१ सर्गः
प्रविश्य तु महारण्यं दण्डकारण्यमात्मवान्।ददर्श रामो दुर्धर्षस्तापसाश्रममण्डलम्॥ १कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम्।यथा प्रदीप्तं दुर्धर्शं गगने सूर्यमण्डलम्॥ २शरण्यं सर्वभूतानां सुसमृष्टाजिरं सदा।पूजितं चोपनृत्तं च नित्यमप्सरसां गणैः॥ ३विशालैरग्निशरणैः स्रुग्भाण्डैरजिनैः कुशैः।समिद्भिस्तोयकलशैः फलमूलैश्च शोभितम्॥ ४आरण्यैश्च महावृक्षैः पुण्यैः स्वादुफलैर्वृतम्।बलिहोमार्चितं पुण्यं ब्रह्मघोषनिनादितम्॥ ५पुष्पैर्वन्यैः परिक्षिप्तं पद्मिन्या च सपद्मया।फलमूलाशनैर्दान्तैश्चीरकृष्णाजिनाम्बरैः॥ ६सूर्यवैश्वानराभैश्च पुराणैर्मुनिभिर्वृतम्।पुण्यैश नियताहारैः शोभितं परमर्षिभिः॥ ७तद्ब्रह्मभवनप्रख्यं ब्रह्मघोषनिनादितम्।ब्रह्मविद्भिर्महाभागैर्ब्राह्मणैरुपशोभितम्॥ ८तद्दृष्ट्वा राघवः श्रीमांस्तापसाश्रममण्डलम्।अभ्यगच्छन्महातेजा विज्यं कृत्वा महद्धनुः॥ ९दिव्यज्ञानोपपन्नास्ते रामं दृष्ट्वा महर्षयः।अभ्यगच्छंस्तदा प्रीता वैदेहीं च यशस्विनीम्॥ १०ते तं सोममिवोद्यन्तं दृष्ट्वा वै धर्मचारिणः।मङ्गलानि प्रयुञ्जानाः प्रत्यगृह्णन्दृढव्रताः॥ ११रूपसंहननं लक्ष्मीं सौकुमार्यं सुवेषताम्।ददृशुर्विस्मिताकारा रामस्य वनवासिनः॥ १२वैदेहीं लक्ष्मणं रामं नेत्रैरनिमिषैरिव।आश्चर्यभूतान्ददृशुः सर्वे ते वनचारिणः॥ १३अत्रैनं हि महाभागाः सर्वभूतहिते रताः।अतिथिं पर्णशालायां राघवं संन्यवेशयन्॥ १४ततो रामस्य सत्कृत्य विधिना पावकोपमाः।आजह्रुस्ते महाभागाः सलिलं धर्मचारिणः॥ १५मूलं पुष्पं फलं वन्यमाश्रमं च महात्मनः।निवेदयीत्वा धर्मज्ञास्ततः प्राञ्जलयोऽब्रुवन्॥ १६धर्मपालो जनस्यास्य शरण्यश्च महायशाः।पूजनीयश्च मान्यश्च राजा दण्डधरो गुरुः॥ १७इन्द्रस्यैव चतुर्भागः प्रजा रक्षति राघव।राजा तस्माद्वनान्भोगान्भुङ्क्ते लोकनमस्कृतः॥ १८ते वयं भवता रक्ष्या भवद्विषयवासिनः।नगरस्थो वनस्थो वा त्वं नो राजा जनेश्वरः॥ १९न्यस्तदण्डा वयं राजञ्जितक्रोधा जितेन्द्रियाः।रक्षितव्यास्त्वया शश्वद्गर्भभूतास्तपोधनाः॥ २०एवमुक्त्वा फलैर्मूलैः पुष्पैर्वन्यैश्च राघवम्।अन्यैश्च विविधाहारैः सलक्ष्मणमपूजयन्॥ २१तथान्ये तापसाः सिद्धा रामं वैश्वानरोपमाः।न्यायवृत्ता यथान्यायं तर्पयामासुरीश्वरम्॥ २२इति श्रीरामायणे अरण्यकाण्डे प्रथमः सर्गः ॥ १
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved