॥ ॐ श्री गणपतये नमः ॥

११० सर्गः
सा त्वेवमुक्ता वैदेही अनसूयानसूयया।प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे॥ १नैतदाश्चर्यमार्याया यन्मां त्वमनुभाषसे।विदितं तु ममाप्येतद्यथा नार्याः पतिर्गुरुः॥ २यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जितः।अद्वैधमुपवर्तव्यस्तथाप्येष मया भवेत्॥ ३किं पुनर्यो गुणश्लाघ्यः सानुक्रोशो जितेन्द्रियः।स्थिरानुरागो धर्मात्मा मातृवर्ती पितृ प्रियः॥ ४यां वृत्तिं वर्तते रामः कौसल्यायां महाबलः।तामेव नृपनारीणामन्यासामपि वर्तते॥ ५सकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सलः।मातृवद्वर्तते वीरो मानमुत्सृज्य धर्मवित्॥ ६आगच्छन्त्याश्च विजनं वनमेवं भयावहम्।समाहितं हि मे श्वश्र्वा हृदये यत्स्थितं मम॥ ७प्राणिप्रदानकाले च यत्पुरा त्वग्निसंनिधौ।अनुशिष्टा जनन्यास्मि वाक्यं तदपि मे धृतम्॥ ८नवीकृतं तु तत्सर्वं वाक्यैस्ते धर्मचारिणि।पतिशुश्रूषणान्नार्यास्तपो नान्यद्विधीयते॥ ९सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते।तथा वृत्तिश्च याता त्वं पतिशुश्रूषया दिवम्॥ १०वरिष्ठा सर्वनारीणामेषा च दिवि देवता।रोहिणी च विना चन्द्रं मुहूर्तमपि दृश्यते॥ ११एवंविधाश्च प्रवराः स्त्रियो भर्तृदृढव्रताः।देवलोके महीयन्ते पुण्येन स्वेन कर्मणा॥ १२ततोऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचः।शिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत॥ १३नियमैर्विविधैराप्तं तपो हि महदस्ति मे।तत्संश्रित्य बलं सीते छन्दये त्वां शुचिव्रते॥ १४उपपन्नं च युक्तं च वचनं तव मैथिलि।प्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे।कृतमित्यब्रवीत्सीता तपोबलसमन्विताम्॥ १५सा त्वेवमुक्ता धर्मज्ञा तया प्रीततराभवत्।सफलं च प्रहर्षं ते हन्त सीते करोम्यहम्॥ १६इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च।अङ्गरागं च वैदेहि महार्हमनुलेपनम्॥ १७मया दत्तमिदं सीते तव गात्राणि शोभयेत्।अनुरूपमसंक्लिष्टं नित्यमेव भविष्यति॥ १८अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे।शोभयिष्यामि भर्तारं यथा श्रीर्विष्णुमव्ययम्॥ १९सा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा।मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम्॥ २०प्रतिगृह्य च तत्सीता प्रीतिदानं यशस्विनी।श्लिष्टाञ्जलिपुटा धीरा समुपास्त तपोधनाम्॥ २१तथा सीतामुपासीनामनसूया दृढव्रता।वचनं प्रष्टुमारेभे कथां कांचिदनुप्रियाम्॥ २२स्वयंवरे किल प्राप्ता त्वमनेन यशस्विना।राघवेणेति मे सीते कथा श्रुतिमुपागता॥ २३तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि।यथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि॥ २४एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम्।श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम्॥ २५मिथिलाधिपतिर्वीरो जनको नाम धर्मवित्।क्षत्रधर्मण्यभिरतो न्यायतः शास्ति मेदिनीम्॥ २६तस्य लाङ्गलहस्तस्य कर्षतः क्षेत्रमण्डलम्।अहं किलोत्थिता भित्त्वा जगतीं नृपतेः सुता॥ २७स मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्परः।पांशु गुण्ठित सर्वाङ्गीं विस्मितो जनकोऽभवत्॥ २८अनपत्येन च स्नेहादङ्कमारोप्य च स्वयम्।ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातितः॥ २९अन्तरिक्षे च वागुक्ताप्रतिमा मानुषी किल।एवमेतन्नरपते धर्मेण तनया तव॥ ३०ततः प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिपः।अवाप्तो विपुलामृद्धिं मामवाप्य नराधिपः॥ ३१दत्त्वा चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा।तया संभाविता चास्मि स्निग्धया मातृसौहृदात्॥ ३२पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता।चिन्तामभ्यगमद्दीनो वित्तनाशादिवाधनः॥ ३३सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात्।प्रधर्षणामवाप्नोति शक्रेणापि समो भुवि॥ ३४तां धर्षणामदूरस्थां संदृश्यात्मनि पार्थिवः।चिन्न्तार्णवगतः पारं नाससादाप्लवो यथ॥ ३५अयोनिजां हि मां ज्ञात्वा नाध्यगच्छत्स चिन्तयन्।सदृशं चानुरूपं च महीपालः पतिं मम॥ ३६तस्य बुद्धिरियं जाता चिन्तयानस्य संततम्।स्वयं वरं तनूजायाः करिष्यामीति धीमतः॥ ३७महायज्ञे तदा तस्य वरुणेन महात्मना।दत्तं धनुर्वरं प्रीत्या तूणी चाक्षय्य सायकौ॥ ३८असंचाल्यं मनुष्यैश्च यत्नेनापि च गौरवात्।तन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपाः॥ ३९तद्धनुः प्राप्य मे पित्रा व्याहृतं सत्यवादिना।समवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान्॥ ४०इदं च धनुरुद्यम्य सज्यं यः कुरुते नरः।तस्य मे दुहिता भार्या भविष्यति न संशयः॥ ४१तच्च दृष्ट्वा धनुःश्रेष्ठं गौरवाद्गिरिसंनिभम्।अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने॥ ४२सुदीर्घस्य तु कालस्य राघवोऽयं महाद्युतिः।विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागतः॥ ४३लक्ष्मणेन सह भ्रात्रा रामः सत्यपराक्रमः।विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजितः॥ ४४प्रोवाच पितरं तत्र राघवो रामलक्ष्मणौ।सुतौ दशरथस्येमौ धनुर्दर्शनकाङ्क्षिणौ।इत्युक्तस्तेन विप्रेण तद्धनुः समुपानयत्॥ ४५निमेषान्तरमात्रेण तदानम्य स वीर्यवान्।ज्यां समारोप्य झटिति पूरयामास वीर्यवान्॥ ४६तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनुः।तस्य शब्दोऽभवद्भीमः पतितस्याशनेरिव॥ ४७ततोऽहं तत्र रामाय पित्रा सत्याभिसंधिना।उद्यता दातुमुद्यम्य जलभाजनमुत्तमम्॥ ४८दीयमानां न तु तदा प्रतिजग्राह राघवः।अविज्ञाय पितुश्छन्दमयोध्याधिपतेः प्रभोः॥ ४९ततः श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम्।मम पित्रा अहं दत्ता रामाय विदितात्मने॥ ५०मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना।भार्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम्॥ ५१एवं दत्तास्मि रामाय तदा तस्मिन्स्वयं वरे।अनुरक्ता च धर्मेण पतिं वीर्यवतां वरम्॥ ५२इति श्रीरामायणे अयोध्याकाण्डे दशोत्तरशततमः सर्गः ॥ ११०
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved