९५ सर्गः
रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह।किं मे धर्माद्विहीनस्य राजधर्मः करिष्यति॥ १शाश्वतोऽयं सदा धर्मः स्थितोऽस्मासु नरर्षभ।ज्येष्ठ पुत्रे स्थिते राजन्न कनीयान्भवेन्नृपः॥ २स समृद्धां मया सार्धमयोध्यां गच्छ राघव।अभिषेचय चात्मानं कुलस्यास्य भवाय नः॥ ३राजानं मानुषं प्राहुर्देवत्वे संमतो मम।यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम्॥ ४केकयस्थे च मयि तु त्वयि चारण्यमाश्रिते।दिवमार्य गतो राजा यायजूकः सतां मतः॥ ५उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितुः।अहं चायं च शत्रुघ्नः पूर्वमेव कृतोदकौ॥ ६प्रियेण किल दत्तं हि पितृलोकेषु राघव।अक्षय्यं भवतीत्याहुर्भवांश्चैव पितुः प्रियः॥ ७तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम्।राघवो भरतेनोक्तां बभूव गतचेतनः॥ ८वाग्वज्रं भरतेनोक्तममनोज्ञं परंतपः।प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुमः।वने परशुना कृत्तस्तथा भुवि पपात ह॥ ९तथा हि पतितं रामं जगत्यां जगतीपतिम्।कूलघातपरिश्रान्तं प्रसुप्तमिव कुञ्जरम्॥ १०भ्रातरस्ते महेष्वासं सर्वतः शोककर्शितम्।रुदन्तः सह वैदेह्या सिषिचुः सलिलेन वै॥ ११स तु संज्ञां पुनर्लब्ध्वा नेत्राभ्यामास्रमुत्सृजन्।उपाक्रामत काकुत्स्थः कृपणं बहुभाषितुम्॥ १२किं नु तस्य मया कार्यं दुर्जातेन महात्मना।यो मृतो मम शोकेन न मया चापि संस्कृतः॥ १३अहो भरत सिद्धार्थो येन राजा त्वयानघ।शत्रुघेण च सर्वेषु प्रेतकृत्येषु सत्कृतः॥ १४निष्प्रधानामनेकाग्रं नरेन्द्रेण विनाकृताम्।निवृत्तवनवासोऽपि नायोध्यां गन्तुमुत्सहे॥ १५समाप्तवनवासं मामयोध्यायां परंतप।को नु शासिष्यति पुनस्ताते लोकान्तरं गते॥ १६पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह सान्त्वयन्।वाक्यानि तानि श्रोष्यामि कुतः कर्णसुखान्यहम्॥ १७एवमुक्त्वा स भरतं भार्यामभ्येत्य राघवः।उवाच शोकसंतप्तः पूर्णचन्द्रनिभाननाम्॥ १८सीते मृतस्ते श्वशुरः पित्रा हीनोऽसि लक्ष्मण।भरतो दुःखमाचष्टे स्वर्गतं पृथिवीपतिम्॥ १९सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम्।उवाच लक्ष्मणं तत्र दुःखितो दुःखितं वचः॥ २०आनयेङ्गुदिपिण्याकं चीरमाहर चोत्तरम्।जलक्रियार्थं तातस्य गमिष्यामि महात्मनः॥ २१सीता पुरस्ताद्व्रजतु त्वमेनामभितो व्रज।अहं पश्चाद्गमिष्यामि गतिर्ह्येषा सुदारुणा॥ २२ततो नित्यानुगस्तेषां विदितात्मा महामतिः।मृदुर्दान्तश्च शान्तश्च रामे च दृढ भक्तिमान्॥ २३सुमन्त्रस्तैर्नृपसुतैः सार्धमाश्वास्य राघवम्।अवातारयदालम्ब्य नदीं मन्दाकिनीं शिवाम्॥ २४ते सुतीर्थां ततः कृच्छ्रादुपागम्य यशस्विनः।नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम्॥ २५शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्दमम्।सिषिचुस्तूदकं राज्ञे तत एतद्भवत्विति॥ २६प्रगृह्य च महीपालो जलपूरितमञ्जलिम्।दिशं याम्यामभिमुखो रुदन्वचनमब्रवीत्॥ २७एतत्ते राजशार्दूल विमलं तोयमक्षयम्।पितृलोकगतस्याद्य मद्दत्तमुपतिष्ठतु॥ २८ततो मन्दाकिनी तीरात्प्रत्युत्तीर्य स राघवः।पितुश्चकार तेजस्वी निवापं भ्रातृभिः सह॥ २९ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे।न्यस्य रामः सुदुःखार्तो रुदन्वचनमब्रवीत्॥ ३०इदं भुङ्क्ष्व महाराजप्रीतो यदशना वयम्।यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः॥ ३१ततस्तेनैव मार्गेण प्रत्युत्तीर्य नदीतटात्।आरुरोह नरव्याघ्रो रम्यसानुं महीधरम्॥ ३२ततः पर्णकुटीद्वारमासाद्य जगतीपतिः।परिजग्राह पाणिभ्यामुभौ भरतलक्ष्मणौ॥ ३३तेषां तु रुदतां शब्दात्प्रतिश्रुत्काभवद्गिरौ।भ्रातॄणां सह वैदेह्या सिंहानां नर्दतामिव॥ ३४विज्ञाय तुमुलं शब्दं त्रस्ता भरतसैनिकाः।अब्रुवंश्चापि रामेण भरतः संगतो ध्रुवम्।तेषामेव महाञ्शब्दः शोचतां पितरं मृतम्॥ ३५अथ वासान्परित्यज्य तं सर्वेऽभिमुखाः स्वनम्।अप्येक मनसो जग्मुर्यथास्थानं प्रधाविताः॥ ३६हयैरन्ये गजैरन्ये रथैरन्ये स्वलंकृतैः।सुकुमारास्तथैवान्ये पद्भिरेव नरा ययुः॥ ३७अचिरप्रोषितं रामं चिरविप्रोषितं यथा।द्रष्टुकामो जनः सर्वो जगाम सहसाश्रमम्॥ ३८भ्रातॄणां त्वरितास्ते तु द्रष्टुकामाः समागमम्।ययुर्बहुविधैर्यानैः खुरनेमिसमाकुलैः॥ ३९सा भूमिर्बहुभिर्यानैः खुरनेमिसमाहता।मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे॥ ४०तेन वित्रासिता नागाः करेणुपरिवारिताः।आवासयन्तो गन्धेन जग्मुरन्यद्वनं ततः॥ ४१वराहमृगसिंहाश्च महिषाः सर्क्षवानराः।व्याघ्र गोकर्णगवया वित्रेषुः पृषतैः सह॥ ४२रथाङ्गसाह्वा नत्यूहा हंसाः कारण्डवाः प्लवाः।तथा पुंस्कोकिलाः क्रौञ्चा विसंज्ञा भेजिरे दिशः॥ ४३तेन शब्देन वित्रस्तैराकाशं पक्षिभिर्वृतम्।मनुष्यैरावृता भूमिरुभयं प्रबभौ तदा॥ ४४तान्नरान्बाष्पपूर्णाक्षान्समीक्ष्याथ सुदुःखितान्।पर्यष्वजत धर्मज्ञः पितृवन्मातृवच्च सः॥ ४५स तत्र कांश्चित्परिषस्वजे नरान्नराश्च केचित्तु तमभ्यवादयन्।चकार सर्वान्सवयस्यबान्धवान्यथार्हमासाद्य तदा नृपात्मजः॥ ४६ततः स तेषां रुदतां महात्मनांभुवं च खं चानुविनादयन्स्वनः।गुहा गिरीणां च दिशश्च संततंमृदङ्गघोषप्रतिमो विशुश्रुवे॥ ४७इति श्रीरामायणे अयोध्याकाण्डे पञ्चनवतितमः सर्गः ॥ ९५
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved