः।अभ्यधावत धर्मात्मा भरतः कैकयीसुतः॥ २८दृष्ट्वा च विललापार्तो बाष्पसंदिग्धया गिरा।अशक्नुवन्धारयितुं धैर्याद्वचनमब्रवीत्॥ २९यः संसदि प्रकृतिभिर्भवेद्युक्त उपासितुम्।वन्यैर्मृगैरुपासीनः सोऽयमास्ते ममाग्रजः॥ ३०वासोभिर्बहुसाहस्रैर्यो महात्मा पुरोचितः।मृगाजिने सोऽयमिह प्रवस्ते धर्ममाचरन्॥ ३१अधारयद्यो विविधाश्चित्राः सुमनसस्तदा।सोऽयं जटाभारमिमं सहते राघवः कथम्॥ ३२यस्य यज्ञैर्यथादिष्टैर्युक्तो धर्मस्य संचयः।शरीर क्लेशसंभूतं स धर्मं परिमार्गते॥ ३३चन्दनेन महार्हेण यस्याङ्गमुपसेवितम्।मलेन तस्याङ्गमिदं कथमार्यस्य सेव्यते॥ ३४मन्निमित्तमिदं दुःखं प्राप्तो रामः सुखोचितः।धिग्जीवितं नृशंसस्य मम लोकविगर्हितम्॥ ३५इत्येवं विलपन्दीनः प्रस्विन्नमुखपङ्कजः।पादावप्राप्य रामस्य पपात भरतो रुदन्॥ ३६दुःखाभितप्तो भरतो राजपुत्रो महाबलः।उक्त्वार्येति सकृद्दीनं पुनर्नोवाच किंचन॥ ३७बाष्पापिहित कण्ठश्च प्रेक्ष्य रामं यशस्विनम्।आर्येत्येवाभिसंक्रुश्य व्याहर्तुं नाशकत्ततः॥ ३८शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ रुदन्।तावुभौ स समालिङ्ग्य रामोऽप्यश्रूण्यवर्तयत्॥ ३९ततः सुमन्त्रेण गुहेन चैवसमीयतू राजसुतावरण्ये।दिवाकरश्चैव निशाकरश्चयथाम्बरे शुक्रबृहस्पतिभ्याम्॥ ४०तान्पार्थिवान्वारणयूथपाभान्समागतांस्तत्र महत्यरण्ये।वनौकसस्तेऽपि समीक्ष्य सर्वेऽप्यश्रूण्यमुञ्चन्प्रविहाय हर्षम्॥ ४१इति श्रीरामायणे अयोध्याकाण्डे त्रिनवतितमः सर्गः ॥ ९३
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved