॥ ॐ श्री गणपतये नमः ॥

१०८ सर्गः
प्रतिप्रयाते भरते वसन्रामस्तपोवने।लक्षयामास सोद्वेगमथौत्सुक्यं तपस्विनाम्॥ १ये तत्र चित्रकूटस्य पुरस्तात्तापसाश्रमे।राममाश्रित्य निरतास्तानलक्षयदुत्सुकान्॥ २नयनैर्भृकुटीभिश्च रामं निर्दिश्य शङ्किताः।अन्योन्यमुपजल्पन्तः शनैश्चक्रुर्मिथः कथाः॥ ३तेषामौत्सुक्यमालक्ष्य रामस्त्वात्मनि शङ्कितः।कृताञ्जलिरुवाचेदमृषिं कुलपतिं ततः॥ ४न कच्चिद्भगवन्किंचित्पूर्ववृत्तमिदं मयि।दृश्यते विकृतं येन विक्रियन्ते तपस्विनः॥ ५प्रमादाच्चरितं कच्चित्किंचिन्नावरजस्य मे।लक्ष्मणस्यर्षिभिर्दृष्टं नानुरूपमिवात्मनः॥ ६कच्चिच्छुश्रूषमाणा वः शुश्रूषणपरा मयि।प्रमदाभ्युचितां वृत्तिं सीता युक्तं न वर्तते॥ ७अथर्षिर्जरया वृद्धस्तपसा च जरां गतः।वेपमान इवोवाच रामं भूतदयापरम्॥ ८कुतः कल्याणसत्त्वायाः कल्याणाभिरतेस्तथा।चलनं तात वैदेह्यास्तपस्विषु विशेषतः॥ ९त्वन्निमित्तमिदं तावत्तापसान्प्रति वर्तते।रक्षोभ्यस्तेन संविग्नाः कथयन्ति मिथः कथाः॥ १०रावणावरजः कश्चित्खरो नामेह राक्षसः।उत्पाट्य तापसान्सर्वाञ्जनस्थाननिकेतनान्॥ ११धृष्टश्च जितकाशी च नृशंसः पुरुषादकः।अवलिप्तश्च पापश्च त्वां च तात न मृष्यते॥ १२त्वं यदा प्रभृति ह्यस्मिन्नाश्रमे तात वर्तसे।तदा प्रभृति रक्षांसि विप्रकुर्वन्ति तापसान्॥ १३दर्शयन्ति हि बीभत्सैः क्रूरैर्भीषणकैरपि।नाना रूपैर्विरूपैश्च रूपैरसुखदर्शनैः॥ १४अप्रशस्तैरशुचिभिः संप्रयोज्य च तापसान्।प्रतिघ्नन्त्यपरान्क्षिप्रमनार्याः पुरतः स्थितः॥ १५तेषु तेष्वाश्रमस्थानेष्वबुद्धमवलीय च।रमन्ते तापसांस्तत्र नाशयन्तोऽल्पचेतसः॥ १६अपक्षिपन्ति स्रुग्भाण्डानग्नीन्सिञ्चन्ति वारिणा।कलशांश्च प्रमृद्नन्ति हवने समुपस्थिते॥ १७तैर्दुरात्मभिराविष्टानाश्रमान्प्रजिहासवः।गमनायान्यदेशस्य चोदयन्त्यृषयोऽद्य माम्॥ १८तत्पुरा राम शारीरामुपहिंसां तपस्विषु।दर्शयति हि दुष्टास्ते त्यक्ष्याम इममाश्रमम्॥ १९बहुमूलफलं चित्रमविदूरादितो वनम्।पुराणाश्रममेवाहं श्रयिष्ये सगणः पुनः॥ २०खरस्त्वय्यपि चायुक्तं पुरा तात प्रवर्तते।सहास्माभिरितो गच्छ यदि बुद्धिः प्रवर्तते॥ २१सकलत्रस्य संदेहो नित्यं यत्तस्य राघव।समर्थस्यापि हि सतो वासो दुःख इहाद्य ते॥ २२इत्युक्तवन्तं रामस्तं राजपुत्रस्तपस्विनम्।न शशाकोत्तरैर्वाक्यैरवरोद्धुं समुत्सुकम्॥ २३अभिनन्द्य समापृच्छ्य समाधाय च राघवम्।स जगामाश्रमं त्यक्त्वा कुलैः कुलपतिः सह॥ २४रामः संसाध्य त्वृषिगणमनुगमनाद्देशात्तस्माच्चित्कुलपतिमभिवाद्यर्षिम्।सम्यक्प्रीतैस्तैरनुमत उपदिष्टार्थःपुण्यं वासाय स्वनिलयमुपसंपेदे॥ २५आश्रमं त्वृषिविरहितं प्रभुःक्षणमपि न जहौ स राघवः।राघवं हि सततमनुगतास्तापसाश्चर्षिचरितधृतगुणाः॥ २६इति श्रीरामायणे अयोध्याकाण्डे अष्टोत्तरशततमः सर्गः ॥ १०८
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved