॥ ॐ श्री गणपतये नमः ॥

९८ सर्गः
ततः पुरुषसिंहानां वृतानां तैः सुहृद्गणैः।शोचतामेव रजनी दुःखेन व्यत्यवर्तत॥ १रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वृताः।मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन्॥ २तूष्णीं ते समुपासीना न कश्चित्किंचिदब्रवीत्।भरतस्तु सुहृन्मध्ये रामवचनमब्रवीत्॥ ३सान्त्विता मामिका माता दत्तं राज्यमिदं मम।तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम्॥ ४महतेवाम्बुवेगेन भिन्नः सेतुर्जलागमे।दुरावारं त्वदन्येन राज्यखण्डमिदं महत्॥ ५गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्रिणः।अनुगन्तुं न शक्तिर्मे गतिं तव महीपते॥ ६सुजीवं नित्यशस्तस्य यः परैरुपजीव्यते।राम तेन तु दुर्जीवं यः परानुपजीवति॥ ७यथा तु रोपितो वृक्षः पुरुषेण विवर्धितः।ह्रस्वकेन दुरारोहो रूढस्कन्धो महाद्रुमः॥ ८स यदा पुष्पितो भूत्वा फलानि न विदर्शयेत्।स तां नानुभवेत्प्रीतिं यस्य हेतोः प्रभावितः॥ ९एषोपमा महाबाहो त्वमर्थं वेत्तुमर्हसि।यदि त्वमस्मानृषभो भर्ता भृत्यान्न शाधि हि॥ १०श्रेणयस्त्वां महाराज पश्यन्त्वग्र्याश्च सर्वशः।प्रतपन्तमिवादित्यं राज्ये स्थितमरिंदमम्॥ ११तवानुयाने काकुत्ष्ठ मत्ता नर्दन्तु कुञ्जराः।अन्तःपुर गता नार्यो नन्दन्तु सुसमाहिताः॥ १२तस्य साध्वित्यमन्यन्त नागरा विविधा जनाः।भरतस्य वचः श्रुत्वा रामं प्रत्यनुयाचतः॥ १३तमेवं दुःखितं प्रेक्ष्य विलपन्तं यशस्विनम्।रामः कृतात्मा भरतं समाश्वासयदात्मवान्॥ १४नात्मनः कामकारोऽस्ति पुरुषोऽयमनीश्वरः।इतश्चेतरतश्चैनं कृतान्तः परिकर्षति॥ १५सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः।संयोगा विप्रयोगान्ता मरणान्तं च जीवितम्॥ १६यथा फलानं पक्वानां नान्यत्र पतनाद्भयम्।एवं नरस्य जातस्य नान्यत्र मरणाद्भयम्॥ १७यथागारं दृढस्थूणं जीर्णं भूत्वावसीदति।तथावसीदन्ति नरा जरामृत्युवशं गताः॥ १८अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह।आयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशवः॥ १९आत्मानमनुशोच त्वं किमन्यमनुशोचसि।आयुस्ते हीयते यस्य स्थितस्य च गतस्य च॥ २०सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति।गत्वा सुदीर्घमध्वानं सह मृत्युर्निवर्तते॥ २१गात्रेषु वलयः प्राप्ताः श्वेताश्चैव शिरोरुहाः।जरया पुरुषो जीर्णः किं हि कृत्वा प्रभावयेत्॥ २२नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमिते रवौ।आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम्॥ २३हृष्यन्त्यृतुमुखं दृष्ट्वा नवं नवमिहागतम्।ऋतूनां परिवर्तेन प्राणिनां प्राणसंक्षयः॥ २४यथा काष्ठं च काष्ठं च समेयातां महार्णवे।समेत्य च व्यपेयातां कालमासाद्य कंचन॥ २५एवं भार्याश्च पुत्राश्च ज्ञातयश्च वसूनि च।समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः॥ २६नात्र कश्चिद्यथा भावं प्राणी समभिवर्तते।तेन तस्मिन्न सामर्थ्यं प्रेतस्यास्त्यनुशोचतः॥ २७यथा हि सार्थं गच्छन्तं ब्रूयात्कश्चित्पथि स्थितः।अहमप्यागमिष्यामि पृष्ठतो भवतामिति॥ २८एवं पूर्वैर्गतो मार्गः पितृपैतामहो ध्रुवः।तमापन्नः कथं शोचेद्यस्य नास्ति व्यतिक्रमः॥ २९वयसः पतमानस्य स्रोतसो वानिवर्तिनः।आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः॥ ३०धर्मात्मा स शुभैः कृत्स्नैः क्रतुभिश्चाप्तदक्षिणैः।धूतपापो गतः स्वर्गं पिता नः पृथिवीपतिः॥ ३१भृत्यानां भरणात्सम्यक्प्रजानां परिपालनात्।अर्थादानाच्च धार्मेण पिता नस्त्रिदिवं गतः॥ ३२इष्ट्वा बहुविधैर्यज्ञैर्भोगांश्चावाप्य पुष्कलान्।उत्तमं चायुरासाद्य स्वर्गतः पृथिवीपतिः॥ ३३स जीर्णं मानुषं देहं परित्यज्य पिता हि नः।दैवीमृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम्॥ ३४तं तु नैवं विधः कश्चित्प्राज्ञः शोचितुमर्हति।त्वद्विधो यद्विधश्चापि श्रुतवान्बुद्धिमत्तरः॥ ३५एते बहुविधाः शोका विलाप रुदिते तथा।वर्जनीया हि धीरेण सर्वावस्थासु धीमता॥ ३६स स्वस्थो भव मा शोचो यात्वा चावस तां पुरीम्।तथा पित्रा नियुक्तोऽसि वशिना वदताम्व्वर॥ ३७यत्राहमपि तेनैव नियुक्तः पुण्यकर्मणा।तत्रैवाहं करिष्यामि पितुरार्यस्य शासनम्॥ ३८न मया शासनं तस्य त्यक्तुं न्याय्यमरिंदम।तत्त्वयापि सदा मान्यं स वै बन्धुः स नः पिता॥ ३९एवमुक्त्वा तु विरते रामे वचनमर्थवत्।उवाच भरतश्चित्रं धार्मिको धार्मिकं वचः॥ ४०को हि स्यादीदृशो लोके यादृशस्त्वमरिंदम।न त्वां प्रव्यथयेद्दुःखं प्रीतिर्वा न प्रहर्षयेत्॥ ४१संमतश्चासि वृद्धानां तांश्च पृच्छसि संशयान्।यथा मृतस्तथा जीवन्यथासति तथा सति॥ ४२यस्यैष बुद्धिलाभः स्यात्परितप्येत केन सः।स एवं व्यसनं प्राप्य न विषीदितुमर्हति॥ ४३अमरोपमसत्त्वस्त्वं महात्मा सत्यसंगरः।सर्वज्ञः सर्वदर्शी च बुद्धिमांश्चासि राघव॥ ४४न त्वामेवं गुणैर्युक्तं प्रभवाभवकोविदम्।अविषह्यतमं दुःखमासादयितुमर्हति॥ ४५प्रोषिते मयि यत्पापं मात्रा मत्कारणात्कृतम्।क्षुद्रया तदनिष्टं मे प्रसीदतु भवान्मम॥ ४६धर्मबन्धेन बद्धोऽस्मि तेनेमां नेह मातरम्।हन्मि तीव्रेण दण्डेन दण्डार्हां पापकारिणीम्॥ ४७कथं दशरथाज्जातः शुद्धाभिजनकर्मणः।जानन्धर्ममधर्मिष्ठं कुर्यां कर्म जुगुप्सितम्॥ ४८गुरुः क्रियावान्वृद्धश्च राजा प्रेतः पितेति च।तातं न परिगर्हेयं दैवतं चेति संसदि॥ ४९को हि धर्मार्थयोर्हीनमीदृशं कर्म किल्बिषम्।स्त्रियाः प्रियचिकीर्षुः सन्कुर्याद्धर्मज्ञ धर्मवित्॥ ५०अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुतिः।राज्ञैवं कुर्वता लोके प्रत्यक्षा सा श्रुतिः कृता॥ ५१साध्वर्थमभिसंधाय क्रोधान्मोहाच्च साहसात्।तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान्॥ ५२पितुर्हि समतिक्रान्तं पुत्रो यः साधु मन्यते।तदपत्यं मतं लोके विपरीतमतोऽन्यथा॥ ५३तदपत्यं भवानस्तु मा भवान्दुष्कृतं पितुः।अभिपत्तत्कृतं कर्म लोके धीरविगर्हितम्॥ ५४कैकेयीं मां च तातं च सुहृदो बान्धवांश्च नः।पौरजानपदान्सर्वांस्त्रातु सर्वमिदं भवान्॥ ५५क्व चारण्यं क्व च क्षात्रं क्व जटाः क्व च पालनम्।ईदृशं व्याहतं कर्म न भवान्कर्तुमर्हति॥ ५६अथ क्लेशजमेव त्वं धर्मं चरितुमिच्छसि।धर्मेण चतुरो वर्णान्पालयन्क्लेशमाप्नुहि॥ ५७चतुर्णामाश्रमाणां हि गार्हस्थ्यं श्रेष्ठमाश्रमम्।आहुर्धर्मज्ञ धर्मज्ञास्तं कथं त्यक्तुमर्हसि॥ ५८श्रुतेन बालः स्थानेन जन्मना भवतो ह्यहम्।स कथं पालयिष्यामि भूमिं भवति तिष्ठति॥ ५९हीनबुद्धिगुणो बालो हीनः स्थानेन चाप्यहम्।भवता च विना भूतो न वर्तयितुमुत्सहे॥ ६०इदं निखिलमव्यग्रं पित्र्यं राज्यमकण्टकम्।अनुशाधि स्वधर्मेण धर्मज्ञ सह बान्धवैः॥ ६१इहैव त्वाभिषिञ्चन्तु धर्मज्ञ सह बान्धवैः।ऋत्विजः सवसिष्ठाश्च मन्त्रवन्मन्त्रकोविदाः॥ ६२अभिषिक्तस्त्वमस्माभिरयोध्यां पालने व्रज।विजित्य तरसा लोकान्मरुद्भिरिव वासवः॥ ६३ऋणानि त्रीण्यपाकुर्वन्दुर्हृदः साधु निर्दहन्।सुहृदस्तर्पयन्कामैस्त्वमेवात्रानुशाधि माम्॥ ६४अद्यार्य मुदिताः सन्तु सुहृदस्तेऽभिषेचने।अद्य भीताः पालयन्तां दुर्हृदस्ते दिशो दश॥ ६५आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ।अद्य तत्र भवन्तं च पितरं रक्ष किल्बिषात्॥ ६६शिरसा त्वाभियाचेऽहं कुरुष्व करुणां मयि।बान्धवेषु च सर्वेषु भूतेष्विव महेश्वरः॥ ६७अथ वा पृष्ठतः कृत्वा वनमेव भवानितः।गमिष्यति गमिष्यामि भवता सार्धमप्यहम्॥ ६८तथापि रामो भरतेन ताम्यतप्रसाद्यमानः शिरसा महीपतिः।न चैव चक्रे गमनाय सत्त्ववान्मतिं पितुस्तद्वचने प्रतिष्ठितः॥ ६९तदद्भुतं स्थैर्यमवेक्ष्य राघवेसमं जनो हर्षमवाप दुःखितः।न यात्ययोध्यामिति दुःखितोऽभवत्स्थिरप्रतिज्ञत्वमवेक्ष्य हर्षितः॥ ७०तमृत्विजो नैगमयूथवल्लभास्तथा विसंज्ञाश्रुकलाश्च मातरः।तथा ब्रुवाणं भरतं प्रतुष्टुवुःप्रणम्य रामं च ययाचिरे सह॥ ७१इति श्रीरामायणे अयोध्याकाण्डे अष्टानवतितमः सर्गः ॥ ९८
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved